६-७. अन्तेवासिकसुत्तादिवण्णना
१५१-१५२. छट्ठे अनन्तेवासिकन्ति अन्तो वसनककिलेसविरहितं. अनाचरियकन्ति आचरणककिलेसविरहितं. अन्तस्स वसन्तीति अन्तो अस्स वसन्ति. ते नं समुदाचरन्तीति ते एतं अधिभवन्ति अज्झोत्थरन्ति सिक्खापेन्ति वा. ‘‘एवं वेज्जकम्मं करोहि, एवं दूतकम्म’’न्ति इति सिक्खापनसङ्खातेन समुदाचरणत्थेनस्स ते आचरिया नाम होन्ति, तेहि आचरियेहि साचरियकोति वुच्चति. सेसमेत्थ वुत्तनयेनेव वेदितब्बं. सत्तमं हेट्ठा कथितनयमेव.