१०. सुसिमसुत्तवण्णना

७०. दसमे गरुकतोति सब्बेहि देवमनुस्सेहि पासाणच्छत्तं विय चित्तेन गरुकतो. मानितोति मनेन पियायितो. पूजितोति चतुपच्चयपूजाय पूजितो. अपचितोति नीचवुत्तिकरणेन अपचितो. सत्थारञ्हि दिस्वा मनुस्सा हत्थिक्खन्धादीहि ओतरन्ति मग्गं देन्ति, अंसकूटतो साटकं अपनेन्ति, आसनतो वुट्ठहन्ति वन्दन्ति. एवं सो तेहि अपचितो नाम होति. सुसिमोति एवंनामको वेदङ्गेसु कुसलो पण्डितपरिब्बाजको. एहि त्वन्ति तेसं किर एतदहोसि – ‘‘समणो गोतमो न जातिगोत्तादीनि आगम्म लाभग्गप्पत्तो जातो, कविसेट्ठो पनेस उत्तमकविताय सावकानं गन्थं बन्धित्वा देति, तं ते उग्गण्हित्वा उपट्ठाकानं उपनिसिन्नकथम्पि अनुमोदनम्पि सरभञ्ञम्पीति एवमादीनि कथेन्ति, ते तेसं पसन्ना लाभं उपसंहरन्ति. सचे मयं यं समणो गोतमो जानाति, ततो थोकं जानेय्याम, अत्तनो समयं तत्थ पक्खिपित्वा मयम्पि उपट्ठाकानं कथेय्याम, ततो एतेहि लाभितरा भवेय्याम. को नु खो समणस्स गोतमस्स सन्तिके पब्बजित्वा खिप्पमेव उग्गण्हितुं सक्खिस्सती’’ति. ते एवं चिन्तेत्वा ‘‘सुसिमो पटिबलो’’ति दिस्वा तं उपसङ्कमित्वा एवमाहंसु.

येनायस्मा आनन्दो तेनुपसङ्कमीति कस्मा उपसङ्कमि? एवं किरस्स अहोसि, ‘‘कस्स नु खो सन्तिकं गन्त्वा अहं इमं धम्मं खिप्पं लद्धुं सक्खिस्सामी’’ति? ततो चिन्तेसि – ‘‘समणो गोतमो गरु तेजुस्सदो नियममनुयुत्तो, न सक्का अकाले उपसङ्कमितुं, अञ्ञेपि बहू खत्तियादयो समणं गोतमं उपसङ्कमन्ति, तस्मिम्पि समये न सक्का उपसङ्कमितुं. सावकेसुपिस्स सारिपुत्तो महापञ्ञो विपस्सनालक्खणम्हि एतदग्गे ठपितो, महामोग्गल्लानो समाधिलक्खणस्मिं एतदग्गे ठपितो, महाकस्सपो धुतङ्गधरेसु अनुरुद्धो दिब्बचक्खुकेसु, पुण्णो मन्ताणिपुत्तो धम्मकथिकेसु, उपालित्थेरो विनयधरेसु एतदग्गे ठपितो, अयं पन आनन्दो बहुस्सुतो तिपिटकधरो, सत्थापिस्स तत्थ तत्थ कथितं धम्मं आहरित्वा कथेति, पञ्चसु ठानेसु एतदग्गे ठपितो, अट्ठन्नं वरानं लाभी, चतूहि अच्छरियब्भुतधम्मेहि समन्नागतो, तस्स समीपं गतो खिप्पं धम्मं लद्धुं सक्खिस्सामी’’ति. तस्मा येनायस्मा आनन्दो तेनुपसङ्कमि.

येन भगवा तेनुपसङ्कमीति कस्मा सयं अपब्बाजेत्वा उपसङ्कमि? एवं किरस्स अहोसि – ‘‘अयं तित्थियसमये पाटियेक्को ‘अहं सत्था’ति पटिजानन्तो चरति, पब्बजित्वा सासनस्स अलाभायपि परिसक्केय्य. न खो पनस्साहं अज्झासयं आजानामि, सत्था जानिस्सती’’ति. तस्मा तं आदाय येन भगवा तेनुपसङ्कमि. तेनहानन्द, सुसिमं पब्बाजेथाति सत्था किर चिन्तेसि – ‘‘अयं परिब्बाजको तित्थियसमये ‘अहं पाटियेक्को सत्था’ति पटिजानमानो चरति, ‘इध मग्गब्रह्मचरियं चरितुं इच्छामी’ति किर वदति. किं नु खो मयि पसन्नो, उदाहु मय्हं सावकेसु, उदाहु मय्हं वा मम सावकानं वा धम्मकथाय पसन्नो’’ति? अथस्स एकट्ठानेपि पसादाभावं ञत्वा, ‘‘अयं मम सासने धम्मं थेनेस्सामीति पब्बजति. इतिस्स आगमनं अपरिसुद्धं; निप्फत्ति नु खो कीदिसा’’ति? ओलोकेन्तो ‘‘किञ्चापि ‘धम्मं थेनेस्सामी’ति पब्बजति, कतिपाहेनेव पन घटेत्वा अरहत्तं गण्हिस्सती’’ति ञत्वा ‘‘तेनहानन्द, सुसिमं पब्बाजेथा’’ति आह.

अञ्ञा ब्याकता होतीति ते किर भिक्खू सत्थु सन्तिके कम्मट्ठानं गहेत्वा तेमासं वस्सं वसन्ता तस्मिंयेव अन्तोतेमासे घटेन्ता वायमन्ता अरहत्तं पटिलभिंसु. ते ‘‘पटिलद्धगुणं सत्थु आरोचेस्सामा’’ति पवारितपवारणा सेनासनं संसामेत्वा सत्थु सन्तिकं आगन्त्वा अत्तनो पटिलद्धगुणं आरोचेसुं. तं सन्धायेतं वुत्तं. अञ्ञाति अरहत्तस्स नामं. ब्याकताति आरोचिता. अस्सोसीति सो किर ओहितसोतो हुत्वा तेसं तेसं भिक्खूनं ठितट्ठानं गच्छति तं तं कथं सुणितुकामो. येन ते भिक्खू तेनुपसङ्कमीति कस्मा उपसङ्कमि? तं किरस्स पवत्तिं सुत्वा एतदहोसि – ‘‘अञ्ञा नाम इमस्मिं सासने परमप्पमाणं सारभूता आचरियमुट्ठि मञ्ञे भविस्सति, पुच्छित्वा नं जानिस्सामी’’ति. तस्मा उपसङ्कमि.

अनेकविहितन्ति अनेकविधं. इद्धिविधन्ति इद्धिकोट्ठासं. आविभावं तिरोभावन्ति आविभावं गहेत्वा तिरोभावं, तिरोभावं गहेत्वा आविभावं कातुं सक्कोथाति पुच्छति. तिरोकुट्टन्ति परकुट्टं. इतरपदद्वयेपि एसेव नयो. उम्मुज्जनिमुज्जन्ति उम्मुज्जनञ्च निमुज्जनञ्च. पल्लङ्केनाति पल्लङ्कबन्धनेन. कमथाति निसीदितुं वा गन्तुं वा सक्कोथाति पुच्छति? पक्खी सकुणोति पक्खयुत्तो सकुणो. अयमेत्थ सङ्खेपो, वित्थारतो पन इमस्स इद्धिविधस्स, इतो परेसं दिब्बसोतादीनञ्च वण्णनानयो विसुद्धिमग्गे वुत्तनयेन वेदितब्बोति.

सन्ता विमोक्खाति अङ्गसन्तताय चेव आरम्मणसन्तताय च सन्ता आरुप्पविमोक्खा. कायेन फुसित्वाति नामकायेन फुसित्वा पटिलभित्वा. पञ्ञाविमुत्ता खो मयं, आवुसोति, आवुसो, मयं निज्झानका सुक्खविपस्सका पञ्ञामत्तेनेव विमुत्ताति दस्सेति. आजानेय्यासि वा त्वं, आवुसो सुसिम, न वा त्वं आजानेय्यासीति कस्मा एवमाहंसु? एवं किर नेसं अहोसि – ‘‘मयं इमस्स अज्झासयं गहेत्वा कथेतुं न सक्खिस्साम, दसबलं पन पुच्छित्वा निक्कङ्खो भविस्सती’’ति. धम्मट्ठितिञाणन्ति विपस्सनाञाणं, तं पठमतरं उप्पज्जति. निब्बाने ञाणन्ति विपस्सनाय चिण्णन्ते पवत्तमग्गञाणं, तं पच्छा उप्पज्जति. तस्मा भगवा एवमाह.

आजानेय्यासि वातिआदि कस्मा वुत्तं? विनापि समाधिं एवं ञाणुप्पत्तिदस्सनत्थं. इदञ्हि वुत्तं होति – सुसिम, मग्गो वा फलं वा न समाधिनिस्सन्दो, न समाधिआनिसंसो, न समाधिस्स निप्फत्ति, विपस्सनाय पनेसो निस्सन्दो, विपस्सनाय आनिसंसो, विपस्सनाय निप्फत्ति, तस्मा जानेय्यासि वा त्वं, न वा त्वं जानेय्यासि, अथ खो धम्मट्ठितिञाणं पुब्बे, पच्छा निब्बाने ञाणन्ति.

इदानिस्स पटिवेधभब्बतं ञत्वा तेपरिवट्टं धम्मदेसनं देसेन्तो तं किं मञ्ञसि, सुसिम? रूपं निच्चं वा अनिच्चं वातिआदिमाह? ते परिवट्टदेसनावसाने पन थेरो अरहत्तं पत्तो. इदानिस्स अनुयोगं आरोपेन्तो जातिपच्चया जरामरणन्ति, सुसिम, पस्ससीतिआदिमाह. अपि पन त्वं, सुसिमाति इदं कस्मा आरभि? निज्झानकानं सुक्खविपस्सकभिक्खूनं पाकटकरणत्थं. अयञ्हेत्थ अधिप्पायो – न केवलं त्वमेव निज्झानको सुक्खविपस्सको, एतेपि भिक्खू एवरूपायेवाति. सेसं सब्बत्थ पाकटमेवाति. दसमं.

महावग्गो सत्तमो.