१. नकुलपितुवग्गो
१. नकुलपितुसुत्तवण्णना
१. खन्धियवग्गस्स पठमे भग्गेसूति एवंनामके जनपदे. सुसुमारगिरेति सुसुमारगिरनगरे. तस्मिं किर मापियमाने सुसुमारो सद्दमकासि, तेनस्स ‘‘सुसुमारगिर’’न्त्वेव नामं अकंसु. भेसकळावनेति भेसकळाय नाम यक्खिनिया अधिवुत्थत्ता एवंलद्धनामे वने. तदेव मिगगणस्स अभयत्थाय दिन्नत्ता मिगदायोति वुच्चति. भगवा तस्मिं जनपदे तं नगरं निस्साय तस्मिं वनसण्डे विहरति. नकुलपिताति नकुलस्स नाम दारकस्स पिता.
जिण्णोति जराजिण्णो. वुड्ढोति वयोवुड्ढो. महल्लकोति जातिमहल्लको. अद्धगतोति तियद्धगतो. वयोअनुप्पत्तोति तेसु तीसु अद्धेसु पच्छिमवयं अनुप्पत्तो. आतुरकायोति गिलानकायो. इदञ्हि सरीरं सुवण्णवण्णम्पि निच्चपग्घरणट्ठेन आतुरंयेव नाम. विसेसेन पनस्स जरातुरता ब्याधातुरता मरणातुरताति तिस्सो आतुरता होन्ति. तासु किञ्चापि एसो महल्लकत्ता जरातुरोव, अभिण्हरोगताय पनस्स ब्याधातुरता इध अधिप्पेता. अभिक्खणातङ्कोति अभिण्हरोगो निरन्तररोगो. अनिच्चदस्सावीति ताय आतुरताय इच्छितिच्छितक्खणे आगन्तुं असक्कोन्तो कदाचिदेव दट्ठुं लभामि, न सब्बकालन्ति अत्थो. मनोभावनीयानन्ति मनवड्ढकानं. येसु हि दिट्ठेसु कुसलवसेन चित्तं वड्ढति, ते सारिपुत्तमोग्गल्लानादयो महाथेरा मनोभावनीया नाम. अनुसासतूति पुनप्पुनं सासतु. पुरिमञ्हि वचनं ओवादो नाम, अपरापरं अनुसासनी नाम. ओतिण्णे वा वत्थुस्मिं वचनं ओवादो नाम, अनोतिण्णे तन्तिवसेन वा पवेणिवसेन वा वुत्तं अनुसासनी नाम. अपिच ओवादोति वा अनुसासनीति वा अत्थतो एकमेव, ब्यञ्जनमत्तमेव नानं.
आतुरो हायन्ति आतुरो हि अयं, सुवण्णवण्णो पियङ्गुसामोपि समानो निच्चपग्घरणट्ठेन आतुरोयेव. अण्डभूतोति अण्डं विय भूतो दुब्बलो. यथा कुक्कुटण्डं वा मयूरण्डं वा गेण्डुकं विय गहेत्वा खिपन्तेन वा पहरन्तेन वा न सक्का कीळितुं, तावदेव भिज्जति, एवमयम्पि कायो कण्टकेपि खाणुकेपि पक्खलितस्स भिज्जतीति अण्डं विय भूतोति अण्डभूतो. परियोनद्धोति सुखुमेन छविमत्तेन परियोनद्धो. अण्डञ्हि सारतचेन परियोनद्धं, तेन डंसमकसादयो निलीयित्वापि छविं छिन्दित्वा यूसं पग्घरापेतुं न सक्कोन्ति. इमस्मिं पन छविं छिन्दित्वा यं इच्छन्ति, तं करोन्ति. एवं सुखुमाय छविया परियोनद्धो. किमञ्ञत्र बाल्याति बालभावतो अञ्ञं किमत्थि? बालोयेव अयन्ति अत्थो. तस्माति यस्मा अयं कायो एवरूपो, तस्मा.
तेनुपसङ्कमीति रञ्ञो चक्कवत्तिस्स उपट्ठानं गन्त्वा अनन्तरं परिणायकरतनस्स उपट्ठानं गच्छन्तो राजपुरिसो विय, सद्धम्मचक्कवत्तिस्स भगवतो उपट्ठानं गन्त्वा, अनन्तरं धम्मसेनापतिस्स अपचितिं कातुकामो येनायस्मा सारिपुत्तो, तेनुपसङ्कमि. विप्पसन्नानीति सुट्ठु पसन्नानि. इन्द्रियानीति मनच्छट्ठानि इन्द्रियानि. परिसुद्धोति निद्दोसो. परियोदातोति तस्सेव वेवचनं. निरुपक्किलेसतायेव हि एस परियोदातोति वुत्तो, न सेतभावेन. एतस्स च परियोदाततं दिस्वाव इन्द्रियानं विप्पसन्नतं अञ्ञासि. नयग्गाहपञ्ञा किरेसा थेरस्स.
कथञ्हि नो सियाति केन कारणेन न लद्धा भविस्सति? लद्धायेवाति अत्थो. इमिना किं दीपेति? सत्थुविस्सासिकभावं. अयं किर सत्थु दिट्ठकालतो पट्ठाय पितिपेमं, उपासिका चस्स मातिपेमं पटिलभति. उभोपि ‘‘मम पुत्तो’’ति सत्थारं वदन्ति. भवन्तरगतो हि नेसं सिनेहो. सा किर उपासिका पञ्च जातिसतानि तथागतस्स माताव, सो च, गहपति, पिताव अहोसि. पुन पञ्च जातिसतानि उपासिका महामाता, उपासको महापिता, तथा चूळामाता चूळपिताति. एवं सत्था दियड्ढअत्तभावसहस्सं तेसंयेव हत्थे वड्ढितो. तेनेव ते यं नेव पुत्तस्स, न पितु सन्तिके कथेतुं सक्का, तं सत्थु सन्तिके निसिन्ना कथेन्ति. इमिनायेव च कारणेन भगवा ‘‘एतदग्गं, भिक्खवे, मम सावकानं उपासकानं विस्सासिकानं यदिदं नकुलपिता गहपति, यदिदं नकुलमाता गहपतानी’’ति (अ. नि. १.२५७) ते एतदग्गे ठपेसि. इति सो इमं विस्सासिकभावं पकासेन्तो कथञ्हि नो सियाति आह. अमतेन अभिसित्तोति नस्सिध अञ्ञं किञ्चि झानं वा विपस्सना वा मग्गो वा फलं वा ‘‘अमताभिसेको’’ति दट्ठब्बो, मधुरधम्मदेसनायेव पन ‘‘अमताभिसेको’’ति वेदितब्बो. दूरतोपीति तिरोरट्ठापि तिरोजनपदापि.
अस्सुतवा पुथुज्जनोति इदं वुत्तत्थमेव. अरियानं अदस्सावीतिआदीसु अरियाति आरकत्ता किलेसेहि, अनये न इरियनतो, अये इरियनतो, सदेवकेन च लोकेन अरणीयतो बुद्धा च पच्चेकबुद्धा च बुद्धसावका च वुच्चन्ति. बुद्धा एव वा इध अरिया. यथाह – ‘‘सदेवके, भिक्खवे, लोके…पे… तथागतो अरियो’’ति वुच्चतीति (सं. नि. ५.१०९८). सप्पुरिसानन्ति एत्थ पन पच्चेकबुद्धा तथागतसावका च सप्पुरिसाति वेदितब्बा. ते हि लोकुत्तरगुणयोगेन सोभना पुरिसाति सप्पुरिसा. सब्बेव वा एते द्वेधापि वुत्ता. बुद्धापि हि अरिया च सप्पुरिसा च, पच्चेकबुद्धा बुद्धसावकापि. यथाह –
‘‘यो वे कतञ्ञू कतवेदि धीरो,
कल्याणमित्तो दळ्हभत्ति च होति;
दुखितस्स सक्कच्च करोति किच्चं,
तथाविधं सप्पुरिसं वदन्ती’’ति. (जा. २.१७.७८);
‘‘कल्याणमित्तो दळ्हभत्ति च होती’’ति एत्तावता हि बुद्धसावको वुत्तो, कतञ्ञुतादीहि पच्चेकबुद्धबुद्धाति. इदानि यो तेसं अरियानं अदस्सनसीलो, न च दस्सने साधुकारी, सो ‘‘अरियानं अदस्सावी’’ति वेदितब्बो. सो च चक्खुना अदस्सावी, ञाणेन अदस्सावीति दुविधो. तेसु ञाणेन अदस्सावी इध अधिप्पेतो. मंसचक्खुना हि दिब्बचक्खुना वा अरिया दिट्ठापि अदिट्ठाव होन्ति तेसं चक्खूनं वण्णमत्तग्गहणतो न अरियभावगोचरतो. सोणसिङ्गालादयोपि चक्खुना अरिये पस्सन्ति, न चेते अरियानं दस्साविनो नाम.
तत्रिदं वत्थु – चित्तलपब्बतवासिनो किर खीणासवत्थेरस्स उपट्ठाको वुड्ढपब्बजितो एकदिवसं थेरेन सद्धिं पिण्डाय चरित्वा, थेरस्स पत्तचीवरं गहेत्वा, पिट्ठितो आगच्छन्तो थेरं पुच्छि – ‘‘अरिया नाम, भन्ते, कीदिसा’’ति? थेरो आह – ‘‘इधेकच्चो महल्लको अरियानं पत्तचीवरं गहेत्वा वत्तपटिवत्तं कत्वा सहचरन्तोपि नेव अरिये जानाति, एवं दुज्जानावुसो, अरिया’’ति. एवं वुत्तेपि सो नेव अञ्ञासि. तस्मा न चक्खुना दस्सनं दस्सनं, ञाणेन दस्सनमेव दस्सनं. यथाह – ‘‘किं ते, वक्कलि, इमिना पूतिकायेन दिट्ठेन? यो खो, वक्कलि, धम्मं पस्सति, सो मं पस्सति. यो मं पस्सति, सो धम्मं पस्सती’’ति (सं. नि. ३.८७). तस्मा चक्खुना पस्सन्तोपि ञाणेन अरियेहि दिट्ठं अनिच्चादिलक्खणं अपस्सन्तो, अरियाधिगतञ्च धम्मं अनधिगच्छन्तो अरियकरधम्मानं अरियभावस्स च अदिट्ठत्ता ‘‘अरियानं अदस्सावी’’ति वेदितब्बो.
अरियधम्मस्स अकोविदोति, सतिपट्ठानादिभेदे अरियधम्मे अकुसलो. अरियधम्मे अविनीतोति एत्थ पन –
‘‘दुविधो विनयो नाम, एकमेकेत्थ पञ्चधा;
अभावतो तस्स अयं, अविनीतोति वुच्चति’’.
अयञ्हि संवरविनयो पहानविनयोति दुविधो विनयो. एत्थ च दुविधेपि विनये एकमेको विनयो पञ्चधा भिज्जति. संवरविनयोपि हि सीलसंवरो सतिसंवरो ञाणसंवरो खन्तिसंवरो वीरियसंवरोति पञ्चविधो. पहानविनयोपि तदङ्गप्पहानं, विक्खम्भनप्पहानं समुच्छेदप्पहानं पटिप्पस्सद्धिप्पहानं निस्सरणप्पहानन्ति पञ्चविधो.
तत्थ ‘‘इमिना पातिमोक्खसंवरेन उपेतो होति समुपेतो’’ति (विभ. ५११) अयं सीलसंवरो. ‘‘रक्खति चक्खुन्द्रियं, चक्खुन्द्रिये संवरं आपज्जती’’ति अयं (दी. नि. १.२१३; म. नि. १.२९५; सं. नि. ४.२३९; अ. नि. ३.१६) सतिसंवरो.
‘‘यानि सोतानि लोकस्मिं, (अजिताति भगवा)
सति तेसं निवारणं;
सोतानं संवरं ब्रूमि,
पञ्ञायेते पिधीयरे’’ति. (सु. नि. १०४१; चूळनि. अजितमाणवपुच्छानिद्देस.४) –
अयं ञाणसंवरो. ‘‘खमो होति सीतस्स उण्हस्सा’’ति (म. नि. १.२४; अ. नि. ४.११४; ६.५८) अयं खन्तिसंवरो. ‘‘उप्पन्नं कामवितक्कं नाधिवासेती’’ति (म. नि. १.२६; अ. नि. ४.११४; ६.५८) अयं वीरियसंवरो. सब्बोपि चायं संवरो यथासकं संवरितब्बानं विनेतब्बानञ्च कायदुच्चरितादीनं संवरणतो ‘‘संवरो’’ विनयनतो ‘‘विनयो’’ति वुच्चति. एवं ताव संवरविनयो पञ्चधा भिज्जतीति वेदितब्बो.
तथा यं नामरूपपरिच्छेदादीसु विपस्सनाञाणेसु पटिपक्खभावतो दीपालोकेनेव तमस्स, तेन तेन विपस्सनाञाणेन तस्स तस्स अनत्थस्स पहानं. सेय्यथिदं – नामरूपववत्थानेन सक्कायदिट्ठिया, पच्चयपरिग्गहेन अहेतुविसमहेतुदिट्ठीनं, तस्सेव अपरभागेन कङ्खावितरणेन कथंकथीभावस्स, कलापसम्मसनेन ‘‘अहं ममा’’ति गाहस्स, मग्गामग्गववत्थानेन अमग्गे मग्गसञ्ञाय, उदयदस्सनेन उच्छेददिट्ठिया, वयदस्सनेन सस्सतदिट्ठिया, भयदस्सनेन सभये अभयसञ्ञाय, आदीनवदस्सनेन अस्सादसञ्ञाय, निब्बिदानुपस्सनाय अभिरतिसञ्ञाय, मुच्चितुकम्यताञाणेन अमुच्चितुकामताय. उपेक्खाञाणेन अनुपेक्खाय, अनुलोमेन धम्मट्ठितियं निब्बाने च पटिलोमभावस्स, गोत्रभुना सङ्खारनिमित्तगाहस्स पहानं, एतं तदङ्गप्पहानं नाम.
यं पन उपचारप्पनाभेदेन समाधिना पवत्तिभावनिवारणतो घटप्पहारेनेव उदकपिट्ठे सेवालस्स, तेसं तेसं नीवरणादिधम्मानं पहानं, एतं विक्खम्भनप्पहानं नाम. यं चतुन्नं अरियमग्गानं भावितत्ता तंतंमग्गवतो अत्तनो सन्ताने ‘‘दिट्ठिगतानं पहानाया’’तिआदिना नयेन (ध. स. २७७; विभ. ६२८) वुत्तस्स समुदयपक्खिकस्स किलेसगणस्स अच्चन्तं अप्पवत्तिभावेन पहानं, इदं समुच्छेदप्पहानं नाम. यं पन फलक्खणे पटिप्पस्सद्धत्तं किलेसानं, एतं पटिप्पस्सद्धिप्पहानं नाम.
यं सब्बसङ्खतनिस्सटत्ता पहीनसब्बसङ्खतं निब्बानं, एतं निस्सरणप्पहानं नाम. सब्बम्पि चेतं पहानं यस्मा चागट्ठेन पहानं, विनयट्ठेन विनयो, तस्मा ‘‘पहानविनयो’’ति वुच्चति. तंतंपहानवतो वा तस्स तस्स विनयस्स सम्भवतोपेतं ‘‘पहानविनयो’’ति वुच्चति. एवं पहानविनयोपि पञ्चधा भिज्जतीति वेदितब्बो.
एवमयं सङ्खेपतो दुविधो, भेदतो च दसविधो विनयो भिन्नसंवरत्ता पहातब्बस्स च अप्पहीनत्ता यस्मा एतस्स अस्सुतवतो पुथुज्जनस्स नत्थि, तस्मा अभावतो तस्स अयं ‘‘अविनीतो’’ति वुच्चतीति. एस नयो सप्पुरिसानं अदस्सावी सप्पुरिसधम्मस्स अकोविदो सप्पुरिसधम्मे अविनीतोति एत्थापि. निन्नानाकरणञ्हि एतं अत्थतो. यथाह –
‘‘येव ते अरिया, तेव ते सप्पुरिसा. येव ते सप्पुरिसा, तेव ते अरिया. यो एव सो अरियानं धम्मो, सो एव सो सप्पुरिसानं धम्मो. यो एव सो सप्पुरिसानं धम्मो, सो एव सो अरियानं धम्मो. येव ते अरियविनया, तेव ते सप्पुरिसविनया. येव ते सप्पुरिसविनया, तेव ते अरियविनया. अरियेति वा सप्पुरिसेति वा, अरियधम्मेति वा सप्पुरिसधम्मेति वा, अरियविनयेति वा सप्पुरिसविनयेति वा एसेसे एके एकट्ठे समे समभागे तज्जाते तञ्ञेवा’’ति.
रूपं अत्ततो समनुपस्सतीति इधेकच्चो रूपं अत्ततो समनुपस्सति, ‘‘यं रूपं, सो अहं, यो अहं, तं रूप’’न्ति रूपञ्च अत्तञ्च अद्वयं समनुपस्सति. सेय्यथापि नाम तेलप्पदीपस्स झायतो या अच्चि, सो वण्णो. यो वण्णो, सा अच्चीति अच्चिञ्च वण्णञ्च अद्वयं समनुपस्सति, एवमेव इधेकच्चो रूपं अत्ततो समनुपस्सति…पे… अद्वयं समनुपस्सतीति एवं रूपं ‘‘अत्ता’’ति दिट्ठिपस्सनाय पस्सति. रूपवन्तं वा अत्तानन्ति अरूपं ‘‘अत्ता’’ति गहेत्वा छायावन्तं रुक्खं विय तं रूपवन्तं समनुपस्सति. अत्तनि वा रूपन्ति अरूपमेव ‘‘अत्ता’’ति गहेत्वा पुप्फस्मिं गन्धं विय अत्तनि रूपं समनुपस्सति. रूपस्मिं वा अत्तानन्ति अरूपमेव ‘‘अत्ता’’ति गहेत्वा करण्डके मणिं विय तं अत्तानं रूपस्मिं समनुपस्सति. परियुट्ठट्ठायीति परियुट्ठानाकारेन अभिभवनाकारेन ठितो, ‘‘अहं रूपं, मम रूप’’न्ति एवं तण्हादिट्ठीहि गिलित्वा परिनिट्ठपेत्वा गण्हनको नाम होतीति अत्थो. तस्स तं रूपन्ति तस्स तं एवं गहितं रूपं. वेदनादीसुपि एसेव नयो.
तत्थ ‘‘रूपं अत्ततो समनुपस्सती’’ति सुद्धरूपमेव अत्ताति कथितं. ‘‘रूपवन्तं वा अत्तानं, अत्तनि वा रूपं, रूपस्मिं वा अत्तानं, वेदनं अत्ततो…पे… सञ्ञं… सङ्खारे… विञ्ञाणं अत्ततो समनुपस्सती’’ति इमेसु सत्तसु ठानेसु अरूपं अत्ताति कथितं. ‘‘वेदनावन्तं वा अत्तानं, अत्तनि वा वेदनं, वेदनाय वा अत्तान’’न्ति एवं चतूसु खन्धेसु तिण्णं तिण्णं वसेन द्वादससु ठानेसु रूपारूपमिस्सको अत्ता कथितो. तत्थ ‘‘रूपं अत्ततो समनुपस्सति, वेदनं… सञ्ञं… सङ्खारे… विञ्ञाणं अत्ततो समनुपस्सती’’ति इमेसु पञ्चसु ठानेसु उच्छेददिट्ठि कथिता, अवसेसेसु सस्सतदिट्ठीति एवमेत्थ पन्नरस भवदिट्ठियो पञ्च विभवदिट्ठियो होन्ति, ता सब्बापि मग्गावरणा, न सग्गावरणा, पठममग्गवज्झाति वेदितब्बा.
एवं खो, गहपति, आतुरकायो चेव होति आतुरचित्तो चाति कायो नाम बुद्धानम्पि आतुरोयेव. चित्तं पन रागदोसमोहानुगतं आतुरं नाम, तं इध दस्सितं. नो च आतुरचित्तोति इध निक्किलेसताय चित्तस्स अनातुरभावो दस्सितो. इति इमस्मिं सुत्ते लोकियमहाजनो आतुरकायो चेव आतुरचित्तो चाति दस्सितो, खीणासवा आतुरकाया अनातुरचित्ता, सत्त सेखा नेव आतुरचित्ता, न अनातुरचित्ताति वेदितब्बा. भजमाना पन अनातुरचित्ततंयेव भजन्तीति. पठमं.
२. देवदहसुत्तवण्णना
२. दुतिये देवदहन्ति देवा वुच्चन्ति राजानो, तेसं मङ्गलदहो, सयंजातो वा सो दहोति, तस्मा ‘‘देवदहो’’ति वुत्तो. तस्स अविदूरे निगमो देवदहन्त्वेव नपुंसकलिङ्गवसेन सङ्खं गतो. पच्छाभूमगमिकाति पच्छाभूमं अपरदिसायं निविट्ठं जनपदं गन्तुकामा. निवासन्ति तेमासं वस्सावासं. अपलोकितोति आपुच्छितो. अपलोकेथाति आपुच्छथ. कस्मा थेरं आपुच्छापेति? ते सभारे कातुकामताय. यो हि एकविहारे वसन्तोपि सन्तिकं न गच्छति पक्कमन्तो अनापुच्छा पक्कमति, अयं निब्भारो नाम. यो एकविहारे वसन्तोपि आगन्त्वा पस्सति, पक्कमन्तो आपुच्छति, अयं सभारो नाम. इमेपि भिक्खू भगवा ‘‘एवमिमे सीलादीहि वड्ढिस्सन्ती’’ति सभारे कातुकामो आपुच्छापेति.
पण्डितोति धातुकोसल्लादिना चतुब्बिधेन पण्डिच्चेन समन्नागतो. अनुग्गाहकोति आमिसानुग्गहेन च धम्मानुग्गहेन चाति द्वीहिपि अनुग्गहेहि अनुग्गाहको. थेरो किर अञ्ञे भिक्खू विय पातोव पिण्डाय अगन्त्वा सब्बभिक्खूसु गतेसु सकलं सङ्घारामं अनुविचरन्तो असम्मट्ठट्ठानं सम्मज्जति, अछड्डितं कचवरं छड्डेति, सङ्घारामे दुन्निक्खित्तानि मञ्चपीठदारुभण्डमत्तिकाभण्डानि पटिसामेति. किं कारणा? ‘‘मा अञ्ञतित्थिया विहारं पविट्ठा दिस्वा परिभवं अकंसू’’ति. ततो गिलानसालं गन्त्वा गिलाने अस्सासेत्वा ‘‘केनत्थो’’ति पुच्छित्वा येन अत्थो होति, तदत्थं तेसं दहरसामणेरे आदाय भिक्खाचारवत्तेन वा सभागट्ठाने वा भेसज्जं परियेसित्वा तेसं दत्वा, ‘‘गिलानुपट्ठानं नाम बुद्धपच्चेकबुद्धेहि वण्णितं, गच्छथ सप्पुरिसा अप्पमत्ता होथा’’ति ते पेसेत्वा सयं पिण्डाय चरित्वा उपट्ठाककुले वा भत्तकिच्चं कत्वा विहारं गच्छति. इदं तावस्स निबद्धवासट्ठाने आचिण्णं.
भगवति पन चारिकं चरमाने ‘‘अहं अग्गसावको’’ति उपाहनं आरुय्ह छत्तं गहेत्वा पुरतो पुरतो न गच्छति. ये पन तत्थ महल्लका वा आबाधिका वा अतिदहरा वा, तेसं रुज्जनट्ठानानि तेलेन मक्खापेत्वा पत्तचीवरं अत्तनो दहरसामणेरेहि गाहापेत्वा तंदिवसं वा दुतियदिवसं वा ते गण्हित्वाव गच्छति. एकदिवसञ्हि तञ्ञेव आयस्मन्तं अतिविकाले सम्पत्तत्ता सेनासनं अलभित्वा, चीवरकुटियं निसिन्नं दिस्वा, सत्था पुनदिवसे भिक्खुसङ्घं सन्निपातापेत्वा, हत्थिवानरतित्तिरवत्थुं कथेत्वा, ‘‘यथावुड्ढं सेनासनं दातब्ब’’न्ति सिक्खापदं पञ्ञापेसि. एवं तावेस आमिसानुग्गहेन अनुग्गण्हाति. ओवदन्तो पनेस सतवारम्पि सहस्सवारम्पि ताव ओवदति, याव सो पुग्गलो सोतापत्तिफले पतिट्ठाति, अथ नं विस्सज्जेत्वा अञ्ञं ओवदति. इमिना नयेन ओवदतो चस्स ओवादे ठत्वा अरहत्तं पत्ता गणनपथं अतिक्कन्ता. एवं धम्मानुग्गहेन अनुग्गण्हाति.
पच्चस्सोसुन्ति ते भिक्खू ‘‘अम्हाकं नेव उपज्झायो, न आचरियो न सन्दिट्ठसम्भत्तो. किं तस्स सन्तिके करिस्सामा’’ति? तुण्हीभावं अनापज्जित्वा ‘‘एवं, भन्ते’’ति सत्थु वचनं सम्पटिच्छिंसु. एळगलागुम्बेति गच्छमण्डपके. सो किर एळगलागुम्बो धुवसलिलट्ठाने जातो. अथेत्थ चतूहि पादेहि मण्डपं कत्वा तस्स उपरि तं गुम्बं आरोपेसुं, सो तं मण्डपं छादेसि. अथस्स हेट्ठा इट्ठकाहि परिचिनित्वा वालिकं ओकिरित्वा आसनं पञ्ञापयिंसु. सीतलं दिवाट्ठानं उदकवातो वायति. थेरो तस्मिं निसीदि. तं सन्धाय वुत्तं ‘‘एळगलागुम्बे’’ति.
नानावेरज्जगतन्ति एकस्स रञ्ञो रज्जतो नानाविधं रज्जगतं. विरज्जन्ति अञ्ञं रज्जं. यथा हि सदेसतो अञ्ञो विदेसो, एवं निवुत्थरज्जतो अञ्ञं रज्जं विरज्जं नाम, तं वेरज्जन्ति वुत्तं. खत्तियपण्डिताति बिम्बिसारकोसलराजादयो पण्डितराजानो. ब्राह्मणपण्डिताति चङ्कीतारुक्खादयो पण्डितब्राह्मणा. गहपतिपण्डिताति चित्तसुदत्तादयो पण्डितगहपतयो. समणपण्डिताति सभियपिलोतिकादयो पण्डितपरिब्बाजका. वीमंसकाति अत्थगवेसिनो. किंवादीति किं अत्तनो दस्सनं वदति, किं लद्धिकोति अत्थो. किमक्खायीति किं सावकानं ओवादानुसासनिं आचिक्खति? धम्मस्स चानुधम्मन्ति भगवता वुत्तब्याकरणस्स अनुब्याकरणं. सहधम्मिकोति सकारणो. वादानुवादोति भगवता वुत्तवादस्स अनुवादो. ‘‘वादानुपातो’’तिपि पाठो, सत्थु वादस्स अनुपातो अनुपतनं, अनुगमनन्ति अत्थो. इमिनापि वादं अनुगतो वादोयेव दीपितो होति.
अविगतरागस्सातिआदीसु तण्हावसेनेव अत्थो वेदितब्बो. तण्हा हि रज्जनतो रागो, छन्दियनतो छन्दो, पियायनट्ठेन पेमं, पिवितुकामट्ठेन पिपासा, अनुदहनट्ठेन परिळाहोति वुच्चति. अकुसले चावुसो, धम्मेतिआदि कस्मा आरद्धं? पञ्चसु खन्धेसु अवीतरागस्स आदीनवं, वीतरागस्स च आनिसंसं दस्सेतुं. तत्र अविघातोति निद्दुक्खो. अनुपायासोति निरुपतापो. अपरिळाहोति निद्दाहो. एवं सब्बत्थ अत्थो वेदितब्बो. दुतियं.
३. हालिद्दिकानिसुत्तवण्णना
३. ततिये अवन्तीसूति अवन्तिदक्खिणापथसङ्खाते अवन्तिरट्ठे. कुररघरेति एवंनामके नगरे. पपातेति एकतो पपाते. तस्स किर पब्बतस्स एकं पस्सं छिन्दित्वा पातितं विय अहोसि. ‘‘पवत्ते’’तिपि पाठो, नानातित्थियानं लद्धिपवत्तट्ठानेति अत्थो. इति थेरो तस्मिं रट्ठे तं नगरं निस्साय तस्मिं पब्बते विहरति. हालिद्दिकानीति एवंनामको. अट्ठकवग्गिये मागण्डियपञ्हेति अट्ठकवग्गिकम्हि मागण्डियपञ्हो नाम अत्थि, तस्मिं पञ्हे. रूपधातूति रूपक्खन्धो अधिप्पेतो. रूपधातुरागविनिबद्धन्ति रूपधातुम्हि रागेन विनिबद्धं. विञ्ञाणन्ति कम्मविञ्ञाणं. ओकसारीति गेहसारी आलयसारी.
कस्मा पनेत्थ ‘‘विञ्ञाणधातु खो, गहपती’’ति न वुत्तन्ति? सम्मोहविघातत्थं. ‘‘ओको’’ति हि अत्थतो पच्चयो वुच्चति, पुरेजातञ्च कम्मविञ्ञाणं पच्छाजातस्स कम्मविञ्ञाणस्सपि विपाकविञ्ञाणस्सपि विपाकविञ्ञाणञ्च विपाकविञ्ञाणस्सपि कम्मविञ्ञाणस्सपि पच्चयो होति, तस्मा ‘‘कतरं नु खो इध विञ्ञाण’’न्ति? सम्मोहो भवेय्य, तस्स विघातत्थं तं अगहेत्वा असम्भिन्नाव देसना कता. अपिच आरम्मणवसेन चतस्सो अभिसङ्खारविञ्ञाणट्ठितियो वुत्ताति ता दस्सेतुम्पि इध विञ्ञाणं न गहितं.
उपयुपादानाति तण्हूपयदिट्ठूपयवसेन द्वे उपया, कामुपादानादीनि चत्तारि उपादानानि च. चेतसो अधिट्ठानाभिनिवेसानुसयाति अकुसलचित्तस्स अधिट्ठानभूता चेव अभिनिवेसभूता च अनुसयभूता च. तथागतस्साति सम्मासम्बुद्धस्स. सब्बेसम्पि हि खीणासवानं एते पहीनाव, सत्थु पन खीणासवभावो लोके अतिपाकटोति उपरिमकोटिया एवं वुत्तं. विञ्ञाणधातुयाति इध विञ्ञाणं कस्मा गहितं? किलेसप्पहानदस्सनत्थं. किलेसा हि न केवलं चतूसुयेव खन्धेसु पहीना पहीयन्ति, पञ्चसुपि पहीयन्तियेवाति किलेसप्पहानदस्सनत्थं गहितं. एवं खो, गहपति, अनोकसारी होतीति एवं कम्मविञ्ञाणेन ओकं असरन्तेन अनोकसारी नाम होति.
रूपनिमित्तनिकेतविसारविनिबन्धाति रूपमेव किलेसानं पच्चयट्ठेन निमित्तं, आरम्मणकिरियसङ्खातनिवासनट्ठानट्ठेन निकेतन्ति रूपनिमित्तनिकेतं. विसारो च विनिबन्धो च विसारविनिबन्धा. उभयेनपि हि किलेसानं पत्थटभावो च विनिबन्धनभावो च वुत्तो, रूपनिमित्तनिकेते विसारविनिबन्धाति रूपनिमित्तनिकेतविसारविनिबन्धा, तस्मा रूपनिमित्तनिकेतम्हि उप्पन्नेन किलेसविसारेन चेव किलेसबन्धनेन चाति अत्थो. निकेतसारीति वुच्चतीति आरम्मणकरणवसेन निवासनट्ठानं सारीति वुच्चति. पहीनाति ते रूपनिमित्तनिकेतकिलेसविसारविनिबन्धा पहीना.
कस्मा पनेत्थ पञ्चक्खन्धा ‘‘ओका’’ति वुत्ता, छ आरम्मणानि ‘‘निकेत’’न्ति? छन्दरागस्स बलवदुब्बलताय. समानेपि हि एतेसं आलयट्ठेन विसयभावे ओकोति निच्चनिवासनट्ठानगेहमेव वुच्चति, निकेतन्ति ‘‘अज्ज असुकट्ठाने कीळिस्सामा’’ति कतसङ्केतट्ठानं निवासट्ठानं उय्यानादि. तत्थ यथा पुत्तदारधनधञ्ञपुण्णगेहे छन्दरागो बलवा होति, एवं अज्झत्तिकेसु खन्धेसु. यथा पन उय्यानट्ठानादीसु ततो दुब्बलतरो होति, एवं बाहिरेसु छसु आरम्मणेसूति छन्दरागस्स बलवदुब्बलताय एवं देसना कताति वेदितब्बो.
सुखितेसु सुखितोति उपट्ठाकेसु धनधञ्ञलाभादिवसेन सुखितेसु ‘‘इदानाहं मनापं भोजनं लभिस्सामी’’ति गेहसितसुखेन सुखितो होति, तेहि पत्तसम्पत्तिं अनुभवमानो विय चरति. दुक्खितेसु दुक्खितोति तेसं केनचिदेव कारणेन दुक्खे उप्पन्ने सयं द्विगुणेन दुक्खेन दुक्खितो होति. किच्चकरणीयेसूति किच्चसङ्खातेसु करणीयेसु. तेसु योगं आपज्जतीति उपयोगं सयं तेसं किच्चानं कत्तब्बतं आपज्जति. कामेसूति वत्थुकामेसु. एवं खो, गहपति, कामेहि अरित्तो होतीति एवं किलेसकामेहि अरित्तो होति अन्तो कामानं भावेन अतुच्छो. सुक्कपक्खो तेसं अभावेन रित्तो तुच्छोति वेदितब्बो.
पुरक्खरानोति वट्टं पुरतो कुरुमानो. एवंरूपो सियन्तिआदीसु दीघरस्सकाळोदातादीसु रूपेसु ‘‘एवंरूपो नाम भवेय्य’’न्ति पत्थेति. सुखादीसु वेदनासु एवंवेदनो नाम; नीलसञ्ञादीसु सञ्ञासु एवं सञ्ञो नाम; पुञ्ञाभिसङ्खारादीसु सङ्खारेसु एवंसङ्खारो नाम; चक्खुविञ्ञाणादीसु विञ्ञाणेसु ‘‘एवं विञ्ञाणो नाम भवेय्य’’न्ति पत्थेति.
अपुरक्खरानोति वट्टं पुरतो अकुरुमानो. सहितं मे, असहितं तेति तुय्हं वचनं असहितं असिलिट्ठं, मय्हं सहितं सिलिट्ठं मधुरपानसदिसं. अधिचिण्णं ते विपरावत्तन्ति यं तुय्हं दीघेन कालेन परिचितं सुप्पगुणं, तं मम वादं आगम्म सब्बं खणेन विपरावत्तं निवत्तं. आरोपितो ते वादोति तुय्हं दोसो मया आरोपितो. चर वादप्पमोक्खायाति तं तं आचरियं उपसङ्कमित्वा उत्तरि परियेसन्तो इमस्स वादस्स मोक्खाय चर आहिण्डाहि. निब्बेठेहि वा सचे पहोसीति अथ सयमेव पहोसि, इधेव निब्बेठेहीति. ततियं.
४. दुतियहालिद्दिकानिसुत्तवण्णना
४. चतुत्थे सक्कपञ्हेति चूळसक्कपञ्हे, महासक्कपञ्हेपेतं वुत्तमेव. तण्हासङ्खयविमुत्ताति तण्हासङ्खये निब्बाने तदारम्मणाय फलविमुत्तिया विमुत्ता. अच्चन्तनिट्ठाति अन्तं अतिक्कन्तनिट्ठा सततनिट्ठा. सेसपदेसुपि एसेव नयो. चतुत्थं.
५. समाधिसुत्तवण्णना
५. पञ्चमे समाधिन्ति इदं भगवा ते भिक्खू चित्तेकग्गताय परिहायन्ते दिस्वा, ‘‘चित्तेकग्गतं लभन्तानं इमेसं कम्मट्ठानं फातिं गमिस्सती’’ति ञत्वा आह. अभिनन्दतीति पत्थेति. अभिवदतीति ताय अभिनन्दनाय ‘‘अहो पियं इट्ठं कन्तं मनाप’’न्ति वदति. वाचं अभिनन्दन्तोपि च तं आरम्मणं निस्साय एवं लोभं उप्पादेन्तो अभिवदतियेव नाम. अज्झोसाय तिट्ठतीति गिलित्वा परिनिट्ठपेत्वा गण्हाति. या रूपे नन्दीति या सा रूपे बलवपत्थनासङ्खाता नन्दी. तदुपादानन्ति तं गहणट्ठेन उपादानं. नाभिनन्दतीति न पत्थेति. नाभिवदतीति पत्थनावसेन न ‘‘इट्ठं कन्त’’न्ति वदति. विपस्सनाचित्तेन चेतसा ‘‘अनिच्चं दुक्ख’’न्ति वचीभेदं करोन्तोपि नाभिवदतियेव. पञ्चमं.
६. पटिसल्लाणसुत्तवण्णना
६. छट्ठे पटिसल्लाणेति इदं भगवा ते भिक्खू कायविवेकेन परिहायन्ते दिस्वा ‘‘कायविवेकं लभन्तानं इमेसं कम्मट्ठानं फातिं गमिस्सती’’ति ञत्वा आह. छट्ठं.
७. उपादापरितस्सनासुत्तवण्णना
७. सत्तमे उपादापरितस्सनन्ति गहणेन उप्पन्नं परितस्सनं. अनुपादाअपरितस्सनन्ति अग्गहणेन अपरितस्सनं. रूपविपरिणामानुपरिवत्तिविञ्ञाणं होतीति ‘‘मम रूपं विपरिणत’’न्ति वा ‘‘अहु वत मेतं, दानि वत मे नत्थी’’ति वा आदिना नयेन कम्मविञ्ञाणं रूपस्स भेदानुपरिवत्ति होति. विपरिणामानुपरिवत्तिजाति विपरिणामस्स अनुपरिवत्तितो विपरिणामारम्मणचित्ततो जाता. परितस्सना धम्मसमुप्पादाति तण्हापरितस्सना च अकुसलधम्मसमुप्पादा च. चित्तन्ति कुसलचित्तं. परियादाय तिट्ठन्तीति परियादियित्वा तिट्ठन्ति. उत्तासवाति सउत्तासो. विघातवाति सविघातो सदुक्खो. अपेक्खवाति सालयो. उपादाय च परितस्सतीति गण्हित्वा परितस्सको नाम होति. न रूपविपरिणामानुपरिवत्तीति खीणासवस्स कम्मविञ्ञाणमेव नत्थि, तस्मा रूपभेदानुपरिवत्ति न होतीति वत्तुं वट्टति. सत्तमं.
८. दुतियउपादापरितस्सनासुत्तवण्णना
८. अट्ठमे तण्हामानदिट्ठिवसेन देसना कता. इति पटिपाटिया चतूसु सुत्तेसु वट्टविवट्टमेव कथितं. अट्ठमं.
९. कालत्तयअनिच्चसुत्तवण्णना
९. नवमे को पन वादो पच्चुप्पन्नस्साति पच्चुप्पन्नम्हि कथाव का, अनिच्चमेव तं. ते किर भिक्खू अतीतानागतं अनिच्चन्ति सल्लक्खेत्वा पच्चुप्पन्ने किलमिंसु, अथ नेसं इतो अतीतानागतेपि ‘‘पच्चुप्पन्नं अनिच्च’’न्ति वुच्चमाने बुज्झिस्सन्तीति अज्झासयं विदित्वा सत्था पुग्गलज्झासयेन इमं देसनं देसेसि. नवमं.
१०-११. कालत्तयदुक्खसुत्तादिवण्णना
१०-११. दसमेकादसमानि दुक्खं अनत्ताति पदेहि विसेसेत्वा तथारूपेनेव पुग्गलज्झासयेन कथितानीति. दसमेकादसमानि.
नकुलपितुवग्गो पठमो.