६. सम्मससुत्तवण्णना

६६. छट्ठे आमन्तेसीति कस्मा आमन्तेसि? यस्मास्स सुखुमा तिलक्खणाहता धम्मदेसना उपट्ठासि. तस्मिं किर जनपदे मनुस्सा सहेतुका पञ्ञवन्तो. सिनिद्धानि किरेत्थ भोजनानि, तानिसेवतो जनस्स पञ्ञा वड्ढति, ते गम्भीरं तिलक्खणाहतं धम्मकथं पटिविज्झितुं समत्था होन्ति. तेनेव भगवा दीघमज्झिमेसु महासतिपट्ठानानि (दी. नि. २.३७२ आदयो) महानिदानं (दी. नि. २.९५ आदयो), आनेञ्जसप्पायं (म. नि. ३.६६ आदयो), संयुत्तके चूळनिदानादिसुत्तन्ति एवमादीनि अञ्ञानि गम्भीरानि सुत्तानि तत्थेव कथेसि. सम्मसथ नोति सम्मसथ नु. अन्तरं सम्मसन्ति अब्भन्तरं पच्चयसम्मसनं. न सो भिक्खु भगवतो चित्तं आराधेसीति पच्चयाकारवसेन ब्याकारापेतुकामस्स भगवतो तथा अब्याकरित्वा द्वत्तिंसाकारवसेन ब्याकरोन्तो अज्झासयं गहेतुं नासक्खि.

एतदवोचाति देसना यथानुसन्धिं न गता, देसनाय यथानुसन्धिगमनत्थं एतदवोच. तेनहानन्द, सुणाथाति इदं तेपिटके बुद्धवचने असम्भिन्नपदं. अञ्ञत्थ हि एवं वुत्तं नाम नत्थि. उपधिनिदानन्ति खन्धुपधिनिदानं. खन्धपञ्चकञ्हेत्थ उपधीति अधिप्पेतं. उप्पज्जतीति जायति. निविसतीति पुनप्पुनं पवत्तिवसेन पतिट्ठहति.

यं खो लोके पियरूपं सातरूपन्ति यं लोकस्मिं पियसभावञ्चेव मधुरसभावञ्च. चक्खुं लोकेतिआदीसु लोकस्मिञ्हि चक्खादीसु ममत्तेन अभिनिविट्ठा सत्ता सम्पत्तियं पतिट्ठिता अत्तनो चक्खुं आदासादीसु निमित्तग्गहणानुसारेन विप्पसन्नपञ्चपसादं सुवण्णविमाने उग्घाटितमणिसीहपञ्जरं विय मञ्ञन्ति, सोतं रजतपनाळिकं विय पामङ्गसुत्तं विय च मञ्ञन्ति, तुङ्गनासाति लद्धवोहारं घानं वट्टेत्वा ठपितहरितालवट्टिं विय मञ्ञन्ति, जिव्हं रत्तकम्बलपटलं विय मुदुसिनिद्धमधुररसदं मञ्ञन्ति, कायं साललट्ठिं विय सुवण्णतोरणं विय च मञ्ञन्ति, मनं अञ्ञेसं मनेन असदिसं उळारं मञ्ञन्ति.

निच्चतो अद्दक्खुन्ति निच्चन्ति अद्दसंसु. सेसपदेसुपि एसेव नयो. न परिमुच्चिंसु दुक्खस्माति सकलस्मापि वट्टदुक्खा न परिमुच्चिंसु. दक्खिस्सन्तीति पस्सिस्सन्ति. आपानीयकंसोति सरकस्स नामं. यस्मा पनेत्थ आपं पिवन्ति, तस्मा ‘‘आपानीयो’’ति वुच्चति. आपानीयो च सो कंसो चाति आपानीयकंसो. सुरामण्डसरकस्सेतं नामं. ‘‘वण्णसम्पन्नो’’तिआदिवचनतो पन कंसे ठितपानमेव एवं वुत्तं. घम्माभितत्तोति घम्मेन अभितत्तो. घम्मपरेतोति घम्मेन फुट्ठो, अनुगतोति अत्थो. पिवतो हि खो तं छादेस्सतीति पिवन्तस्स तं पानीयं वण्णादिसम्पत्तिया रुच्चिस्सति, सकलसरीरं वा फरित्वा तुट्ठिं उप्पादयमानं ठस्सति. अप्पटिसङ्खाति अपच्चवेक्खित्वा.

एवमेव खोति एत्थ इदं ओपम्मसंसन्दनं – आपानीयकंसो विय हि लोके पियरूपं सातरूपं आरम्मणं दट्ठब्बं, घम्माभितत्तपुरिसो विय वट्टनिस्सितो पुथुज्जनो, आपानीयकंसेन निमन्तनपुरिसो विय लोके पियरूपेन सातरूपेन आरम्मणेन निमन्तकजनो, आपानीयकंसे सम्पत्तिञ्च आदीनवञ्च आरोचेन्तो आपानकमनुस्सो विय आचरियुपज्झायादिको कल्याणमित्तो. यथेव हि तस्स पुरिसस्स अपलोकितमनुस्सो आपानीयकंसे गुणञ्च आदीनवञ्च आरोचेति, एवमेव आचरियो वा उपज्झायो वा भिक्खुनो पञ्चसु कामगुणेसु अस्सादञ्च निस्सरणञ्च कथेति.

तत्थ यथा आपानीयकंसम्हि गुणे च आदीनवे च आरोचिते सो पुरिसो पियवण्णादिसम्पदायमेव सञ्जातवेगो ‘‘सचे मरणं भविस्सति, पच्छा जानिस्सामी’’ति सहसा अप्पटिसङ्खाय तं पिवित्वा मरणं वा मरणमत्तं वा दुक्खं निगच्छति, एवमेव, भिक्खु, ‘‘पञ्चसु कामगुणेसु दस्सनादिवसेन उप्पन्नसोमनस्समत्तमेव अस्सादो, आदीनवो पन दिट्ठधम्मिकसम्परायिको बहु नानप्पकारो, अप्पस्सादा कामा बहुदुक्खा बहुपायासा’’ति एवं आचरियुपज्झायेहि आनिसंसञ्च आदीनवञ्च कथेत्वा – ‘‘समणपटिपदं पटिपज्ज, इन्द्रियेसु गुत्तद्वारो भव भोजने मत्तञ्ञू जागरियं अनुयुत्तो’’ति एवं ओवदितोपि अस्सादबद्धचित्तताय ‘‘सचे वुत्तप्पकारो आदीनवो भविस्सति, पच्छा जानिस्सामी’’ति आचरियुपज्झाये अपसादेत्वा उद्देसपरिपुच्छादीनि चेव वत्तपटिपत्तिञ्च पहाय लोकामिसकथं कथेन्तो कामे परिभुञ्जितुकामताय सिक्खं पच्चक्खाय हीनायावत्तति. ततो दुच्चरितानि पूरेन्तो सन्धिच्छेदनादिकाले ‘‘चोरो अय’’न्ति गहेत्वा रञ्ञो दस्सितो इधेव हत्थपादादिछेदनं पत्वा सम्पराये चतूसु अपायेसु महादुक्खं अनुभोति.

पानीयेन वा विनेतुन्ति सीतेन वारिना हरितुं. दधिमण्डकेनाति दधिमण्डनमत्तेन. भट्ठलोणिकायाति सलोणेन सत्तुपानीयेन. लोणसोवीरकेनाति सब्बधञ्ञफलकळीरादीनि पक्खिपित्वा लोणसोवीरकं नाम करोन्ति, तेन.

ओपम्मसंसन्दनं पनेत्थ – घम्माभितत्तपुरिसो विय वट्टसन्निस्सितकाले योगावचरो दट्ठब्बो, तस्स पुरिसस्स पटिसङ्खा आपानीयकंसं पहाय पानीयादीहि पिपासस्स विनोदनं विय भिक्खुनो आचरियुपज्झायानं ओवादे ठत्वा छद्वारादीनि परिग्गहेत्वा अनुक्कमेन विपस्सनं वड्ढेन्तस्स अरहत्तफलाधिगमो, पानीयादीनि चत्तारि पानानि विय हि चत्तारो मग्गा, तेसु अञ्ञतरं पिवित्वा सुरापिपासितं विनोदेत्वा सुखिनो येन कामं गमनं विय खीणासवस्स चतुमग्गपानं पिवित्वा तण्हं विनोदेत्वा अगतपुब्बं निब्बानदिसं गमनकालो वेदितब्बो. छट्ठं.