३. पठमरूपारामसुत्तवण्णना

१३६. ततिये रूपसम्मुदिताति रूपे सम्मुदिता पमोदिता. दुक्खाति दुक्खिता. सुखोति निब्बानसुखेन सुखितो. केवलाति सकला. यावतत्थीति वुच्चतीति यत्तका अत्थीति वुच्चति. एते वोति एत्थ वो-कारो निपातमत्तं. पच्चनीकमिदं होति, सब्बलोकेन पस्सतन्ति यं इदं पस्सन्तानं पण्डितानं दस्सनं, तं सब्बलोकेन पच्चनीकं होति विरुद्धं. लोको हि पञ्चक्खन्धे निच्चा सुखा अत्ता सुभाति मञ्ञति, पण्डिता अनिच्चा दुक्खा अनत्ता असुभाति. सुखतो आहूति सुखन्ति कथेन्ति. सुखतो विदूति सुखन्ति जानन्ति. सब्बमेतं निब्बानमेव सन्धाय वुत्तं.

सम्मूळ्हेत्थाति एत्थ निब्बाने सम्मूळ्हा. अविद्दसूति बाला. सब्बेपि हि छन्नवुतिपासण्डिनो ‘‘निब्बानं पापुणिस्सामा’’ति सञ्ञिनो होन्ति, ते पन ‘‘निब्बानं नाम इद’’न्तिपि न जानन्ति. निवुतानन्ति किलेसनीवरणेन निवुतानं परियोनद्धानं. अन्धकारो अपस्सतन्ति अपस्सन्तानं अन्धकारो होति. किं तं एवं होति? निब्बानं वा निब्बानदस्सनं वा अपस्सन्तानञ्हि बालानं निब्बानम्पि निब्बानदस्सनम्पि काळमेघअवच्छादितं विय चन्दमण्डलं कटाहेन पटिकुज्जितपत्तो विय च निच्चकालं तमो चेव अन्धकारो च सम्पज्जति.

सतञ्च विवटं होति, आलोको पस्सतामिवाति सतञ्च सप्पुरिसानं पञ्ञादस्सनेन पस्सन्तानं निब्बानं आलोको विय विवटं होति. सन्तिके न विजानन्ति, मगा धम्मस्स अकोविदाति यं अत्तनो सरीरे केसे वा लोमादीसु वा अञ्ञतरकोट्ठासं परिच्छिन्दित्वा अनन्तरमेव अधिगन्तब्बतो अत्तनो वा खन्धानं निरोधमग्गतो सन्तिके निब्बानं. तं एवं सन्तिके समानम्पि मग्गभूता जना मग्गामग्गधम्मस्स चतुसच्चधम्मस्स वा अकोविदा न जानन्ति.

मारधेय्यानुपन्नेहीति तेभूमकवट्टं मारस्स निवासट्ठानं अनुपन्नेहि. को नु अञ्ञत्र अरियेभीति ठपेत्वा अरिये को नु अञ्ञो निब्बानपदं जानितुं अरहति. सम्मदञ्ञाय परिनिब्बन्तीति अरहत्तपञ्ञाय सम्मा जानित्वा अनन्तरमेव अनासवा हुत्वा किलेसपरिनिब्बानेन परिनिब्बन्ति. अथ वा सम्मदञ्ञाय अनासवा हुत्वा अन्ते खन्धपरिनिब्बानेन परिनिब्बायन्ति.