४-६. खीररुक्खोपमसुत्तादिवण्णना
२३१-२३३. चतुत्थे अप्पहीनट्ठेन अत्थि, तेनेवाह सो अप्पहीनोति. परित्ताति, पब्बतमत्तम्पि रूपं अनिट्ठं अरजनीयं परित्तं नाम होति, एवरूपापिस्स रूपा चित्तं परियादियन्तीति दस्सेति. को पन वादो अधिमत्तानन्ति इट्ठारम्मणं पनस्स रजनीयं वत्थु चित्तं परियादियतीति एत्थ का कथा? एत्थ च नखपिट्ठिपमाणम्पि मणिमुत्तादि रजनीयं वत्थु अधिमत्तारम्मणमेवाति वेदितब्बं. दहरोतिआदीनि तीणिपि अञ्ञमञ्ञवेवचनानेव. आभिन्देय्याति पहरेय्य पदालेय्य वा. पञ्चमे तदुभयन्ति तं उभयं. छट्ठं उत्तानमेव.