९. बाहिरफस्सनानत्तसुत्तादिवण्णना

९३-९४. नवमे उप्पज्जति रूपसञ्ञाति वुत्तप्पकारे आरम्मणे उप्पज्जति सञ्ञा. रूपसङ्कप्पोति तस्मिंयेव आरम्मणे तीहि चित्तेहि सम्पयुत्तसङ्कप्पो. रूपसम्फस्सोति तदेवारम्मणं फुसमानो फस्सो. वेदनाति तदेव आरम्मणं अनुभवमाना वेदना. छन्दादयो वुत्तनयाव. रूपलाभोति परियेसित्वा लद्धं सह तण्हाय आरम्मणं ‘‘रूपलाभो’’ति वुत्तं. अयं ताव सब्बसङ्गाहिकनयो एकस्मिं येवारम्मणे सब्बधम्मानं उप्पत्तिवसेन वुत्तो. अपरो आगन्तुकारम्मणमिस्सको होति – रूपसञ्ञा रूपसङ्कप्पो फस्सो वेदनाति इमे ताव चत्तारो धम्मा धुवपरिभोगे निबद्धारम्मणे होन्ति. निबद्धारम्मणञ्हि इट्ठं कन्तं मनापं पियं यंकिञ्चि विय उपट्ठाति, आगन्तुकारम्मणं पन यंकिञ्चि समानम्पि खोभेत्वा तिट्ठति.

तत्रिदं वत्थु – एको किर अमच्चपुत्तो गामियेहि परिवारितो गाममज्झे ठत्वा कम्मं करोति. तस्मिञ्चस्स समये उपासिका नदिं गन्त्वा न्हत्वा अलङ्कतपटियत्ता धातिगणपरिवुता गेहं गच्छति. सो दूरतो दिस्वा ‘‘आगन्तुकमातुगामो भविस्सती’’ति सञ्ञं उप्पादेत्वा ‘‘गच्छ, भणे जानाहि, का एसा’’ति पुरिसं पेसेसि. सो गन्त्वा तं दिस्वा पच्चागतो, ‘‘का एसा’’ति पुट्ठो यथासभावं आरोचेसि. एवं आगन्तुकारम्मणं खोभेति. तस्मिं उप्पन्नो छन्दो रूपछन्दो नाम, तदेव आरम्मणं कत्वा उप्पन्नो परिळाहो रूपपरिळाहो नाम, सहाये गण्हित्वा तस्स परियेसनं रूपपरियेसना नाम, परियेसित्वा लद्धं सह तण्हाय आरम्मणं रूपलाभो नाम.

उरुवल्लियवासी चूळतिस्सत्थेरो पनाह – ‘‘किञ्चापि भगवता फस्सवेदना पाळिया मज्झे गहिता, पाळिं पन परिवट्टेत्वा वुत्तप्पकारे आरम्मणे उप्पन्ना सञ्ञा रूपसञ्ञा, तस्मिंयेव सङ्कप्पो रूपसङ्कप्पो तस्मिं छन्दो रूपच्छन्दो, तस्मिं परिळाहो रूपपरिळाहो, तस्मिं परियेसना रूपपरियेसना, परियेसित्वा लद्धं सह तण्हाय आरम्मणं रूपलाभो. एवं लद्धारम्मणे पन फुसनं फस्सो, अनुभवनं वेदना. रूपसम्फस्सो रूपसम्फस्सजा वेदनाति इदं द्वयं लब्भती’’ति. अपरम्पि अविभूतवारं नाम गण्हन्ति. आरम्मणञ्हि साणिपाकारेहि वा परिक्खित्तं तिणपण्णादीहि वा पटिच्छन्नं होति, तं ‘‘उपड्ढं दिट्ठं मे आरम्मणं, सुट्ठु नं पस्सिस्सामी’’ति ओलोकयतो तस्मिं आरम्मणे उप्पन्ना सञ्ञा रूपसञ्ञा नाम. तस्मिंयेव उप्पन्ना सङ्कप्पादयो रूपसङ्कप्पादयो नामाति वेदितब्बा. एत्थापि च सञ्ञासङ्कप्पफस्सवेदनाछन्दा एकजवनवारेपि नानाजवनवारेपि लब्भन्ति, परिळाहपरियेसनालाभा नानाजवनवारेयेवाति. दसमं उत्तानमेवाति. नवमदसमानि.

नानत्तवग्गो पठमो.