४. अनुराधसुत्तवण्णना
८६. चतुत्थे अरञ्ञकुटिकायन्ति तस्सेव विहारस्स पच्चन्ते पण्णसालायं. तं तथागतोति तुम्हाकं सत्था तथागतो तं सत्तं तथागतं. अञ्ञत्र इमेहीति तस्स किर एवं अहोसि ‘‘इमे सासनस्स पटिपक्खा पटिविलोमा, यथा इमे भणन्ति, न एवं सत्था पञ्ञापेस्सति, अञ्ञथा पञ्ञापेस्सती’’ति. तस्मा एवमाह. एवं वुत्ते ते अञ्ञतित्थियाति एवं थेरेन अत्तनो च परेसञ्च समयं अजानित्वा वुत्ते एकदेसेन सासनसमयं जानन्ता थेरस्स वादे दोसं दातुकामा ते अञ्ञतित्थिया परिब्बाजका आयस्मन्तं अनुराधं एतदवोचुं.
तं किं मञ्ञसि अनुराधाति सत्था तस्स कथं सुत्वा चिन्तेसि – ‘‘अयं भिक्खु अत्तनो लद्धियं दोसं न जानाति, कारको पनेस युत्तयोगो, धम्मदेसनाय एव नं जानापेस्सामी’’ति तिपरिवट्टं देसनं देसेतुकामो ‘‘तं किं मञ्ञसि, अनुराधा’’तिआदिमाह. अथस्स ताय देसनाय अरहत्तप्पत्तस्स अनुयोगवत्तं आरोपेन्तो तं किं मञ्ञसि, अनुराध? रूपं तथागतोतिआदिमाह. दुक्खञ्चेव पञ्ञपेमि, दुक्खस्स च निरोधन्ति वट्टदुक्खञ्चेव वट्टदुक्खस्स च निरोधं निब्बानं पञ्ञपेमि. दुक्खन्ति वा वचनेन दुक्खसच्चं गहितं. तस्मिं गहिते समुदयसच्चं गहितमेव होति, तस्स मूलत्ता. निरोधन्ति वचनेन निरोधसच्चं गहितं. तस्मिं गहिते मग्गसच्चं गहितमेव होति तस्स उपायत्ता. इति पुब्बे चाहं, अनुराध, एतरहि च चतुसच्चमेव पञ्ञपेमीति दस्सेति. एवं इमस्मिं सुत्ते वट्टविवट्टमेव कथितं. चतुत्थं.