४. कामगुणसुत्तवण्णना
११७. चतुत्थे ये मेति ये मम. चेतसो सम्फुट्ठपुब्बाति चित्तेन अनुभूतपुब्बा. तत्र मे चित्तं बहुलं गच्छमानं गच्छेय्याति तेसु पासादत्तयतिविधनाटकादिभेदसम्पत्तिवसेन अनुभूतपुब्बेसु पञ्चसु कामगुणेसु बहूसु वारेसु उप्पज्जमानं उप्पज्जेय्याति दीपेति. पच्चुप्पन्नेसु वाति इध पधानचरियकाले छब्बस्सानि सुपुप्फितवनसण्डजातानं दिजगणादीनं वसेन दिट्ठसुतादिभेदं मनोरमारम्मणं कामगुणं कत्वा दस्सेन्तो ‘‘एवरूपेसु पच्चुप्पन्नेसु वा बहुलं उप्पज्जेय्या’’ति दस्सेति. अप्पं वा अनागतेसूति अनागते ‘‘मेत्तेय्यो नाम बुद्धो भविस्सति, सङ्खो नाम राजा, केतुमती नाम राजधानी’’तिआदिवसेन (दी. नि. ३.१०६) परित्तकमेव अनागतेसु कामगुणेसु उप्पज्जेय्याति दस्सेति. तत्र मे अत्तरूपेनाति तत्र मया अत्तनो हितकामजातिकेन. अप्पमादोति सातच्चकिरिया पञ्चसु कामगुणेसु चित्तस्स अवोस्सग्गो. सतीति आरम्मणपरिग्गहितसति. आरक्खोति अयं अप्पमादो च सति च चेतसो आरक्खो करणीयो, एवं मे अहोसीति दस्सेति, आरक्खत्थाय इमे द्वे धम्मा कातब्बाति वुत्तं होति.
तस्मातिह, भिक्खवे, से आयतने वेदितब्बेति यस्मा चेतसो आरक्खत्थाय अप्पमादो च सति च कातब्बा, यस्मा तस्मिं आयतने विदिते अप्पमादेन वा सतिया वा कातब्बं नत्थि, तस्मा से आयतने वेदितब्बे, तं कारणं जानितब्बन्ति अत्थो. सळायतननिरोधन्ति सळायतननिरोधो वुच्चति निब्बानं, तं सन्धाय भासितन्ति अत्थो. निब्बानस्मिञ्हि चक्खुआदीनि चेव निरुज्झन्ति रूपसञ्ञादयो च निरुज्झन्तीति. सेसं वुत्तनयमेव.