२. मालुक्यपुत्तसुत्तवण्णना

९५. दुतिये मालुक्यपुत्तोति मालुक्यब्राह्मणिया पुत्तो. एत्थाति एतस्मिं तव ओवादायाचने. इमिना थेरं अपसादेतिपि उस्सादेतिपि. कथं? अयं किर दहरकाले रूपादीसु पमज्जित्वा पच्छा महल्लककाले अरञ्ञवासं पत्थेन्तो कम्मट्ठानं याचति. अथ भगवा ‘‘एत्थ दहरे किं वक्खाम? मालुक्यपुत्तो विय तुम्हेपि तरुणकाले पमज्जित्वा महल्लककाले अरञ्ञं पविसित्वा समणधम्मं करेय्याथा’’ति इमिना अधिप्पायेन भणन्तो थेरं अपसादेति नाम.

यस्मा पन थेरो महल्लककालेपि अरञ्ञं पविसित्वा समणधम्मं कातुकामो, तस्मा भगवा ‘‘एत्थ दहरे किं वक्खाम? अयं अम्हाकं मालुक्यपुत्तो महल्लककालेपि अरञ्ञं पविसित्वा समणधम्मं कत्तुकामो कम्मट्ठानं याचति, तुम्हे नाम तरुणकालेपि वीरियं न करोथा’’ति इमिना अधिप्पायेन भणन्तो थेरं उस्सादेति नाम.

यत्र हि नामाति यो नाम. किञ्चापाहन्ति किञ्चापि ‘‘अहं महल्लको’’ति ञातं. यदि अहं महल्लको, महल्लको समानोपि सक्खिस्सामि समणधम्मं कातुं, देसेतु मे, भन्ते, भगवाति अधिप्पायेन महल्लकभावं अनुग्गण्हन्तो ओवादञ्च पसंसन्तो एवमाह.

अदिट्ठा अदिट्ठपुब्बाति इमस्मिं अत्तभावे अदिट्ठा अतीतेपि अदिट्ठपुब्बा. न च पस्ससीति एतरहिपि न पस्ससि. न च ते होति पस्सेय्यन्ति एवं समन्नाहारोपि ते यत्थ नत्थि, अपि नु ते तत्थ छन्दादयो उप्पज्जेय्युन्ति पुच्छति.

दिट्ठे दिट्ठमत्तन्ति रूपायतने चक्खुविञ्ञाणेन दिट्ठे दिट्ठमत्तं भविस्सति. चक्खुविञ्ञाणञ्हि रूपे रूपमत्तमेव पस्सति, न निच्चादिसभावं, इति सेसविञ्ञाणेहिपि मे एत्थ दिट्ठमत्तमेव चित्तं भविस्सतीति अत्थो. अथ वा दिट्ठे दिट्ठं नाम चक्खुविञ्ञाणं, रूपे रूपविजाननन्ति अत्थो. मत्ताति पमाणं, दिट्ठं मत्ता अस्साति दिट्ठमत्तं, चित्तं, चक्खुविञ्ञाणमत्तमेव मे चित्तं भविस्सतीति अत्थो. इदं वुत्तं होति – यथा आपाथगतरूपे चक्खुविञ्ञाणं न रज्जति न दुस्सति न मुय्हति, एवं रागादिविरहेन चक्खुविञ्ञाणमत्तमेव जवनं भविस्सति, चक्खुविञ्ञाणपमाणेनेव जवनं ठपेस्सामीति. अथ वा दिट्ठं नाम चक्खुविञ्ञाणेन दिट्ठरूपं, दिट्ठे दिट्ठमत्तं नाम तत्थेव उप्पन्नं सम्पटिच्छनसन्तीरणवोट्ठब्बनसङ्खातं चित्तत्तयं. यथा तं न रज्जति, न दुस्सति, न मुय्हति, एवं आपाथगते रूपे तेनेव सम्पटिच्छनादिप्पमाणेन जवनं उप्पादेस्सामि, नाहं तं पमाणं अतिक्कमित्वा रज्जनादिवसेन उप्पज्जितुं दस्सामीति अयमेत्थ अत्थो. एसेव नयो सुतमुतेसु.

विञ्ञाते विञ्ञातमत्तन्ति एत्थ पन विञ्ञातं नाम मनोद्वारावज्जनेन विञ्ञातारम्मणं, तस्मिं विञ्ञाते विञ्ञातमत्तन्ति आवज्जनपमाणं. यथा आवज्जनेन न रज्जति न दुस्सति न मुय्हति, एवं रज्जनादिवसेन उप्पज्जितुं अदत्वा आवज्जनपमाणेनेव चित्तं ठपेस्सामीति अयमेत्थ अत्थो.

यतोति यदा. ततोति तदा. न तेनाति तेन रागेन वा रत्तो, दोसेन वा दुट्ठो, मोहेन वा मूळ्हो न भविस्सति. ततो त्वं मालुक्यपुत्त न तत्थाति यदा त्वं तेन रागेन वा दोसमोहेहि वा रत्तो वा दुट्ठो वा मूळ्हो वा न भविस्ससि, तदा त्वं न तत्थ तस्मिं दिट्ठे वा सुतमुतविञ्ञाते वा पटिबद्धो अल्लीनो पतिट्ठितो नाम भविस्ससि. नेविधातिआदि वुत्तत्थमेव.

सति मुट्ठाति सति नट्ठा. तञ्च अज्झोसाति तं आरम्मणं गिलित्वा. अभिज्झा च विहेसा चाति अभिज्झाय च विहिंसाय च. अथ वा ‘‘तस्स वड्ढन्ती’’ति पदेनापि सद्धिं योजेतब्बं, अभिज्झा च विहेसा चाति इमेपि द्वे धम्मा तस्स वड्ढन्तीति अत्थो.

चित्तमस्सूपहञ्ञतीति अभिज्झाविहेसाहि अस्स चित्तं उपहञ्ञति. आचिनतोति आचिनन्तस्स. आरा निब्बान वुच्चतीति एवरूपस्स पुग्गलस्स निब्बानं नाम दूरे पवुच्चति. घत्वाति घायित्वा. भोत्वाति भुत्वा सायित्वा लेहित्वा. फुस्साति फुसित्वा. पटिस्सतोति पटिस्सतिसङ्खाताय सतिया युत्तो. सेवतो चापि वेदनन्ति चतुमग्गसम्पयुत्तं निब्बत्तितलोकुत्तरवेदनं सेवन्तस्स. खीयतीति खयं गच्छति. किं तं? दुक्खम्पि किलेसजातम्पि. अञ्ञतरोति असीतिया महासावकानं अब्भन्तरो एको. इति इमस्मिं सुत्ते गाथाहिपि वट्टविवट्टमेव कथितं.