४. पमादविहारीसुत्तवण्णना
९७. चतुत्थे असंवुतस्साति अपिहितस्स न पिदहित्वा सञ्छादित्वा ठपितस्स. ब्यासिञ्चतीति विआसिञ्चति, किलेसतिन्तं हुत्वा वत्तति. पामोज्जन्ति दुब्बलपीति. पीतीति बलवपीति. पस्सद्धीति दरथपस्सद्धि. धम्मा न पातुभवन्तीति समथविपस्सनाधम्मा न उप्पज्जन्ति. इमस्मिं सुत्ते पुग्गलं पुच्छित्वा विभजन्तेन धम्मेन पुग्गलो दस्सितो.