१३. गहपतिवग्गो

१-३. वेसालीसुत्तादिवण्णना

१२४-१२६. गहपतिवग्गस्स पठमे उग्गोति पणीतदायकानं अग्गउग्गो, सो भगवता ‘‘एतदग्गं, भिक्खवे, मम सावकानं पणीतदायकानं यदिदं उग्गो गहपती’’ति एवं एतदग्गे ठपितो. सेसमेतेसु चेव द्वीसु, ततिये च वुत्तत्थमेव.

४-५. भारद्वाजसुत्तादिवण्णना

१२७-१२८. चतुत्थे पिण्डं उलमानो परियेसमानो पब्बजितोति पिण्डोलो. सो किर परिजिण्णभोगो ब्राह्मणो अहोसि. अथ भिक्खुसङ्घस्स लाभसक्कारं दिस्वा पिण्डत्थाय निक्खमित्वा पब्बजितो. सो महन्तं कपल्लपत्तं गहेत्वा चरति, तेन कपल्लपूरं यागुं पिवति, कपल्लपूरे पूवे खादति, कपल्लपूरं भत्तं भुञ्जति. अथस्स महग्घसभावं सत्थु आरोचयिंसु. सत्था तस्स पत्तत्थविकं नानुजानि. हेट्ठामञ्चे पत्तं निक्कुज्जित्वा ठपेति. सो ठपेन्तोपि घंसन्तोव पणामेत्वा ठपेति, गण्हन्तोपि घंसन्तोव आकड्ढित्वा गण्हाति. तं गच्छन्ते काले धंसनेन परिक्खीणं नाळिकोदनमत्तमेव गण्हनकं जातं. ततो सत्थु आरोचेसुं, अथस्स सत्था पत्तत्थविकं अनुजानि. थेरो अपरेन समयेन इन्द्रियभावनं भावेत्वा अग्गफले अरहत्ते पतिट्ठासि. इति सो पिण्डत्थाय पब्बजितत्ता पिण्डोलो, गोत्तेन पन भारद्वाजोति उभयं एकतो कत्वा पिण्डोलभारद्वाजोति वुच्चति.

उपसङ्कमीति उग्गतुग्गतेहि महाअमच्चेहि परिवुतो उपसङ्कमि. थेरो किर एकदिवसं सावत्थियं पिण्डाय चरित्वा कतभत्तकिच्चो निदाघसमये सीतठाने दिवाविहारं निसीदिस्सामीति आकासेन गन्त्वा गङ्गातीरे उदेनस्स रञ्ञो उदपानं नाम उय्यानं अत्थि, तत्थ पविसित्वा अञ्ञतरस्मिं रुक्खमूले दिवाविहारं निसीदि सीतेन उदकवातेन बीजियमानो.

उदेनोपि खो नाम राजा सत्ताहं महापानं पिवित्वा सत्तमे दिवसे उय्यानं पटिजग्गापेत्वा महाजनपरिवारो उय्यानं गन्त्वा मङ्गलसिलापट्टे अत्थताय सेय्याय निपज्जि. तस्स एका परिचारिका पादे सम्बाहमाना निसिन्ना. राजा कमेन निद्दं ओक्कमि. तस्मिं निद्दं ओक्कन्ते नाटकित्थियो ‘‘यस्सत्थाय मयं गीतादीनि पयोजेय्याम, सो निद्दं उपगतो, न च निद्दाकाले महासद्दं कातुं वट्टती’’ति अत्तनो अत्तनो तूरियानि ठपेत्वा उय्यानं पक्कन्ता. ता तत्थ तत्थ फलाफलानि खादमाना पुप्फानि पिळन्धमाना विचरन्तियो थेरं दिस्वा ‘‘मा सद्दं करित्था’’ति अञ्ञमञ्ञं निवारयमाना वन्दित्वा निसीदिंसु. थेरो ‘‘इस्सा पहातब्बा, मच्छेरं विनोदेतब्ब’’न्तिआदिना नयेन तासं अनुरूपं धम्मकथं कथेसि.

सापि खो रञ्ञो पादे सम्बाहमाना निसिन्ना इत्थी पादे चालेत्वा राजानं पबोधेसि. सो ‘‘कहं ता गता’’ति पुच्छि. किं तासं तुम्हेहि? ता एकं समणं परिवारेत्वा निसिन्नाति. राजा कुद्धो उद्धने पक्खित्तलोणं विय तटतटायमानो उट्ठहित्वा ‘‘तम्बकिपिल्लिकाहि नं खादापेस्सामी’’ति गच्छन्तो एकस्मिं असोकरुक्खे तम्बकिपिल्लिकानं पुटं दिस्वा हत्थेनाकड्ढित्वा साखं गण्हितुं नासक्खि. किपिल्लिकपुटो छिज्जित्वा रञ्ञो सीसे पति, सकलसरीरं सालिथुसेहि परिकिण्णं विय दण्डदीपिकाहि डय्हमानं विय च अहोसि. थेरो रञ्ञो पदुट्ठभावं ञत्वा इद्धिया आकासं पक्खन्दि. तापि इत्थियो उट्ठाय रञ्ञो सन्तिकं गन्त्वा सरीरं पुञ्छन्तियो विय भूमियं पतितपतिता किपिल्लिकायो गहेत्वा सरीरे खिपमाना सब्बा मुखसत्तीहि विज्झिंसु – ‘‘किं नामेतं, अञ्ञे राजानो पब्बजिते दिस्वा वन्दन्ति, पञ्हं पुच्छन्ति, अयं पन राजा किपिल्लिकपुटं सीसे भिन्दितुकामो जातो’’ति.

राजा अत्तनो अपराधं दिस्वा उय्यानपालं पक्कोसापेत्वा पुच्छि – ‘‘किं एस पब्बजितो? अञ्ञेसुपि दिवसेसु इध आगच्छती’’ति? आम, देवाति. इध त्वं आगतदिवसे मय्हं आरोचेय्यासीति. थेरोपि कतिपाहेनेव पुन आगन्त्वा रुक्खमूले निसीदि. उय्यानपालो दिस्वा – ‘‘महन्तो मे अयं पण्णाकारो’’ति वेगेन गन्त्वा रञ्ञो आरोचेसि. राजा उट्ठहित्वा सङ्खपणवादिसद्दं निवारेत्वा उग्गतुग्गतेहि अमच्चेहि सद्धिं उय्यानं अगमासि. तेन वुत्तं ‘‘उपसङ्कमी’’ति.

अनिकीळिताविनो कामेसूति या कामेसु कामकीळा, तं अकीळितपुब्बा, अपरिभुत्तकामाति अत्थो. अद्धानञ्च आपादेन्तीति पवेणिं पटिपादेन्ति, दीघरत्तं अनुबन्धापेन्ति. मातुमत्तीसूति मातुपमाणासु. लोकस्मिञ्हि माता भगिनी धीताति इदं तिविधं गरुकारम्मणं नाम, इति गरुकारम्मणे उपनिबन्धं चित्तं विमोचेतुं न लभतीति दस्सेन्तो एवमाह. अथस्स तेन पञ्हेन चित्तं अनोतरन्तं दिस्वा भगवता पटिकूलमनसिकारवसेन चित्तूपनिबन्धनत्थं वुत्तं द्वत्तिंसाकारकम्मट्ठानं कथेसि.

अभावितकायाति अभावितपञ्चद्वारिककाया. तेसं तं दुक्करं होतीति तेसं तं असुभकम्मट्ठानं भावेतुं दुक्करं होति. इतिस्स इमिनापि चित्तं अनोतरन्तं दिस्वा इन्द्रियसंवरसीलं कथेसि. इन्द्रियसंवरस्मिञ्हि उपनिबन्धचित्तं विहेठेतुं न लभति. राजा तं सुत्वा तत्थ ओतिण्णचित्तो अच्छरियं, भो भारद्वाजातिआदिमाह.

अरक्खितेनेव कायेनातिआदीसु हत्थपादे कीळापेन्तो गीवं परिवत्तेन्तो कायं न रक्खति नाम, नानप्पकारं दुट्ठुल्लं कथेन्तो वचनं न रक्खति नाम, कामवितक्कादयो वितक्केन्तो चित्तं न रक्खति नाम. रक्खितेनेव कायेनातिआदीसु वुत्तविपरियायेन अत्थो वेदितब्बो.

अतिविय मं तस्मिं समये लोभधम्मा परिसहन्तीति मं तस्मिं समये अतिक्कमित्वा लोभो अधिभवतीति अत्थो. उपट्ठिताय सतियाति कायगताय सतिया सुपट्ठिताय. न मं तथा तस्मिं समयेति तस्मिं समये मं यथा पुब्बे, न तथा लोभो अतिक्कमित्वा उप्पज्जतीति अत्थो. परिसहन्तीति पदस्स उप्पज्जन्तीतिपि अत्थोयेव. इति इमस्मिं सुत्ते तयो काया कथिता. कथं? ‘‘इममेव काय’’न्ति एत्थ हि करजकायो कथितो, ‘‘भावितकायो’’ति एत्थ पञ्चद्वारिककायो, ‘‘रक्खितेनेव कायेना’’ति एत्थ चोपनकायो, कायविञ्ञत्तीति अत्थो. पञ्चमं उत्तानमेव.

६. घोसितसुत्तवण्णना

१२९. छट्ठे रूपा च मनापाति रूपा च मनापा संविज्जन्ति. चक्खुविञ्ञाणञ्चाति चक्खुविञ्ञाणञ्च संविज्जति. सुखवेदनियं फस्सन्ति चक्खुविञ्ञाणसम्पयुत्तं उपनिस्सयवसेन जवनकाले सुखवेदनाय पच्चयभूतं फस्सं. सुखा वेदनाति एकं फस्सं पटिच्च जवनवसेन सुखवेदना उप्पज्जति. सेसपदेसुपि एसेव नयो.

इति इमस्मिं सुत्ते तेवीसति धातुयो कथिता. कथं? एत्थ हि चक्खुपसादो चक्खुधातु, तस्स आरम्मणं रूपधातु, चक्खुविञ्ञाणं विञ्ञाणधातु, चक्खुविञ्ञाणधातुया सहजाता तयो खन्धा धम्मधातु, एवं पञ्चसु द्वारेसु चतुन्नं चतुन्नं वसेन वीसति. मनोद्वारे ‘‘मनोधातू’’ति आवज्जनचित्तं गहितं, आरम्मणञ्चेव हदयवत्थु च धम्मधातु, वत्थुनिस्सितं मनोविञ्ञाणधातूति एवं तेवीसति होन्ति. एवं तेवीसतिया धातूनं वसेन धातुनानत्तं वुत्तं भगवताति दस्सेति.

७-८. हालिद्दिकानिसुत्तादिवण्णना

१३०-१३१. सत्तमे मनापं इत्थेतन्ति पजानातीति यं अनेन मनापं रूपं दिट्ठं, तं इत्थेतन्ति एवमेतं मनापमेव तन्ति पजानाति. चक्खुविञ्ञाणं सुखवेदनियञ्च फस्सं पटिच्चाति चक्खुविञ्ञाणञ्चेव, यो च उपनिस्सयकोटिया वा अनन्तरकोटिया वा समनन्तरकोटिया वा सम्पयुत्तकोटिया वा सुखवेदनाय पच्चयो फस्सो, तं सुखवेदनियं फस्सञ्च पटिच्च उप्पज्जति सुखवेदनाति. एस नयो सब्बत्थ. इति इमेसु द्वीसु सुत्तेसु किरियामनोविञ्ञाणधातु आवज्जनकिच्चा, मनोधातुयेव वा समाना मनोधातुनामेन वुत्ताति वेदितब्बा. अट्ठमं उत्तानमेव.

९. लोहिच्चसुत्तवण्णना

१३२. नवमे मक्करकतेति एवंनामके नगरे अरञ्ञकुटिकायन्ति अरञ्ञे कताय पाटियेक्काय कुटियं, न विहारपच्चन्तकुटियं. माणवकाति येपि तत्थ महल्लका, ते महल्लककालेपि अन्तेवासिकताय माणवकात्वेव वुत्ता. तेनुपसङ्कमिंसूति पातो सिप्पं उग्गण्हित्वा सायं ‘‘आचरियस्स कट्ठानि आहरिस्सामा’’ति अरञ्ञं पविसित्वा विचरन्ता येन सा कुटिका, तेनुपसङ्कमिंसु. परितो परितो कुटिकायाति तस्सा कुटिकाय समन्ततो समन्ततो. सेलेय्यकानीति अञ्ञमञ्ञस्स पिट्ठिं गहेत्वा लङ्घित्वा इतो चितो चङ्कमनकीळनानि.

मुण्डकातिआदीसु मुण्डे मुण्डाति, समणे च समणाति वत्तुं वट्टेय्य, इमे पन हीळेन्ता ‘‘मुण्डका समणका’’ति आहंसु. इब्भाति गहपतिका. कण्हाति कण्हा, काळकाति अत्थो. बन्धुपादापच्चाति एत्थ बन्धूति ब्रह्मा अधिप्पेतो. तञ्हि ब्राह्मणा पितामहोति वोहरन्ति. पादानं अपच्चा पादापच्चा, ब्रह्मुनो पिट्ठिपादतो जाताति अधिप्पायो. तेसं किर अयं लद्धि ‘‘ब्राह्मणा ब्रह्मुनो मुखतो निक्खन्ता, खत्तिया उरतो, वेस्सा नाभितो, सुद्दा जाणुतो, समणा पिट्ठिपादतो’’ति. भरतकानन्ति कुटिम्बिकानं. कुटिम्बिका हि यस्मा रट्ठं भरन्ति, तस्मा भरताति वुच्चन्ति. इमे पन परिभवं कत्वा वदमाना ‘‘भरतकान’’न्ति आहंसु.

विहारा निक्खमित्वाति ‘‘रत्तिट्ठकापरिच्छन्ने रजतपट्टसन्निभसमविप्पकिण्णवालिके रमणीये परिवेणे कट्ठकलापे बन्धित्वा खिपमाना वालिकं आलुळेत्वा, हत्थेन हत्थं आदाय पण्णकुटिं परियायन्ता ‘इमे इमेसं भरतकानं सक्कता, इमे इमेसं भरतकानं सक्कता’ति पुनप्पुनं विरवन्ता अतिविय इमे माणवका कीळं करोन्ति, विहारे भिक्खूनं अत्थिभावम्पि न जानन्ति, दस्सेस्सामि नेसं भिक्खूनं अत्थिभाव’’न्ति चिन्तेत्वा पण्णकुटितो निक्खमि.

सीलुत्तमा पुब्बतरा अहेसुन्ति गुणवन्तानं गुणे कथिते निग्गुणानं गुणाभावो पाकटोव भविस्सतीति पोराणकब्राह्मणानं गुणे कथेन्तो एवमाह. तत्थ सीलुत्तमाति सीलजेट्ठका. सीलञ्हि तेसं उत्तमं, न जातिगोत्तं. ये पुराणं सरन्तीति ये पोराणकं ब्राह्मणधम्मं सरन्ति. अभिभुय्य कोधन्ति कोधं अभिभवित्वा तेसं द्वारानि सुगुत्तानि सुरक्खितानि अहेसुं. धम्मे च झाने च रताति दसविधे कुसलकम्मपथधम्मे अट्ठसमापत्तिझानेसु च रता.

एवं पोराणानं गुणं कथेत्वा अथेतरहि ब्राह्मणानं मानं निम्मद्देन्तो इमे च वोक्कम्म जपामसेतिआदिमाह. तत्थ वोक्कम्माति एतेहि गुणेहि अपक्कमित्वा. जपामसेति मयं जपाम सज्झायामाति एत्तकेनेव ब्राह्मणम्हाति मञ्ञमाना ब्राह्मणा मयन्ति इमिना गोत्तेन मत्ता हुत्वा विसमं चरन्ति, विसमानि कायकम्मादीनि करोन्तीति अत्थो. पुथुअत्तदण्डाति पुथु अत्ता दण्डा एतेहीति पुथुअत्तदण्डा, गहितनानाविधदण्डाति अत्थो. सतण्हातण्हेसूति सतण्हनित्तण्हेसु. अगुत्तद्वारस्स भवन्ति मोघाति असंवुतद्वारस्स सब्बेपि वतसमादाना मोघा भवन्तीति दीपेति. यथा किन्ति? सुपिनेव लद्धं पुरिसस्स वित्तन्ति यथा सुपिने पुरिसस्स लद्धं मणिमुत्तादिनानाविधं वित्तं मोघं होति, पबुज्झित्वा किञ्चि न पस्सति, एवं मोघा भवन्तीति अत्थो.

अनासकाति एकाहद्वीहादिवसेन अनाहारका. थण्डिलसायिका चाति हरितकुससन्थते भूमिभागे सयनं, पातो सिनानञ्च तयो च वेदाति पातोव उदकं पविसित्वा न्हानञ्चेव तयो च वेदा. खराजिनं जटा पङ्कोति खरसम्फस्सं अजिनचम्मञ्चेव जटाकलापो च पङ्को च, पङ्को नाम दन्तमलं. मन्ता सीलब्बतं तपोति मन्ता च अजसीलगोसीलसङ्खातं सीलं अजवतगोवतसङ्खातं वतञ्च. अयं इदानि ब्राह्मणानं तपोति वदति. कुहना वङ्कदण्डा चाति पटिच्छन्नकूपो विय पटिच्छन्नदोसं कोहञ्ञञ्चेव वङ्कदण्डो, च उदुम्बरपलासबेळुवरुक्खानं अञ्ञतरतो गहितं वङ्कदण्डञ्चाति अत्थो. उदकाचमनानि चाति उदकेन मुखपरिमज्जनानि. वण्णा एते ब्राह्मणानन्ति एते ब्राह्मणानं परिक्खारभण्डकवण्णाति दस्सेति. कत किञ्चिक्खभावनाति कता किञ्चिक्खभावना. अयमेव वा पाठो, आमिसकिञ्चिक्खस्स वड्ढनत्थाय कतन्ति अत्थो.

एवं एतरहि ब्राह्मणानं मानं निम्मद्दित्वा पुन पोराणकब्राह्मणानं वण्णं कथेन्तो चित्तञ्च सुसमाहितन्तिआदिमाह. तत्थ सुसमाहितन्ति तेसं ब्राह्मणानं चित्तं उपचारप्पनासमाधीहि सुसमाहितं अहोसीति दस्सेति. अखिलन्ति मुदु अथद्धं. सो मग्गो ब्रह्मपत्तियाति सो सेट्ठपत्तिया मग्गो, तुम्हे पन किं ब्राह्मणा नामाति दीपेन्तो एवमाह.

आगमंसु नु ख्विधाति आगमंसु नु खो इध. अधिमुच्चतीति किलेसवसेन अधिमुत्तो गिद्धो होति. ब्यापज्जतीति ब्यापादवसेन पूतिचित्तं होति. परित्तचेतसोति अनुपट्ठितसतिताय संकिलेसचित्तेन परित्तचित्तो. चेतोविमुत्तिन्ति फलसमाधिं. पञ्ञाविमुत्तिन्ति फलपञ्ञं. अप्पमाणचेतसोति उपट्ठितसतिताय निक्किलेसचित्तेन अप्पमाणचित्तो.

१०. वेरहच्चानिसुत्तवण्णना

१३३. दसमे कामण्डायन्ति एवंनामके नगरे. यग्घेति चोदनत्थे निपातो. सेसं उत्तानमेवाति.

गहपतिवग्गो तेरसमो.