८. लोकायतिकसुत्तवण्णना
४८. अट्ठमे लोकायतिकोति वितण्डसत्थे लोकायते कतपरिचयो. जेट्ठमेतं लोकायतन्ति पठमं लोकायतं. लोकायतन्ति च लोकस्सेव आयतं, बालपुथुज्जनलोकस्स आयतं, महन्तं गम्भीरन्ति उपधारितब्बं परित्तं भावं दिट्ठिगतं. एकत्तन्ति एकसभावं, निच्चसभावमेवाति पुच्छति. पुथुत्तन्ति पुरिमसभावेन नानासभावं, देवमनुस्सादिभावेन पठमं हुत्वा पच्छा न होतीति उच्छेदं सन्धाय पुच्छति. एवमेत्थ ‘‘सब्बमत्थि, सब्बमेकत्त’’न्ति इमा द्वेपि सस्सतदिट्ठियो, ‘‘सब्बं नत्थि, सब्बं पुथुत्त’’न्ति इमा द्वे उच्छेददिट्ठियोति वेदितब्बा. अट्ठमं.