२. दुतियवग्गो

१. सत्तधातुसुत्तवण्णना

९५. दुतियवग्गस्स पठमे आभाधातूति आलोकधातु. आलोकस्सपि आलोककसिणे परिकम्मं कत्वा उप्पन्नज्झानस्सापीति सहारम्मणस्स झानस्स एतं नामं. सुभधातूति सुभकसिणे उप्पन्नज्झानवसेन सहारम्मणज्झानमेव. आकासानञ्चायतनमेव आकासानञ्चायतनधातु. सञ्ञावेदयितनिरोधोव सञ्ञावेदयितनिरोधधातु. इति भगवा अनुसन्धिकुसलस्स भिक्खुनो तत्थ निसीदित्वा पञ्हं पुच्छितुकामस्स ओकासं देन्तो देसनं निट्ठापेसि.

अन्धकारं पटिच्चाति अन्धकारो हि आलोकेन परिच्छिन्नो, आलोकोपि अन्धकारेन. अन्धकारेन हि सो पाकटो होति. तस्मा ‘‘अन्धकारं पटिच्च पञ्ञायती’’ति आह. असुभं पटिच्चाति एत्थापि एसेव नयो. असुभञ्हि सुभेन, सुभञ्च असुभेन परिच्छिन्नं, असुभे सति सुभं पञ्ञायति, तस्मा एवमाह. रूपं पटिच्चाति रूपावचरसमापत्तिं पटिच्च. रूपावचरसमापत्तिया हि सति आकासानञ्चायतनसमापत्ति नाम होति रूपसमतिक्कमो वा, तस्मा एवमाह. विञ्ञाणञ्चायतनधातुआदीसुपि एसेव नयो. निरोधं पटिच्चाति चतुन्नं खन्धानं पटिसङ्खाअप्पवत्तिं पटिच्च. खन्धनिरोधञ्हि पटिच्च निरोधसमापत्ति नाम पञ्ञायति, न खन्धपवत्तिं, तस्मा एवमाह. एत्थ च चतुन्नं खन्धानं निरोधोव निरोधसमापत्तीति वेदितब्बो.

कथं समापत्ति पत्तब्बाति कथं समापत्तियो कीदिसा समापत्तियो नाम हुत्वा पत्तब्बाति? सञ्ञासमापत्ति पत्तब्बाति सञ्ञाय अत्थिभावेन सञ्ञासमापत्तियो सञ्ञासमापत्तियो नाम हुत्वा पत्तब्बा. सङ्खारावसेससमापत्ति पत्तब्बाति सुखुमसङ्खारानं अवसिट्ठताय सङ्खारावसेससमापत्ति नाम हुत्वा पत्तब्बा. निरोधसमापत्ति पत्तब्बाति निरोधोव निरोधसमापत्ति निरोधसमापत्ति नाम हुत्वा पत्तब्बाति अत्थो. पठमं.

२. सनिदानसुत्तवण्णना

९६. दुतिये सनिदानन्ति भावनपुंसकमेतं, सनिदानो सपच्चयो हुत्वा उप्पज्जतीति अत्थो. कामधातुं, भिक्खवे, पटिच्चाति एत्थ कामवितक्कोपि कामधातु कामावचरधम्मापि, विसेसतो सब्बाकुसलम्पि. यथाह –

‘‘तत्थ कतमा कामधातु? कामपटिसंयुत्तो तक्को वितक्को सङ्कप्पो अप्पना ब्यप्पना चेतसो अभिनिरोपना मिच्छासङ्कप्पो, अयं वुच्चति कामधातु. हेट्ठतो अवीचिनिरयं परियन्तं करित्वा उपरितो परनिम्मितवसवत्ती देवे अन्तोकरित्वा यं एतस्मिं अन्तरे एत्थावचरा एत्थ परियापन्ना खन्धधातुआयतना रूपा वेदना सञ्ञा सङ्खारा विञ्ञाणं, अयं वुच्चति कामधातु. सब्बेपि अकुसला धम्मा कामधातू’’ति (विभ. १८२).

एत्थ सब्बसङ्गाहिका असम्भिन्नाति द्वे कथा होन्ति. कथं? कामधातुग्गहणेन हि ब्यापादधातुविहिंसाधातुयो गहिता होन्तीति अयं सब्बसङ्गाहिका. तासं पन द्विन्नं धातूनं विसुं आगतत्ता सेसधम्मा कामधातूति अयं असम्भिन्नकथा. अयमिध गहेतब्बा इमं कामधातुं आरम्मणवसेन वा सम्पयोगवसेन वा पटिच्च कामसञ्ञा नाम उप्पज्जति. कामसञ्ञं पटिच्चाति कामसञ्ञं पन सम्पयोगवसेन वा उपनिस्सयवसेन वा पटिच्च कामसङ्कप्पो नाम उप्पज्जति. इमिना नयेन सब्बपदेसु अत्थो वेदितब्बो. तीहि ठानेहीति तीहि कारणेहि. मिच्छा पटिपज्जतीति अयाथावपटिपदं अनिय्यानिकपटिपदं पटिपज्जति.

ब्यापादधातुं, भिक्खवेति एत्थ ब्यापादवितक्कोपि ब्यापादधातु ब्यापादोपि. यथाह –

‘‘तत्थ कतमा ब्यापादधातु? ब्यापादपटिसंयुत्तो तक्को वितक्को…पे… अयं वुच्चति ब्यापादधातु. दससु आघातवत्थूसु चित्तस्स आघातो पटिविरोधो कोपो पकोपो…पे… अनत्तमनता चित्तस्स, अयं वुच्चति ब्यापादधातू’’ति (विभ. १८२).

इमं ब्यापादधातुं सहजातपच्चयादिवसेन पटिच्च ब्यापादसञ्ञा नाम उप्पज्जति. सेसं पुरिमनयेनेव वेदितब्बं.

विहिंसाधातुं, भिक्खवेति एत्थ विहिंसावितक्कोपि विहिंसाधातु विहिंसापि. यथाह –

‘‘तत्थ कतमा विहिंसाधातु? विहिंसापटिसंयुत्तो तक्को वितक्को…पे… अयं वुच्चति विहिंसाधातु. इधेकच्चो पाणिना वा लेड्डुना वा दण्डेन वा सत्थेन वा रज्जुया वा अञ्ञतरञ्ञतरेन वा सत्ते विहेठेति. या एवरूपा हेठना विहेठना हिंसना विहिंसना रोसना परूपघातो, अयं वुच्चति विहिंसाधातू’’ति (विभ. १८२).

इमं विहिंसाधातुं सहजातपच्चयादिवसेन पटिच्च विहिंसासञ्ञा नाम उप्पज्जति. सेसमिधापि पुरिमनयेनेव वेदितब्बं.

तिणदायेति तिणगहने अरञ्ञे. अनयब्यसनन्ति अवुड्ढिं विनासं. एवमेव खोति एत्थ सुक्खतिणदायो विय आरम्मणं दट्ठब्बं, तिणुक्का विय अकुसलसञ्ञा, तिणकट्ठनिस्सिता पाणा विय इमे सत्ता. यथा सुक्खतिणदाये ठपितं तिणुक्कं खिप्पं वायमित्वा अनिब्बापेन्तस्स ते पाणा अनयब्यसनं पापुणन्ति. एवमेव ये समणा वा ब्राह्मणा वा उप्पन्नं अकुसलसञ्ञं विक्खम्भनतदङ्गसमुच्छेदप्पहानेहि नप्पजहन्ति, ते दुक्खं विहरन्ति.

विसमगतन्ति रागविसमादीनि अनुगतं अकुसलसञ्ञं. न खिप्पमेव पजहतीति विक्खम्भनादिवसेन सीघं नप्पजहति. न विनोदेतीति न नीहरति. न ब्यन्तीकरोतीति भङ्गमत्तम्पि अनवसेसेन्तो न विगतन्तं करोति. न अनभावं गमेतीति न अनुअभावं गमेति. एवं सब्बपदेसु न – कारो आहरितब्बो. पाटिकङ्खाति पाटिकङ्खितब्बा इच्छितब्बा.

नेक्खम्मधातुं, भिक्खवेति एत्थ नेक्खम्मवितक्कोपि नेक्खम्मधातु सब्बेपि कुसला धम्मा. यथाह –

‘‘तत्थ कतमा नेक्खम्मधातु? नेक्खम्मपटिसंयुत्तो तक्को वितक्को…पे… सम्मासङ्कप्पो, अयं वुच्चति नेक्खम्मधातू’’ति (विभ. १८२).

इधापि दुविधा कथा. नेक्खम्मधातुग्गहणेन हि इतरापि द्वे धातुयो गहणं गच्छन्ति कुसलधम्मपरियापन्नत्ता, अयं सब्बसङ्गाहिका. ता पन धातुयो विसुं दीपेतब्बाति ता ठपेत्वा सेसा सब्बकुसला नेक्खम्मधातूति अयं असम्भिन्ना. इमं नेक्खम्मधातुं सहजातादिपच्चयवसेन पटिच्च नेक्खम्मसञ्ञा नाम उप्पज्जति. सञ्ञादीनि पटिच्च वितक्कादयो यथानुरूपं.

अब्यापादधातुं, भिक्खवेति एत्थ अब्यापादवितक्कोपि अब्यापादधातु अब्यापादोपि. यथाह –

‘‘तत्थ कतमा अब्यापादधातु? अब्यापादपटिसंयुत्तो तक्को…पे… अयं वुच्चति अब्यापादधातु. या सत्तेसु मेत्ति मेत्तायना मेत्तायितत्तं मेत्ताचेतोविमुत्ति, अयं वुच्चति अब्यापादधातू’’ति (विभ. १८२).

इमं अब्यापादधातुं पटिच्च वुत्तनयेनेव अब्यापादसञ्ञा नाम उप्पज्जति.

अविहिंसाधातुं, भिक्खवेति एत्थापि अविहिंसावितक्कोपि अविहिंसाधातु करुणापि. यथाह –

‘‘तत्थ कतमा अविहिंसाधातु? अविहिंसापटिसंयुत्तो तक्को…पे… अयं वुच्चति अविहिंसाधातु. या सत्तेसु करुणा करुणायना करुणायितत्तं करुणाचेतोविमुत्ति, अयं वुच्चति अविहिंसाधातू’’ति (विभ. १८२).

इमं अविहिंसाधातुं पटिच्च वुत्तनयेनेव अविहिंसासञ्ञा नाम उप्पज्जति. सेसं सब्बत्थ वुत्तानुसारेनेव वेदितब्बं. दुतियं.

३. गिञ्जकावसथसुत्तवण्णना

९७. ततिये धातुं, भिक्खवेति इतो पट्ठाय अज्झासयं धातूति दीपेति. उप्पज्जति सञ्ञाति अज्झासयं पटिच्च सञ्ञा उप्पज्जति, दिट्ठि उप्पज्जति, वितक्को उप्पज्जतीति. इधापि ‘‘कच्चानो पञ्हं पुच्छिस्सती’’ति तस्स ओकासदानत्थं एत्तावताव देसनं निट्ठापेसि. असम्मासम्बुद्धेसूति छसु सत्थारेसु. सम्मासम्बुद्धाति मयमस्म सम्मासम्बुद्धाति. किं पटिच्च पञ्ञायतीति किस्मिं सति होतीति? सत्थारानं उप्पन्नं दिट्ठिं पुच्छति. असम्मासम्बुद्धेसु तेसु सम्मासम्बुद्धा एतेति एवं उप्पन्नं तित्थियसावकानम्पि दिट्ठिं पुच्छतियेव.

इदानि यस्मा तेसं अविज्जाधातुं पटिच्च सा दिट्ठि होति, अविज्जाधातु च नाम महती धातु, तस्मा महतिं धातुं पटिच्च तस्सा उप्पत्तिं दीपेन्तो महती खो एसातिआदिमाह. हीनं, कच्चान, धातुं पटिच्चाति हीनं अज्झासयं पटिच्च. पणिधीति चित्तट्ठपनं. सा पनेसा इत्थिभावं वा मक्कटादितिरच्छानभावं वा पत्थेन्तस्स उप्पज्जति. हीनो पुग्गलोति यस्सेते हीना धम्मा उप्पज्जन्ति, सब्बो सो पुग्गलोपि हीनो नाम. हीना वाचाति या तस्स वाचा, सापि हीना. हीनं आचिक्खतीति सो आचिक्खन्तोपि हीनमेव आचिक्खति, देसेन्तोपि हीनमेव देसेतीति सब्बपदानि योजेतब्बानि. उपपत्तीति द्वे उपपत्तियो पटिलाभो च निब्बत्ति च. निब्बत्ति हीनकुलादिवसेन वेदितब्बा, पटिलाभो चित्तुप्पादक्खणे हीनत्तिकवसेन. कथं? तस्स हि पञ्चसु नीचकुलेसु उप्पज्जनतो हीना निब्बत्ति, वेस्ससुद्दकुलेसु उप्पज्जनतो मज्झिमा, खत्तियब्राह्मणकुलेसु उप्पज्जनतो पणीता. द्वादसाकुसलचित्तुप्पादानं पन पटिलाभतो हीनो पटिलाभो, तेभूमकधम्मानं पटिलाभतो मज्झिमो, नवलोकुत्तरधम्मानं पटिलाभतो पणीतो. इमस्मिं पन ठाने निब्बत्तियेव अधिप्पेताति. ततियं.

४. हीनाधिमुत्तिकसुत्तवण्णना

९८. चतुत्थे संसन्दन्तीति एकतो होन्ति. समेन्तीति समागच्छन्ति, निरन्तरा होन्ति. हीनाधिमुत्तिकाति हीनज्झासया. कल्याणाधिमुत्तिकाति कल्याणज्झासया. चतुत्थं.

५. चङ्कमसुत्तवण्णना

९९. पञ्चमे पस्सथ नोति पस्सथ नु. सब्बे खो एतेति सारिपुत्तत्थेरो भगवता ‘‘एतदग्गं, भिक्खवे, मम सावकानं भिक्खूनं महापञ्ञानं यदिदं सारिपुत्तो’’ति (अ. नि. १.१८९) महापञ्ञेसु एतदग्गे ठपितो. इति नं ‘‘खन्धन्तरं धात्वन्तरं आयतनन्तरं सतिपट्ठानबोधिपक्खियधम्मन्तरं तिलक्खणाहतं गम्भीरं पञ्हं पुच्छिस्सामा’’ति महापञ्ञाव परिवारेन्ति. सोपि तेसं पथविं पत्थरेन्तो विय सिनेरुपादतो वालिकं उद्धरन्तो विय चक्कवाळपब्बतं भिन्दन्तो विय सिनेरुं उक्खिपन्तो विय आकासं वित्थारेन्तो विय चन्दिमसूरिये उट्ठापेन्तो विय च पुच्छितपुच्छितं कथेति. तेन वुत्तं ‘‘सब्बे खो एते, भिक्खवे, भिक्खू महापञ्ञा’’ति.

महामोग्गल्लानोपि भगवता ‘‘एतदग्गं, भिक्खवे, मम सावकानं भिक्खूनं इद्धिमन्तानं यदिदं महामोग्गल्लानो’’ति इद्धिमन्तेसु एतदग्गे ठपितो. इति नं ‘‘परिकम्मं आनिसंसं अधिट्ठानं विकुब्बनं पुच्छिस्सामा’’ति इद्धिमन्तोव परिवारेन्ति. सोपि तेसं वुत्तनयेनेव पुच्छितपुच्छितं कथेति. तेन वुत्तं ‘‘सब्बे खो एते, भिक्खवे, भिक्खू महिद्धिका’’ति.

महाकस्सपोपि भगवता ‘‘एतदग्गं, भिक्खवे, मम सावकानं भिक्खूनं धुतवादानं यदिदं महाकस्सपो’’ति धुतवादेसु एतदग्गे ठपितो. इति नं ‘‘धुतङ्गपरिहारं आनिसंसं समोधानं अधिट्ठानं भेदं पुच्छिस्सामा’’ति धुतवादाव परिवारेन्ति. सोपि तेसं तथेव पुच्छितपुच्छितं ब्याकरोति. तेन वुत्तं ‘‘सब्बे खो एते, भिक्खवे, भिक्खू धुतवादा’’ति.

अनुरुद्धत्थेरोपि भगवता ‘‘एतदग्गं, भिक्खवे, मम सावकानं भिक्खूनं दिब्बचक्खुकानं यदिदं अनुरुद्धो’’ति (अ. नि. १.१९२) दिब्बचक्खुकेसु एतदग्गे ठपितो. इति नं ‘‘दिब्बचक्खुस्स परिकम्मं आनिसंसं उपक्किलेसं पुच्छिस्सामा’’ति दिब्बचक्खुकाव परिवारेन्ति. सोपि तेसं तथेव पुच्छितपुच्छितं कथेति. तेन वुत्तं ‘‘सब्बे खो एते, भिक्खवे, भिक्खू दिब्बचक्खुका’’ति.

पुण्णत्थेरोपि भगवता ‘‘एतदग्गं, भिक्खवे, मम सावकानं भिक्खूनं धम्मकथिकानं यदिदं पुण्णो मन्ताणिपुत्तो’’ति (अ. नि. १.१९६) धम्मकथिकेसु एतदग्गे ठपितो. इति नं ‘‘धम्मकथाय सङ्खेपवित्थारगम्भीरुत्तानविचित्रकथादीसु तं तं आकारं पुच्छिस्सामा’’ति धम्मकथिकाव परिवारेन्ति. सोपि तेसं ‘‘आवुसो, धम्मकथिकेन नाम आदितो परिसं वण्णेतुं वट्टति, मज्झे सुञ्ञतं पकासेतुं, अन्ते चतुसच्चवसेन कूटं गण्हितु’’न्ति एवं तं तं धम्मकथानयं आचिक्खति. तेन वुत्तं ‘‘सब्बे खो एते, भिक्खवे, भिक्खू धम्मकथिका’’ति.

उपालित्थेरोपि भगवता ‘‘एतदग्गं, भिक्खवे, मम सावकानं भिक्खूनं विनयधरानं यदिदं उपाली’’ति (अ. नि. १.२२८) विनयधरेसु एतदग्गे ठपितो. इति नं ‘‘गरुकलहुकं सतेकिच्छअतेकिच्छं आपत्तानापत्तिं पुच्छिस्सामा’’ति विनयधराव परिवारेन्ति. सोपि तेसं पुच्छितपुच्छितं तथेव कथेति. तेन वुत्तं ‘‘सब्बे खो एते, भिक्खवे, भिक्खू विनयधरा’’ति.

आनन्दत्थेरोपि भगवता ‘‘एतदग्गं, भिक्खवे, मम सावकानं भिक्खूनं बहुस्सुतानं यदिदं आनन्दो’’ति (अ. नि. १.२२३) बहुस्सुतेसु एतदग्गे ठपितो. इति नं ‘‘दसविधं ब्यञ्जनबुद्धिं अट्ठुप्पत्तिं अनुसन्धिं पुब्बापरं पुच्छिस्सामा’’ति बहुस्सुताव परिवारेन्ति. सोपि तेसं ‘‘इदं एवं वत्तब्बं, इदं एवं गहेतब्ब’’न्ति सब्बं कथेति. तेन वुत्तं ‘‘सब्बे खो एते, भिक्खवे, भिक्खू बहुस्सुता’’ति.

देवदत्तो पन पापिच्छो इच्छापकतो, तेन नं ‘‘कुलसङ्गण्हनपरिहारं नानप्पकारकं कोहञ्ञतं पुच्छिस्सामा’’ति पापिच्छाव परिवारेन्ति. सोपि तेसं तं तं नियामं आचिक्खति. तेन वुत्तं ‘‘सब्बे खो एते, भिक्खवे, भिक्खू पापिच्छा’’ति.

कस्मा पनेते अविदूरे चङ्कमिंसूति. ‘‘देवदत्तो सत्थरि पदुट्ठचित्तो अनत्थम्पि कातुं उपक्कमेय्या’’ति आरक्खग्गहणत्थं. अथ देवदत्तो कस्मा चङ्कमीति? ‘‘अकारको अयं, यदि कारको भवेय्य, न इध आगच्छेय्या’’ति अत्तनो कतदोसपटिच्छादनत्थं. किं पन देवदत्तो भगवतो अनत्थं कातुं समत्थो, भगवतो वा आरक्खकिच्चं अत्थीति? नत्थि. तेन वुत्तं ‘‘अट्ठानमेतं, आनन्द, अनवकासो, यं तथागतो परूपक्कमेन परिनिब्बायेय्या’’ति (चूळव. ३४१). भिक्खू पन सत्थरि गारवेन आगता. तेनेव भगवा एवं वत्वा ‘‘विस्सज्जेहि, आनन्द, भिक्खुसङ्घ’’न्ति विस्सज्जापेसि. पञ्चमं.

६. सगाथासुत्तवण्णना

१००. छट्ठे गूथो गूथेन संसन्दति समेतीति समुद्दन्तरे जनपदन्तरे चक्कवाळन्तरे ठितोपि वण्णेनपि गन्धेनपि रसेनपि नानत्तं अनुपगच्छन्तो संसन्दति समेति, एकसदिसोव होति निरन्तरो. सेसेसुपि एसेव नयो. अयं पन अनिट्ठउपमा हीनज्झासयानं हीनअज्झासयस्स सरिक्खभावदस्सनत्थं आहटा, खीरादिविसिट्ठोपमा कल्याणज्झासयानं अज्झासयस्स सरिक्खभावदस्सनत्थं.

संसग्गाति दस्सनसवनसंसग्गादिवत्थुकेन तण्हास्नेहेन. वनथो जातोति किलेसवनं जातं. असंसग्गेन छिज्जतीति एकतो ठाननिसज्जादीनि अकरोन्तस्स असंसग्गेन अदस्सनेन छिज्जति. साधुजीवीति परिसुद्धजीवितं जीवमानो. सहावसेति सहवासं वसेय्य. छट्ठं.

७. अस्सद्धसंसन्दनसुत्तवण्णना

१०१. सत्तमे अस्सद्धा अस्सद्धेहीतिआदीसु बुद्धे वा धम्मे वा सङ्घे वा सद्धाविरहिता निरोजा निरसा पुग्गला समुद्दस्स ओरिमतीरे ठिता पारिमतीरेपि ठितेहि अस्सद्धेहि सद्धिं ताय अस्सद्धताय एकसदिसा निरन्तरा होन्ति. तथा अहिरिका भिन्नमरियादा अलज्जिपुग्गला अहिरिकेहि, अनोत्तप्पिनो पापकिरियाय अभायमाना अनोत्तप्पीहि, अप्पस्सुता सुतविरहिता अप्पस्सुतेहि, कुसीता आलसियपुग्गला कुसीतेहि, मुट्ठस्सतिनो भत्तनिक्खित्तकाकमंसनिक्खित्तसिङ्गालसदिसा मुट्ठस्सतीहि, दुप्पञ्ञा खन्धादिपरिच्छेदिकाय पञ्ञाय अभावेन निप्पञ्ञा तादिसेहेव दुप्पञ्ञेहि, सद्धासम्पन्ना चेतियवन्दनादिकिच्चपसुता सद्धेहि, हिरिमना लज्जिपुग्गला हिरिमनेहि, ओत्तप्पिनो पापभीरुका ओत्तप्पीहि, बहुस्सुता सुतधरा आगमधरा तन्तिपालका वंसानुरक्खका बहुस्सुतेहि, आरद्धवीरिया परिपुण्णपरक्कमा आरद्धवीरियेहि, उपट्ठितस्सती सब्बकिच्चपरिग्गाहिकाय सतिया समन्नागता उपट्ठितस्सतीहि, पञ्ञवन्तो महापञ्ञेहि वजिरूपमञाणेहि पञ्ञवन्तेहि सद्धिं दूरे ठितापि ताय पञ्ञासम्पत्तिया संसन्दन्ति समेन्ति. सत्तमं.

८-१२. अस्सद्धमूलकसुत्तादिवण्णना

१०२-१०६. अट्ठमादीनि तेयेव अस्सद्धादिधम्मे तिकवसेन कत्वा देसितानि. तत्थ अट्ठमे अस्सद्धादिमूलका कण्हपक्खसुक्कपक्खवसेन पञ्च तिका वुत्ता, नवमे अहिरिकमूलका चत्तारो. दसमे अनोत्तप्पमूलका तयो, एकादसमे अप्पस्सुतमूलका द्वे, द्वादसमे कुसीतमूलको एको तिको वुत्तोति सब्बेपि पञ्चसु सुत्तन्तेसु पन्नरस तिका होन्ति. पन्नरस चेते सुत्तन्तातिपि वदन्ति. अयं तिकपेय्यालो नाम. अट्ठमादीनि.

दुतियो वग्गो.