३. दसबलवग्गो

१. दसबलसुत्तवण्णना

२१. दसबलवग्गस्स पठमं दुतियस्सेव सङ्खेपो.

२. दुतियदसबलसुत्तवण्णना

२२. दुतियं भगवता अत्तनो अज्झासयस्स वसेन वुत्तं. तत्थ दसबलसमन्नागतोति दसहि बलेहि समन्नागतो. बलञ्च नामेतं दुविधं कायबलञ्च ञाणबलञ्च. तेसु तथागतस्स कायबलं हत्थिकुलानुसारेन वेदितब्बं. वुत्तञ्हेतं पोराणेहि –

‘‘काळावकञ्च गङ्गेय्यं, पण्डरं तम्बपिङ्गलं;

गन्धमङ्गलहेमञ्च, उपोसथछद्दन्तिमे दसा’’ति.(म. नि. अट्ठ. १.१४८; विभ. अट्ठ. ७६०); –

इमानि दस हत्थिकुलानि. तत्थ काळावकन्ति पकतिहत्थिकुलं दट्ठब्बं. यं दसन्नं पुरिसानं कायबलं, तं एकस्स काळावकस्स हत्थिनो. यं दसन्नं काळावकानं बलं, तं एकस्स गङ्गेय्यस्स. यं दसन्नं गङ्गेय्यानं, तं एकस्स पण्डरस्स. यं दसन्नं पण्डरानं, तं एकस्स तम्बस्स. यं दसन्नं तम्बानं, तं एकस्स पिङ्गलस्स. यं दसन्नं पिङ्गलानं, तं एकस्स गन्धहत्थिनो. यं दसन्नं गन्धहत्थीनं, तं एकस्स मङ्गलस्स. यं दसन्नं मङ्गलानं, तं एकस्स हेमवतस्स. यं दसन्नं हेमवतानं, तं एकस्स उपोसथस्स. यं दसन्नं उपोसथानं, तं एकस्स छद्दन्तस्स. यं दसन्नं छद्दन्तानं, तं एकस्स तथागतस्स. नारायनसङ्घातबलन्तिपि इदमेव वुच्चति. तदेतं पकतिहत्थिगणनाय हत्थीनं कोटिसहस्सानं, पुरिसगणनाय दसन्नं पुरिसकोटिसहस्सानं बलं होति. इदं ताव तथागतस्स कायबलं. ‘‘दसबलसमन्नागतो’’ति एत्थ पन एतं सङ्गहं न गच्छति. एतञ्हि बाहिरकं लामकं तिरच्छानगतानं सीहादीनम्पि होति. एतञ्हि निस्साय दुक्खपरिञ्ञा वा समुदयप्पहानं वा मग्गभावना वा फलसच्छिकिरिया वा नत्थि. अञ्ञं पन दससु ठानेसु अकम्पनत्थेन उपत्थम्भनत्थेन च दसविधं ञाणबलं नाम अत्थि. तं सन्धाय वुत्तं ‘‘दसबलसमन्नागतो’’ति.

कतमं पन तन्ति? ठानाट्ठानादीनं यथाभूतं जाननं. सेय्यथिदं – ठानञ्च ठानतो अट्ठानञ्च अट्ठानतो जाननं एकं, अतीतानागतपच्चुप्पन्नानं कम्मसमादानानं ठानसो हेतुसो यथाभूतं विपाकजाननं एकं, सब्बत्थगामिनिपटिपदाजाननं एकं, अनेकधातुनानाधातुलोकजाननं एकं, परसत्तानं परपुग्गलानं नानाधिमुत्तिकताजाननं एकं, तेसंयेव इन्द्रियपरोपरियत्तजाननं एकं, झानविमोक्खसमाधिसमापत्तीनं संकिलेसवोदानवुट्ठानजाननं एकं, पुब्बेनिवासजाननं एकं, सत्तानं चुतूपपातजाननं एकं, आसवक्खयजाननं एकन्ति. अभिधम्मे पन –

‘‘इध तथागतो ठानञ्च ठानतो अट्ठानञ्च अट्ठानतो यथाभूतं पजानाति. यम्पि तथागतो ठानञ्च ठानतो अट्ठानञ्च अट्ठानतो यथाभूतं पजानाति. इदम्पि तथागतस्स तथागतबलं होति, यं बलं आगम्म तथागतो आसभं ठानं पटिजानाति, परिसासु सीहनादं नदति, ब्रह्मचक्कं पवत्तेती’’ति.

आदिना (विभ. ७६०) नयेन वित्थारतो आगतानेव. अत्थवण्णनापि नेसं विभङ्गट्ठकथायञ्चेव (विभ. अट्ठ. ७६०) पपञ्चसूदनिया च मज्झिमट्ठकथाय (म. नि. अट्ठ. १.१४८) सब्बाकारतो वुत्ता. सा तत्थ वुत्तनयेनेव गहेतब्बा.

चतूहि च वेसारज्जेहीति एत्थ सारज्जपटिपक्खं वेसारज्जं, चतूसु ठानेसु वेसारज्जभावं पच्चवेक्खन्तस्स उप्पन्नसोमनस्समयञाणस्सेतं नामं. कतमेसु चतूसु? ‘‘सम्मासम्बुद्धस्स ते पटिजानतो इमे धम्मा अनभिसम्बुद्धा’’तिआदीसु चोदनावत्थूसु. तत्रायं पाळि –

‘‘चत्तारिमानि, भिक्खवे, तथागतस्स वेसारज्जानि…पे…. कतमानि चत्तारि? ‘सम्मासम्बुद्धस्स ते पटिजानतो इमे धम्मा अनभिसम्बुद्धा’ति तत्र वत मं समणो वा ब्राह्मणो वा देवो वा मारो वा ब्रह्मा वा कोचि वा लोकस्मिं सह धम्मेन पटिचोदेस्सतीति निमित्तमेतं, भिक्खवे, न समनुपस्सामि. एतमहं, भिक्खवे, निमित्तं असमनुपस्सन्तो खेमप्पत्तो अभयप्पत्तो वेसारज्जप्पत्तो विहरामि. ‘खीणासवस्स ते पटिजानतो इमे आसवा अपरिक्खीणा’ति तत्र वत मं…पे… ‘ये खो पन ते अन्तरायिका धम्मा वुत्ता, ते पटिसेवतो नालं अन्तरायाया’ति तत्र वत मं…पे… ‘यस्स खो पन ते अत्थाय धम्मो देसितो, सो न निय्याति तक्करस्स सम्मा दुक्खक्खयाया’ति तत्र वत मं समणो वा ब्राह्मणो वा…पे… वेसारज्जप्पत्तो विहरामी’’ति (अ. नि. ४.८).

आसभं ठानन्ति सेट्ठट्ठानं उत्तमट्ठानं. आसभा वा पुब्बबुद्धा, तेसं ठानन्ति अत्थो. अपिच गवसतजेट्ठको उसभो, गवसहस्सजेट्ठको वसभो, वजसतजेट्ठको वा उसभो, वजसहस्सजेट्ठको वसभो, सब्बगवसेट्ठो सब्बपरिस्सयसहो सेतो पासादिको महाभारवहो असनिसतसद्देहिपि असम्पकम्पियो निसभो, सो इध उसभोति अधिप्पेतो. इदम्पि हि तस्स परियायवचनं. उसभस्स इदन्ति आसभं. ठानन्ति चतूहि पादेहि पथविं उप्पीळेत्वा अवट्ठानं (म. नि. १.१५०). इदं पन आसभं वियाति आसभं. यथेव हि निसभसङ्खातो उसभो उसभबलेन समन्नागतो चतूहि पादेहि पथविं उप्पीळेत्वा अचलट्ठानेन तिट्ठति, एवं तथागतोपि दसहि तथागतबलेहि समन्नागतो चतूहि वेसारज्जपादेहि अट्ठपरिसपथविं उप्पीळेत्वा सदेवके लोके केनचि पच्चत्थिकेन पच्चामित्तेन अकम्पियो अचलट्ठानेन तिट्ठति. एवं तिट्ठमानो च तं आसभं ठानं पटिजानाति उपगच्छति न पच्चक्खाति, अत्तनि आरोपेति. तेन वुत्तं ‘‘आसभं ठानं पटिजानाती’’ति.

परिसासूति ‘‘अट्ठ खो इमा, सारिपुत्त, परिसा. कतमा अट्ठ? खत्तियपरिसा ब्राह्मणपरिसा गहपतिपरिसा समणपरिसा चातुमहाराजिकपरिसा तावतिंसपरिसा मारपरिसा ब्रह्मपरिसा’’ति, इमासु अट्ठसु परिसासु. सीहनादं नदतीति सेट्ठनादं अभीतनादं नदति, सीहनादसदिसं वा नादं नदति. अयमत्थो सीहनादसुत्तेन दीपेतब्बो. यथा वा सीहो सहनतो चेव हननतो च सीहोति वुच्चति, एवं तथागतो लोकधम्मानं सहनतो परप्पवादानञ्च हननतो सीहोति वुच्चति. एवं वुत्तस्स सीहस्स नादं सीहनादं. तत्थ यथा सीहो सीहबलेन समन्नागतो सब्बत्थ विसारदो विगतलोमहंसो सीहनादं नदति, एवं तथागतसीहोपि तथागतबलेहि समन्नागतो अट्ठसु परिसासु विसारदो विगतलोमहंसो, ‘‘इति रूप’’न्तिआदिना नयेन नानाविधदेसनाविलाससम्पन्नं सीहनादं नदति. तेन वुत्तं ‘‘परिसासु सीहनादं नदती’’ति.

ब्रह्मचक्कं पवत्तेतीति एत्थ ब्रह्मन्ति सेट्ठं उत्तमं, विसुद्धस्स धम्मचक्कस्सेतं अधिवचनं. तं पन धम्मचक्कं दुविधं होति पटिवेधञाणञ्च देसनाञाणञ्च. तत्थ पञ्ञापभावितं अत्तनो अरियफलावहं पटिवेधञाणं, करुणापभावितं सावकानं अरियफलावहं देसनाञाणं. तत्थ पटिवेधञाणं उप्पज्जमानं उप्पन्नन्ति दुविधं. तञ्हि अभिनिक्खमनतो पट्ठाय याव अरहत्तमग्गा उप्पज्जमानं, फलक्खणे उप्पन्नं नाम. तुसितभवनतो वा याव महाबोधिपल्लङ्के अरहत्तमग्गा उप्पज्जमानं, फलक्खणे उप्पन्नं नाम. दीपङ्करतो वा पट्ठाय याव अरहत्तमग्गा उप्पज्जमानं, फलक्खणे उप्पन्नं नाम. देसनाञाणम्पि पवत्तमानं पवत्तन्ति दुविधं. तञ्हि याव अञ्ञासिकोण्डञ्ञस्स सोतापत्तिमग्गा पवत्तमानं, फलक्खणे पवत्तं नाम. तेसु पटिवेधञाणं लोकुत्तरं, देसनाञाणं लोकियं. उभयम्पि पनेतं अञ्ञेहि असाधारणं बुद्धानंयेव ओरसञाणं.

इदानि यं इमिना ञाणेन समन्नागतो सीहनादं नदति, तं दस्सेतुं इति रूपन्तिआदिमाह. तत्थ इति रूपन्ति इदं रूपं एत्तकं रूपं, इतो उद्धं रूपं नत्थीति रुप्पनसभावञ्चेव भूतुपादायभेदञ्च आदिं कत्वा लक्खणरसपच्चुपट्ठानपदट्ठानवसेन अनवसेसरूपपरिग्गहो वुत्तो. इति रूपस्स समुदयोति इमिना एवं परिग्गहितस्स रूपस्स समुदयो वुत्तो. तत्थ इतीति एवं समुदयो होतीति अत्थो. तस्स वित्थारो ‘‘अविज्जासमुदया रूपसमुदयो तण्हासमुदया, कम्मसमुदया आहारसमुदया रूपसमुदयोति निब्बत्तिलक्खणं पस्सन्तोपि रूपक्खन्धस्स उदयं पस्सती’’ति (पटि. म. १.५०) एवं वेदितब्बो. अत्थङ्गमेपि ‘‘अविज्जानिरोधा रूपनिरोधो…पे… विपरिणामलक्खणं पस्सन्तोपि रूपक्खन्धस्स निरोधं पस्सती’’ति अयं वित्थारो.

इति वेदनातिआदीसुपि अयं वेदना एत्तका वेदना, इतो उद्धं वेदना नत्थि, अयं सञ्ञा, इमे सङ्खारा, इदं विञ्ञाणं एत्तकं विञ्ञाणं, इतो उद्धं विञ्ञाणं नत्थीति वेदयितसञ्जाननअभिसङ्खरणविजाननसभावञ्चेव सुखादिरूपसञ्ञादिफस्सादिचक्खुविञ्ञाणादिभेदञ्च आदिं कत्वा लक्खणरसपच्चुपट्ठानपदट्ठानवसेन अनवसेसवेदनासञ्ञासङ्खारविञ्ञाणपरिग्गहो वुत्तो. इति वेदनाय समुदयोतिआदीहि पन एवं परिग्गहितानं वेदनासञ्ञासङ्खारविञ्ञाणानं समुदयो वुत्तो. तत्रापि इतीति एवं समुदयो होतीति अत्थो. तेसम्पि वित्थारो ‘‘अविज्जासमुदया वेदनासमुदयो’’ति (पटि. म. १.५०) रूपे वुत्तनयेनेव वेदितब्बो. अयं पन विसेसो – तीसु खन्धेसु ‘‘आहारसमुदया’’ति अवत्वा ‘‘फस्ससमुदया’’ति वत्तब्बं, विञ्ञाणक्खन्धे ‘‘नामरूपसमुदया’’ति. अत्थङ्गमपदम्पि तेसंयेव वसेन योजेतब्बं. अयमेत्थ सङ्खेपो. वित्थारतो पन उदयब्बयविनिच्छयो सब्बाकारपरिपूरो विसुद्धिमग्गे वुत्तो.

इमस्मिं सति इदं होतीति अयम्पि अपरो सीहनादो. तस्सत्थो – इमस्मिं अविज्जादिके पच्चये सति इदं सङ्खारादिकं फलं होति. इमस्सुप्पादा इदं उप्पज्जतीति इमस्स अविज्जादिकस्स पच्चयस्स उप्पादा इदं सङ्खारादिकं फलं उप्पज्जति. इमस्मिं असति इदं न होतीति इमस्मिं अविज्जादिके पच्चये असति इदं सङ्खारादिकं फलं न होति. इमस्स निरोधा इदं निरुज्झतीति इमस्स अविज्जादिकस्स पच्चयस्स निरोधा इदं सङ्खारादिकं फलं निरुज्झति. इदानि यथा तं होति चेव निरुज्झति च, तं वित्थारतो दस्सेतुं यदिदं अविज्जापच्चया सङ्खारातिआदिमाह.

एवं स्वाक्खातोति एवं पञ्चक्खन्धविभजनादिवसेन सुट्ठु अक्खातो कथितो. धम्मोति पञ्चक्खन्धपच्चयाकारधम्मो. उत्तानोति अनिकुज्जितो. विवटोति विवरित्वा ठपितो. पकासितोति दीपितो जोतितो. छिन्नपिलोतिकोति पिलोतिका वुच्चति छिन्नं भिन्नं तत्थ तत्थ सिब्बितगण्ठितं जिण्णवत्थं, तं यस्स नत्थीति अट्ठहत्थं नवहत्थं वा अहतसाटकं निवत्थो, सो छिन्नपिलोतिको नाम. अयम्पि धम्मो तादिसो. न हेत्थ कोहञ्ञादिवसेन छिन्नभिन्नसिब्बितगण्ठितभावो अत्थि. अपिच खुद्दकसाटकोपि पिलोतिकाति वुच्चति, सा यस्स नत्थि, अट्ठनवहत्थो महापटो अत्थि, सोपि छिन्नपिलोतिको, अपगतपिलोतिकोति अत्थो. तादिसो अयं धम्मो. यथा हि चतुहत्थं साटकं गहेत्वा परिग्गहणं करोन्तो पुरिसो इतो चितो च अञ्छन्तो किलमति, एवं बाहिरकसमये पब्बजिता अत्तनो परित्तकं धम्मं ‘‘एवं सति एवं भविस्सती’’ति कप्पेत्वा कप्पेत्वा वड्ढेन्ता किलमन्ति. यथा पन अट्ठहत्थनवहत्थेन परिग्गहणं करोन्तो यथारुचि पारुपति न किलमति, नत्थि तत्थ अञ्छित्वा वड्ढनकिच्चं; एवं इमस्मिम्पि धम्मे कप्पेत्वा कप्पेत्वा विभजनकिच्चं नत्थि, तेहि तेहि कारणेहि मयाव अयं धम्मो सुविभत्तो सुवित्थारितोति इदम्पि सन्धाय ‘‘छिन्नपिलोतिको’’ति आह. अपिच कचवरोपि पिलोतिकाति वुच्चति, इमस्मिञ्च सासने समणकचवरं नाम पतिट्ठातुं न लभति. तेनेवाह –

‘‘कारण्डवं निद्धमथ, कसम्बुं अपकस्सथ;

ततो पलापे वाहेथ, अस्समणे समणमानिने.

‘‘निद्धमित्वान पापिच्छे, पापआचारगोचरे;

सुद्धा सुद्धेहि संवासं, कप्पयव्हो पतिस्सता;

ततो समग्गा निपका, दुक्खस्सन्तं करिस्सथा’’ति. (अ. नि. ८.१०);

इति समणकचवरस्स छिन्नत्तापि अयं धम्मो छिन्नपिलोतिको नाम होति.

अलमेवाति युत्तमेव. सद्धापब्बजितेनाति सद्धाय पब्बजितेन. कुलपुत्तेनाति द्वे कुलपुत्ता आचारकुलपुत्तो जातिकुलपुत्तो च. तत्थ यो यतो कुतोचि कुला पब्बजित्वा सीलादयो पञ्च धम्मक्खन्धे पूरेति, अयं आचारकुलपुत्तो नाम. यो पन यसकुलपुत्तादयो विय जातिसम्पन्नकुला पब्बजितो, अयं जातिकुलपुत्तो नाम. तेसु इध आचारकुलपुत्तो अधिप्पेतो. सचे पन जातिकुलपुत्तो आचारवा होति, अयं उत्तमोयेव. एवरूपेन कुलपुत्तेन. वीरियं आरभितुन्ति चतुरङ्गसमन्नागतं वीरियं कातुं. इदानिस्स चतुरङ्गं दस्सेन्तो कामं तचो चातिआदिमाह. एत्थ हि तचो एकं अङ्गं, न्हारु एकं, अट्ठि एकं, मंसलोहितं एकन्ति. इदञ्च पन चतुरङ्गसमन्नागतं वीरियं अधिट्ठहन्तेन नवसु ठानेसु समाधातब्बं पुरेभत्ते पच्छाभत्ते पुरिमयामे मज्झिमयामे पच्छिमयामे गमने ठाने निसज्जाय सयनेति.

दुक्खं, भिक्खवे, कुसीतो विहरतीति इमस्मिं सासने यो कुसीतो पुग्गलो, सो दुक्खं विहरति. बाहिरसमये पन यो कुसीतो, सो सुखं विहरति. वोकिण्णोति मिस्सीभूतो. सदत्थन्ति सोभनं वा अत्थं सकं वा अत्थं, उभयेनापि अरहत्तमेव अधिप्पेतं. परिहापेतीति हापेति न पापुणाति. कुसीतपुग्गलस्स हि छ द्वारानि अगुत्तानि होन्ति, तीणि कम्मानि अपरिसुद्धानि, आजीवट्ठमकं सीलं अपरियोदातं, भिन्नाजीवो कुलूपको होति. सो सब्रह्मचारीनं अक्खिम्हि पतितरजं विय उपघातकरो हुत्वा दुक्खं विहरति, पीठमद्दनो चेव होति लण्डपूरको च, सत्थु अज्झासयं गहेतुं न सक्कोति, दुल्लभं खणं विराधेति, तेन भुत्तो रट्ठपिण्डोपि न महप्फलो होति.

आरद्धवीरियो च खो, भिक्खवेति आरद्धवीरियो पुग्गलो इमस्मिंयेव सासने सुखं विहरति. बाहिरसमये पन यो आरद्धवीरियो, सो दुक्खं विहरति. पविवित्तोति विवित्तो वियुत्तो हुत्वा. सदत्थं परिपूरेतीति अरहत्तं पापुणाति. आरद्धवीरियस्स हि छ द्वारानि सुगुत्तानि होन्ति, तीणि कम्मानि परिसुद्धानि, आजीवट्ठमकं सीलं परियोदातं सब्रह्मचारीनं अक्खिम्हि सुसीतलञ्जनं विय धातुगतचन्दनं विय च मनापो हुत्वा सुखं विहरति, सत्थु अज्झासयं गहेतुं सक्कोति. सत्था हि –

‘‘चिरं जीव महावीर, कप्पं तिट्ठ महामुनी’’ति –

एवं गोतमिया वन्दितो, ‘‘न खो, गोतमि, तथागता एवं वन्दितब्बा’’ति पटिक्खिपित्वा ताय याचितो वन्दितब्बाकारं आचिक्खन्तो एवमाह –

‘‘आरद्धवीरिये पहितत्ते, निच्चं दळ्हपरक्कमे;

समग्गे सावके पस्स, एसा बुद्धान वन्दना’’ति. (अप. थेरी २.२.१७१);

एवं आरद्धवीरियो सत्थु अज्झासयं गहेतुं सक्कोति, दुल्लभं खणं न विराधेति. तस्स हि बुद्धुप्पादो धम्मदेसना सङ्घसुप्पटिपत्ति सफला होति सउद्रया, रट्ठपिण्डोपि तेन भुत्तो महप्फलो होति.

हीनेन अग्गस्साति हीनाय सद्धाय हीनेन वीरियेन हीनाय सतिया हीनेन समाधिना हीनाय पञ्ञाय अग्गसङ्खातस्स अरहत्तस्स पत्ति नाम न होति. अग्गेन च खोति अग्गेहि सद्धादीहि अग्गस्स अरहत्तस्स पत्ति होति. मण्डपेय्यन्ति पसन्नट्ठेन मण्डं, पातब्बट्ठेन पेय्यं. यञ्हि पिवित्वा अन्तरवीथियं पतितो विसञ्ञी अत्तनो साटकादीनम्पि अस्सामिको होति, तं पसन्नम्पि न पातब्बं, मय्हं पन सासनं एवं पसन्नञ्च पातब्बञ्चाति दस्सेन्तो ‘‘मण्डपेय्य’’न्ति आह.

तत्थ तिविधो मण्डो – देसनामण्डो, पटिग्गहमण्डो, ब्रह्मचरियमण्डोति. कतमो देसनामण्डो? चतुन्नं अरियसच्चानं आचिक्खना देसना पञ्ञापना पट्ठपना विवरणा विभजना उत्तानीकम्मं, चतुन्नं सतिपट्ठानानं…पे… अरियस्स अट्ठङ्गिकस्स मग्गस्स आचिक्खना…पे… उत्तानीकम्मं, अयं देसनामण्डो. कतमो पटिग्गहमण्डो? भिक्खू भिक्खुनियो उपासका उपासिकायो देवा मनुस्सा ये वा पनञ्ञेपि केचि विञ्ञातारो, अयं पटिग्गहमण्डो. कतमो ब्रह्मचरियमण्डो? अयमेव अरियो अट्ठङ्गिको मग्गो, सेय्यथिदं – सम्मादिट्ठि…पे… सम्मासमाधि, अयं ब्रह्मचरियमण्डो. अपिच अधिमोक्खमण्डो सद्धिन्द्रियं, अस्सद्धियं कसटो, अस्सद्धियं कसटं छड्डेत्वा सद्धिन्द्रियस्स अधिमोक्खमण्डं पिवतीति मण्डपेय्यन्तिआदिनापि (पटि. म. १.२३८) नयेनेत्थ अत्थो वेदितब्बो. सत्था सम्मुखीभूतोति इदमेत्थ कारणवचनं. यस्मा सत्था सम्मुखीभूतो, तस्मा वीरियसम्पयोगं कत्वा पिवथ एतं मण्डं. बाहिरकञ्हि भेसज्जमण्डम्पि वेज्जस्स असम्मुखा पिवन्तानं पमाणं वा उग्गमनं वा निग्गमनं वा न जानामाति आसङ्का होति. वेज्जसम्मुखा पन ‘‘वेज्जो जानिस्सती’’ति निरासङ्का पिवन्ति. एवमेव अम्हाकं धम्मस्सामि सत्था सम्मुखीभूतोति वीरियं कत्वा पिवथाति मण्डपाने नेसं नियोजेन्तो तस्मातिह, भिक्खवेतिआदिमाह. तत्थ सफलाति सानिसंसा. सउद्रयाति सवड्ढि. इदानि नियोजनानुरूपं सिक्खितब्बतं निद्दिसन्तो अत्तत्थं वा हि, भिक्खवेतिआदिमाह. तत्थ अत्तत्थन्ति अत्तनो अत्थभूतं अरहत्तं. अप्पमादेन सम्पादेतुन्ति अप्पमादेन सब्बकिच्चानि कातुं. परत्थन्ति पच्चयदायकानं महप्फलानिसंसं. सेसं सब्बत्थ उत्तानमेवाति. दुतियं.

३. उपनिससुत्तवण्णना

२३. ततिये ‘‘जानतो अह’’न्तिआदीसु जानतोति जानन्तस्स. पस्सतोति पस्सन्तस्स. द्वेपि पदानि एकत्थानि, ब्यञ्जनमेव नानं. एवं सन्तेपि ‘‘जानतो’’ति ञाणलक्खणं उपादाय पुग्गलं निद्दिसति. जाननलक्खणञ्हि ञाणं. ‘‘पस्सतो’’ति ञाणप्पभावं उपादाय. पस्सनप्पभावञ्हि ञाणं, ञाणसमङ्गीपुग्गलो चक्खुमा विय चक्खुना रूपानि, ञाणेन विवटे धम्मे पस्सति. आसवानं खयन्ति एत्थ आसवानं पहानं असमुप्पादो खीणाकारो नत्थिभावोति अयम्पि आसवक्खयोति वुच्चति, भङ्गोपि मग्गफलनिब्बानानिपि. ‘‘आसवानं खया अनासवं चेतोविमुत्ति’’न्तिआदीसु (म. नि. १.४३८; विभ. ८३१) हि खीणाकारो आसवक्खयोति वुच्चति. ‘‘यो आसवानं खयो वयो भेदो परिभेदो अनिच्चता अन्तरधान’’न्ति (विभ. ३५४) एत्थ भङ्गो.

‘‘सेक्खस्स सिक्खमानस्स, उजुमग्गानुसारिनो;

खयस्मिं पठमं ञाणं, ततो अञ्ञा अनन्तरा’’ति. (इतिवु. ६२); –

एत्थ मग्गो. सो हि आसवे खेपेन्तो वूपसमेन्तो उप्पज्जति, तस्मा आसवानं खयोति वुत्तो. ‘‘आसवानं खया समणो होती’’ति एत्थ फलं. तञ्हि आसवानं खीणन्ते उप्पज्जति, तस्मा आसवानं खयोति वुत्तं.

‘‘आसवा तस्स वड्ढन्ति, आरा सो आसवक्खया’’ति; (ध. प. २५३) –

एत्थ निब्बानं. तञ्हि आगम्म आसवा खीयन्ति, तस्मा आसवानं खयोति वुत्तं. इध पन मग्गफलानि अधिप्पेतानि. नो अजानतो नो अपस्सतोति यो पन न जानाति न पस्सति, तस्स नो वदामीति अत्थो. एतेन ये अजानतो अपस्सतोपि संसारादीहियेव सुद्धिं वदन्ति, ते पटिक्खित्ता होन्ति. पुरिमेन पदद्वयेन उपायो वुत्तो, इमिना अनुपायं पटिसेधेति.

इदानि यं जानतो आसवानं खयो होति, तं दस्सेतुकामो किञ्च, भिक्खवे, जानतोति पुच्छं आरभि. तत्थ जानना बहुविधा. दब्बजातिको एव हि कोचि भिक्खु छत्तं कातुं जानाति, कोचि चीवरादीनं अञ्ञतरं, तस्स ईदिसानि कम्मानि वत्तसीसे ठत्वा करोन्तस्स सा जानना सग्गमग्गफलानं पदट्ठानं न होतीति न वत्तब्बं. यो पन सासने पब्बजित्वा वेज्जकम्मादीनि कातुं जानाति, तस्सेवं जानतो आसवा वड्ढन्तियेव. तस्मा यं जानतो पस्सतो च आसवानं खयो होति, तदेव दस्सेन्तो इति रूपन्तिआदिमाह. एवं खो, भिक्खवे, जानतोति एवं पञ्चन्नं खन्धानं उदयब्बयं जानन्तस्स. आसवानं खयो होतीति आसवानं खयन्ते जातत्ता ‘‘आसवानं खयो’’ति लद्धनामं अरहत्तं होति.

एवं अरहत्तनिकूटेन देसनं निट्ठपेत्वा इदानि खीणासवस्स आगमनीयं पुब्बभागपटिपदं दस्सेतुं यम्पिस्स तं, भिक्खवेतिआदिमाह. तत्थ खयस्मिं खयेञाणन्ति आसवक्खयसङ्खाते अरहत्तफले पटिलद्धे सति पच्चवेक्खणञाणं. तञ्हि अरहत्तफलसङ्खाते खयस्मिं पठमवारं उप्पन्ने पच्छा उप्पन्नत्ता खयेञाणन्ति वुच्चति. सउपनिसन्ति सकारणं सप्पच्चयं. विमुत्तीति अरहत्तफलविमुत्ति. सा हिस्स उपनिस्सयपच्चयेन पच्चयो होति. एवं इतो परेसुपि लब्भमानवसेन पच्चयभावो वेदितब्बो.

विरागोति मग्गो. सो हि किलेसे विराजेन्तो खेपेन्तो उप्पन्नो, तस्मा विरागोति वुच्चति. निब्बिदाति निब्बिदाञाणं. एतेन बलवविपस्सनं दस्सेति. बलवविपस्सनाति भयतूपट्ठाने ञाणं आदीनवानुपस्सने ञाणं मुञ्चितुकम्यताञाणं सङ्खारुपेक्खाञाणन्ति चतुन्नं ञाणानं अधिवचनं. यथाभूतञाणदस्सनन्ति यथासभावजाननसङ्खातं दस्सनं. एतेन तरुणविपस्सनं दस्सेति. तरुणविपस्सना हि बलवविपस्सनाय पच्चयो होति. तरुणविपस्सनाति सङ्खारपरिच्छेदे ञाणं कङ्खावितरणे ञाणं सम्मसने ञाणं मग्गामग्गे ञाणन्ति चतुन्नं ञाणानं अधिवचनं. समाधीति पादकज्झानसमाधि. सो हि तरुणविपस्सनाय पच्चयो होति. सुखन्ति अप्पनाय पुब्बभागसुखं. तञ्हि पादकज्झानस्स पच्चयो होति. पस्सद्धीति दरथपटिप्पस्सद्धि. सा हि अप्पनापुब्बभागस्स सुखस्स पच्चयो होति. पीतीति बलवपीति. सा हि दरथपटिप्पस्सद्धिया पच्चयो होति. पामोज्जन्ति दुब्बलपीति. सा हि बलवपीतिया पच्चयो होति. सद्धाति अपरापरं उप्पज्जनसद्धा. सा हि दुब्बलपीतिया पच्चयो होति. दुक्खन्ति वट्टदुक्खं. तञ्हि अपरापरसद्धाय पच्चयो होति. जातीति सविकारा खन्धजाति. सा हि वट्टदुक्खस्स पच्चयो होति. भवोति कम्मभवो. (सो हि सविकाराय जातिया पच्चयो होति.) एतेनुपायेन सेसपदानिपि वेदितब्बानि.

थुल्लफुसितकेति महाफुसितके. पब्बतकन्दरपदरसाखाति एत्थ कन्दरं नाम ‘क’न्तिलद्धनामेन उदकेन दारितो उदकभिन्नो पब्बतपदेसो, यो ‘‘नितम्बो’’तिपि ‘‘नदीकुञ्छो’’तिपि वुच्चति. पदरं नाम अट्ठमासे देवे अवस्सन्ते फलितो भूमिप्पदेसो. साखाति कुसुम्भगामिनियो खुद्दकमातिकायो. कुसोब्भाति खुद्दकआवाटा. महासोब्भाति महाआवाटा. कुन्नदियोति खुद्दकनदियो. महानदियोति गङ्गायमुनादिका महासरिता. एवमेव खो, भिक्खवे, अविज्जूपनिसा सङ्खारातिआदीसु अविज्जा पब्बतोति दट्ठब्बा. अभिसङ्खारा मेघोति, विञ्ञाणादिवट्टं कन्दरादयोति, विमुत्ति सागरोति.

यथा पब्बतमत्थके देवो वस्सित्वा पब्बतकन्दरादीनि पूरेन्तो अनुपुब्बेन महासमुद्दं सागरं पूरेति, एवं अविज्जापब्बतमत्थके ताव अभिसङ्खारमेघस्स वस्सनं वेदितब्बं. अस्सुतवा हि बालपुथुज्जनो अविज्जाय अञ्ञाणी हुत्वा तण्हाय अभिलासं कत्वा कुसलाकुसलकम्मं आयूहति, तं कुसलाकुसलकम्मं पटिसन्धिविञ्ञाणस्स पच्चयो होति, पटिसन्धिविञ्ञाणादीनि नामरूपादीनं. इति पब्बतमत्थके वुट्ठदेवस्स कन्दरादयो पूरेत्वा महासमुद्दं आहच्च ठितकालो विय अविज्जापब्बतमत्थके वुट्ठस्स अभिसङ्खारमेघस्स परम्परपच्चयताय अनुपुब्बेन विञ्ञाणादिवट्टं पूरेत्वा ठितकालो. बुद्धवचनं पन पाळियं अगहितम्पि ‘‘इध तथागतो लोके उप्पज्जति, अगारस्मा अनगारियं पब्बजती’’ति इमाय पाळिया वसेन गहितमेवाति वेदितब्बं. या हि तस्स कुलगेहे निब्बत्ति, सा कम्मभवपच्चया सविकारा जाति नाम. सो बुद्धानं वा बुद्धसावकानं वा सम्मुखीभावं आगम्म वट्टदोसदीपकं लक्खणाहटं धम्मकथं सुत्वा वट्टवसेन पीळितो होति, एवमस्स सविकारा खन्धजाति वट्टदुक्खस्स पच्चयो होति. सो वट्टदुक्खेन पीळितो अपरापरं सद्धं जनेत्वा अगारस्मा अनगारियं पब्बजति, एवमस्स वट्टदुक्खं अपरापरसद्धाय पच्चयो होति. सो पब्बज्जामत्तेनेव असन्तुट्ठो ऊनपञ्चवस्सकाले निस्सयं गहेत्वा वत्तपटिपत्तिं पूरेन्तो द्वेमातिका पगुणं कत्वा कम्माकम्मं उग्गहेत्वा याव अरहत्ता निज्जटं कत्वा कम्मट्ठानं गहेत्वा अरञ्ञे वसन्तो पथवीकसिणादीसु कम्मं आरभति, तस्स कम्मट्ठानं निस्साय दुब्बलपीति उप्पज्जति. तदस्स सद्धूपनिसं पामोज्जं, तं बलवपीतिया पच्चयो होति. बलवपीति दरथपटिप्पस्सद्धिया, सा अप्पनापुब्बभागसुखस्स, तं सुखं पादकज्झानसमाधिस्स. सो समाधिना चित्तकल्लतं जनेत्वा तरुणविपस्सनाय कम्मं करोति. इच्चस्स पादकज्झानसमाधि तरुणविपस्सनाय पच्चयो होति, तरुणविपस्सना बलवविपस्सनाय, बलवविपस्सना मग्गस्स, मग्गो फलविमुत्तिया, फलविमुत्ति पच्चवेक्खणञाणस्साति. एवं देवस्स अनुपुब्बेन सागरं पूरेत्वा ठितकालो विय खीणासवस्स विमुत्तिसागरं पूरेत्वा ठितकालो वेदितब्बोति. ततियं.

४. अञ्ञतित्थियसुत्तवण्णना

२४. चतुत्थे पाविसीति पविट्ठो. सो च न ताव पविट्ठो, ‘‘पविसिस्सामी’’ति निक्खन्तत्ता पन एवं वुत्तो. यथा किं? यथा ‘‘गामं गमिस्सामी’’ति निक्खन्तपुरिसो तं गामं अप्पत्तोपि ‘‘कहं इत्थन्नामो’’ति वुत्ते ‘‘गामं गतो’’ति वुच्चति, एवं. अतिप्पगोति तदा किर थेरस्स अतिप्पगोयेव निक्खन्तदिवसो अहोसि, अतिप्पगोयेव निक्खन्तभिक्खू बोधियङ्गणे चेतियङ्गणे निवासनपारुपनट्ठानेति इमेसु ठानेसु याव भिक्खाचारवेला होति, ताव पपञ्चं करोन्ति. थेरस्स पन ‘‘याव भिक्खाचारवेला होति, ताव परिब्बाजकेहि सद्धिं एकद्वेकथावारे करिस्सामी’’ति चिन्तयतो यंनूनाहन्ति एतदहोसि. परिब्बाजकानं आरामोति सो किर आरामो दक्खिणद्वारस्स च वेळुवनस्स च अन्तरा अहोसि. इधाति इमेसु चतूसु वादेसु. किंवादी किमक्खायीति किं वदति किं आचिक्खति, किं एत्थ समणस्स गोतमस्स दस्सनन्ति पुच्छन्ति. धम्मस्स चानुधम्मं ब्याकरेय्यामाति, भोता गोतमेन यं वुत्तं कारणं, तस्स अनुकारणं कथेय्याम. सहधम्मिको वादानुपातोति परेहि वुत्तकारणेन सकारणो हुत्वा समणस्स गोतमस्स वादानुपातो वादप्पवत्ति विञ्ञूहि गरहितब्बं कारणं कोचि अप्पमत्तकोपि कथं नागच्छेय्य? इदं वुत्तं होति – कथं सब्बाकारेनपि समणस्स गोतमस्स वादे गारय्हं कारणं न भवेय्याति?

इति वदन्ति फस्सपच्चया दुक्खन्ति एवं वदन्तोति अत्थो. तत्राति तेसु चतूसु वादेसु. ते वत अञ्ञत्र फस्साति इदं ‘‘तदपि फस्सपच्चया’’ति पटिञ्ञाय साधकवचनं. यस्मा हि न विना फस्सेन दुक्खपटिसंवेदना अत्थि, तस्मा जानितब्बमेतं यथा ‘‘तदपि फस्सपच्चया’’ति अयमेत्थ अधिप्पायो.

साधु, साधु, आनन्दाति अयं साधुकारो सारिपुत्तत्थेरस्स दिन्नो, आनन्दत्थेरेन पन सद्धिं भगवा आमन्तेसि. एकमिदाहन्ति एत्थ इधाति निपातमत्तं, एकं समयन्ति अत्थो. इदं वचनं ‘‘न केवलं सारिपुत्तोव राजगहं पविट्ठो, अहम्पि पाविसिं. न केवलञ्च तस्सेवायं वितक्को उप्पन्नो, मय्हम्पि उप्पज्जि. न केवलञ्च तस्सेव सा तित्थियेहि सद्धिं कथा जाता, मय्हम्पि जातपुब्बा’’ति दस्सनत्थं वुत्तं.

अच्छरियं अब्भुतन्ति उभयम्पेतं विम्हयदीपनमेव. वचनत्थो पनेत्थ अच्छरं पहरितुं युत्तन्ति अच्छरियं. अभूतपुब्बं भूतन्ति अब्भुतं. एकेन पदेनाति ‘‘फस्सपच्चया दुक्ख’’न्ति इमिना एकेन पदेन. एतेन हि सब्बवादानं पटिक्खेपत्थो वुत्तो. एसेवत्थोति एसोयेव फस्सपच्चया दुक्खन्ति पटिच्चसमुप्पादत्थो. तञ्ञेवेत्थ पटिभातूति तञ्ञेवेत्थ उपट्ठातु. इदानि थेरो जरामरणादिकाय पटिच्चसमुप्पादकथाय तं अत्थगम्भीरञ्चेव गम्भीरावभासञ्च करोन्तो सचे मं, भन्तेतिआदिं वत्वा यंमूलका कथा उप्पन्ना, तदेव पदं गहेत्वा विवट्टं दस्सेन्तो छन्नंत्वेवातिआदिमाह. सेसं उत्तानमेवाति. चतुत्थं.

५. भूमिजसुत्तवण्णना

२५-२६. पञ्चमे भूमिजोति तस्स थेरस्स नामं. सेसमिधापि पुरिमसुत्ते वुत्तनयेनेव वेदितब्बं. अयं पन विसेसो – यस्मा इदं सुखदुक्खं न केवलं फस्सपच्चया उप्पज्जति, कायेनपि करियमानं करीयति, वाचायपि मनसापि, अत्तनापि करियमानं करीयति, परेनपि करियमानं करीयति, सम्पजानेनपि करियमानं करीयति, असम्पजानेनपि, तस्मा तस्स अपरम्पि पच्चयविसेसं दस्सेतुं काये वा हानन्द, सतीतिआदिमाह. कायसञ्चेतनाहेतूति कायद्वारे उप्पन्नचेतनाहेतु. वचीसञ्चेतनामनोसञ्चेतनासुपि एसेव नयो. एत्थ च कायद्वारे कामावचरकुसलाकुसलवसेन वीसति चेतना लब्भन्ति, तथा वचीद्वारे. मनोद्वारे नवहि रूपारूपचेतनाहि सद्धिं एकूनतिंसाति तीसु द्वारेसु एकूनसत्तति चेतना होन्ति, तप्पच्चयं विपाकसुखदुक्खं दस्सितं. अविज्जापच्चया चाति इदं तापि चेतना अविज्जापच्चया होन्तीति दस्सनत्थं वुत्तं. यस्मा पन तं यथावुत्तचेतनाभेदं कायसङ्खारञ्चेव वचीसङ्खारञ्च मनोसङ्खारञ्च परेहि अनुस्साहितो सामं असङ्खारिकचित्तेन करोति, परेहि कारियमानो ससङ्खारिकचित्तेनापि करोति, ‘‘इदं नाम कम्मं करोति, तस्स एवरूपो नाम विपाको भविस्सती’’ति, एवं कम्मञ्च विपाकञ्च जानन्तोपि करोति, मातापितूसु चेतियवन्दनादीनि करोन्तेसु अनुकरोन्ता दारका विय केवलं कम्ममेव जानन्तो ‘‘इमस्स पन कम्मस्स अयं विपाको’’ति विपाकं अजानन्तोपि करोति, तस्मा तं दस्सेतुं सामं वा तं, आनन्द, कायसङ्खारं अभिसङ्खरोतीतिआदि वुत्तं.

इमेसु, आनन्द, धम्मेसूति ये इमे ‘‘सामं वा तं, आनन्द, कायसङ्खार’’न्तिआदीसु चतूसु ठानेसु वुत्ता छसत्तति द्वेसता चेतनाधम्मा, इमेसु धम्मेसु अविज्जा उपनिस्सयकोटिया अनुपतिता. सब्बेपि हि ते ‘‘अविज्जापच्चया सङ्खारा’’ति एत्थेव सङ्गहं गच्छन्ति. इदानि विवट्टं दस्सेन्तो अविज्जाय त्वेवातिआदिमाह. सो कायो न होतीति यस्मिं काये सति कायसञ्चेतनापच्चयं अज्झत्तं सुखदुक्खं उप्पज्जति, सो कायो न होति. वाचामनेसुपि एसेव नयो. अपिच कायोति चेतनाकायो, वाचापि चेतनावाचा, मनोपि कम्ममनोयेव. द्वारकायो वा कायो. वाचामनेसुपि एसेव नयो. खीणासवो चेतियं वन्दति, धम्मं भणति, कम्मट्ठानं मनसि करोति, कथमस्स कायादयो न होन्तीति? अविपाकत्ता. खीणासवेन हि कतं कम्मं नेव कुसलं होति नाकुसलं. अविपाकं हुत्वा किरियामत्ते तिट्ठति, तेनस्स ते कायादयो न होन्तीति वुत्तं.

खेत्तं तं न होतीतिआदीसुपि विरुहनट्ठेन तं खेत्तं न होति, पतिट्ठानट्ठेन वत्थु न होति, पच्चयट्ठेन आयतनं न होति, कारणट्ठेन अधिकरणं न होति. सञ्चेतनामूलकञ्हि अज्झत्तं सुखदुक्खं उप्पज्जेय्य, सा सञ्चेतना एतेसं विरुहनादीनं अत्थानं अभावेन तस्स सुखदुक्खस्स नेव खेत्तं, न वत्थु न आयतनं, न अधिकरणं होतीति. इमस्मिं सुत्ते वेदनादीसु सुखदुक्खमेव कथितं, तञ्च खो विपाकमेवाति. पञ्चमं.

छट्ठं उपवाणसुत्तं उत्तानमेव. एत्थ पन वट्टदुक्खमेव कथितन्ति. छट्ठं.

७. पच्चयसुत्तवण्णना

२७-२८. सत्तमे पटिपाटिया वुत्तेसु परियोसानपदं गहेत्वा कतमञ्च, भिक्खवे, जरामरणन्तिआदि वुत्तं. एवं पच्चयं पजानातीति एवं दुक्खसच्चवसेन पच्चयं जानाति. पच्चयसमुदयादयोपि समुदयसच्चादीनंयेव वसेन वेदितब्बा. दिट्ठिसम्पन्नोति मग्गदिट्ठिया सम्पन्नो. दस्सनसम्पन्नोति तस्सेव वेवचनं. आगतो इमं सद्धम्मन्ति मग्गसद्धम्मं आगतो. पस्सतीति मग्गसद्धम्ममेव पस्सति. सेक्खेन ञाणेनाति मग्गञाणेनेव. सेक्खाय विज्जायाति मग्गविज्जाय एव. धम्मसोतं समापन्नोति मग्गसङ्खातमेव धम्मसोतं समापन्नो. अरियोति पुथुज्जनभूमिं अतिक्कन्तो. निब्बेधिकपञ्ञोति निब्बेधिकपञ्ञाय समन्नागतो. अमतद्वारं आहच्च तिट्ठतीति अमतं नाम निब्बानं, तस्स द्वारं अरियमग्गं आहच्च तिट्ठतीति. अट्ठमं उत्तानमेव. सत्तमअट्ठमानि.

९. समणब्राह्मणसुत्तवण्णना

२९-३०. नवमं अक्खरभाणकानं भिक्खूनं अज्झासयेन वुत्तं. ते हि परीति उपसग्गं पक्खिपित्वा वुच्चमाने पटिविज्झितुं सक्कोन्ति. नवमं.

दसमे सब्बं उत्तानमेव. इमेसु द्वीसु सुत्तेसु चतुसच्चपटिवेधोव कथितो. दसमं.

दसबलवग्गो ततियो.