२. देवदहसुत्तवण्णना
२. दुतिये देवदहन्ति देवा वुच्चन्ति राजानो, तेसं मङ्गलदहो, सयंजातो वा सो दहोति, तस्मा ‘‘देवदहो’’ति वुत्तो. तस्स अविदूरे निगमो देवदहन्त्वेव नपुंसकलिङ्गवसेन सङ्खं गतो. पच्छाभूमगमिकाति पच्छाभूमं अपरदिसायं निविट्ठं जनपदं गन्तुकामा. निवासन्ति तेमासं वस्सावासं. अपलोकितोति आपुच्छितो. अपलोकेथाति आपुच्छथ. कस्मा थेरं आपुच्छापेति? ते सभारे कातुकामताय. यो हि एकविहारे वसन्तोपि सन्तिकं न गच्छति पक्कमन्तो अनापुच्छा पक्कमति, अयं निब्भारो नाम. यो एकविहारे वसन्तोपि आगन्त्वा पस्सति, पक्कमन्तो आपुच्छति, अयं सभारो नाम. इमेपि भिक्खू भगवा ‘‘एवमिमे सीलादीहि वड्ढिस्सन्ती’’ति सभारे कातुकामो आपुच्छापेति.
पण्डितोति धातुकोसल्लादिना चतुब्बिधेन पण्डिच्चेन समन्नागतो. अनुग्गाहकोति आमिसानुग्गहेन च धम्मानुग्गहेन चाति द्वीहिपि अनुग्गहेहि अनुग्गाहको. थेरो किर अञ्ञे भिक्खू विय पातोव पिण्डाय अगन्त्वा सब्बभिक्खूसु गतेसु सकलं सङ्घारामं अनुविचरन्तो असम्मट्ठट्ठानं सम्मज्जति, अछड्डितं कचवरं छड्डेति, सङ्घारामे दुन्निक्खित्तानि मञ्चपीठदारुभण्डमत्तिकाभण्डानि पटिसामेति. किं कारणा? ‘‘मा अञ्ञतित्थिया विहारं पविट्ठा दिस्वा परिभवं अकंसू’’ति. ततो गिलानसालं गन्त्वा गिलाने अस्सासेत्वा ‘‘केनत्थो’’ति पुच्छित्वा येन अत्थो होति, तदत्थं तेसं दहरसामणेरे आदाय भिक्खाचारवत्तेन वा सभागट्ठाने वा भेसज्जं परियेसित्वा तेसं दत्वा, ‘‘गिलानुपट्ठानं नाम बुद्धपच्चेकबुद्धेहि वण्णितं, गच्छथ सप्पुरिसा अप्पमत्ता होथा’’ति ते पेसेत्वा सयं पिण्डाय चरित्वा उपट्ठाककुले वा भत्तकिच्चं कत्वा विहारं गच्छति. इदं तावस्स निबद्धवासट्ठाने आचिण्णं.
भगवति पन चारिकं चरमाने ‘‘अहं अग्गसावको’’ति उपाहनं आरुय्ह छत्तं गहेत्वा पुरतो पुरतो न गच्छति. ये पन तत्थ महल्लका वा आबाधिका वा अतिदहरा वा, तेसं रुज्जनट्ठानानि तेलेन मक्खापेत्वा पत्तचीवरं अत्तनो दहरसामणेरेहि गाहापेत्वा तंदिवसं वा दुतियदिवसं वा ते गण्हित्वाव गच्छति. एकदिवसञ्हि तञ्ञेव आयस्मन्तं अतिविकाले सम्पत्तत्ता सेनासनं अलभित्वा, चीवरकुटियं निसिन्नं दिस्वा, सत्था पुनदिवसे भिक्खुसङ्घं सन्निपातापेत्वा, हत्थिवानरतित्तिरवत्थुं कथेत्वा, ‘‘यथावुड्ढं सेनासनं दातब्ब’’न्ति सिक्खापदं पञ्ञापेसि. एवं तावेस आमिसानुग्गहेन अनुग्गण्हाति. ओवदन्तो पनेस सतवारम्पि सहस्सवारम्पि ताव ओवदति, याव सो पुग्गलो सोतापत्तिफले पतिट्ठाति, अथ नं विस्सज्जेत्वा अञ्ञं ओवदति. इमिना नयेन ओवदतो चस्स ओवादे ठत्वा अरहत्तं पत्ता गणनपथं अतिक्कन्ता. एवं धम्मानुग्गहेन अनुग्गण्हाति.
पच्चस्सोसुन्ति ते भिक्खू ‘‘अम्हाकं नेव उपज्झायो, न आचरियो न सन्दिट्ठसम्भत्तो. किं तस्स सन्तिके करिस्सामा’’ति? तुण्हीभावं अनापज्जित्वा ‘‘एवं, भन्ते’’ति सत्थु वचनं सम्पटिच्छिंसु. एळगलागुम्बेति गच्छमण्डपके. सो किर एळगलागुम्बो धुवसलिलट्ठाने जातो. अथेत्थ चतूहि पादेहि मण्डपं कत्वा तस्स उपरि तं गुम्बं आरोपेसुं, सो तं मण्डपं छादेसि. अथस्स हेट्ठा इट्ठकाहि परिचिनित्वा वालिकं ओकिरित्वा आसनं पञ्ञापयिंसु. सीतलं दिवाट्ठानं उदकवातो वायति. थेरो तस्मिं निसीदि. तं सन्धाय वुत्तं ‘‘एळगलागुम्बे’’ति.
नानावेरज्जगतन्ति एकस्स रञ्ञो रज्जतो नानाविधं रज्जगतं. विरज्जन्ति अञ्ञं रज्जं. यथा हि सदेसतो अञ्ञो विदेसो, एवं निवुत्थरज्जतो अञ्ञं रज्जं विरज्जं नाम, तं वेरज्जन्ति वुत्तं. खत्तियपण्डिताति बिम्बिसारकोसलराजादयो पण्डितराजानो. ब्राह्मणपण्डिताति चङ्कीतारुक्खादयो पण्डितब्राह्मणा. गहपतिपण्डिताति चित्तसुदत्तादयो पण्डितगहपतयो. समणपण्डिताति सभियपिलोतिकादयो पण्डितपरिब्बाजका. वीमंसकाति अत्थगवेसिनो. किंवादीति किं अत्तनो दस्सनं वदति, किं लद्धिकोति अत्थो. किमक्खायीति किं सावकानं ओवादानुसासनिं आचिक्खति? धम्मस्स चानुधम्मन्ति भगवता वुत्तब्याकरणस्स अनुब्याकरणं. सहधम्मिकोति सकारणो. वादानुवादोति भगवता वुत्तवादस्स अनुवादो. ‘‘वादानुपातो’’तिपि पाठो, सत्थु वादस्स अनुपातो अनुपतनं, अनुगमनन्ति अत्थो. इमिनापि वादं अनुगतो वादोयेव दीपितो होति.
अविगतरागस्सातिआदीसु तण्हावसेनेव अत्थो वेदितब्बो. तण्हा हि रज्जनतो रागो, छन्दियनतो छन्दो, पियायनट्ठेन पेमं, पिवितुकामट्ठेन पिपासा, अनुदहनट्ठेन परिळाहोति वुच्चति. अकुसले चावुसो, धम्मेतिआदि कस्मा आरद्धं? पञ्चसु खन्धेसु अवीतरागस्स आदीनवं, वीतरागस्स च आनिसंसं दस्सेतुं. तत्र अविघातोति निद्दुक्खो. अनुपायासोति निरुपतापो. अपरिळाहोति निद्दाहो. एवं सब्बत्थ अत्थो वेदितब्बो. दुतियं.