७. उपादापरितस्सनासुत्तवण्णना
७. सत्तमे उपादापरितस्सनन्ति गहणेन उप्पन्नं परितस्सनं. अनुपादाअपरितस्सनन्ति अग्गहणेन अपरितस्सनं. रूपविपरिणामानुपरिवत्तिविञ्ञाणं होतीति ‘‘मम रूपं विपरिणत’’न्ति वा ‘‘अहु वत मेतं, दानि वत मे नत्थी’’ति वा आदिना नयेन कम्मविञ्ञाणं रूपस्स भेदानुपरिवत्ति होति. विपरिणामानुपरिवत्तिजाति विपरिणामस्स अनुपरिवत्तितो विपरिणामारम्मणचित्ततो जाता. परितस्सना धम्मसमुप्पादाति तण्हापरितस्सना च अकुसलधम्मसमुप्पादा च. चित्तन्ति कुसलचित्तं. परियादाय तिट्ठन्तीति परियादियित्वा तिट्ठन्ति. उत्तासवाति सउत्तासो. विघातवाति सविघातो सदुक्खो. अपेक्खवाति सालयो. उपादाय च परितस्सतीति गण्हित्वा परितस्सको नाम होति. न रूपविपरिणामानुपरिवत्तीति खीणासवस्स कम्मविञ्ञाणमेव नत्थि, तस्मा रूपभेदानुपरिवत्ति न होतीति वत्तुं वट्टति. सत्तमं.