२. मोळियफग्गुनसुत्तवण्णना
१२. दुतिये सम्भवेसीनं वा अनुग्गहायाति इमस्मिंयेव ठाने भगवा देसनं निट्ठापेसि. कस्मा? दिट्ठिगतिकस्स निसिन्नत्ता. तस्सञ्हि परिसति मोळियफग्गुनो नाम भिक्खु दिट्ठिगतिको निसिन्नो. अथ सत्था चिन्तेसि – ‘‘अयं उट्ठहित्वा मं पञ्हं पुच्छिस्सति, अथस्साहं विस्सज्जेस्सामी’’ति पुच्छाय ओकासदानत्थं देसनं निट्ठापेसि. मोळियफग्गुनोति मोळीति चूळा वुच्चति. यथाह –
‘‘छेत्वान मोळिं वरगन्धवासितं
वेहायसं उक्खिपि सक्यपुङ्गवो;
रतनचङ्कोटवरेन वासवो,
सहस्सनेत्तो सिरसा पटिग्गही’’ति.
सा तस्स गिहिकाले महन्ता अहोसि. तेनस्स ‘‘मोळियफग्गुनो’’ति सङ्खा उदपादि. पब्बजितम्पि नं तेनेव नामेन सञ्जानन्ति. एतदवोचाति देसनानुसन्धिं घटेन्तो एतं ‘‘को नु खो, भन्ते, विञ्ञाणाहारं आहारेती’’ति वचनं अवोच. तस्सत्थो – भन्ते, को नाम सो, यो एतं विञ्ञाणाहारं खादति वा भुञ्जति वाति?
कस्मा पनायं इतरे तयो आहारे अपुच्छित्वा इममेव पुच्छतीति? जानामीति लद्धिया. सो हि महन्ते पिण्डे कत्वाव कबळीकाराहारं भुञ्जन्ते पस्सति, तेनस्स तं जानामीति लद्धि. तित्तिरवट्टकमोरकुक्कुटादयो पन मातुसम्फस्सेन यापेन्ते दिस्वा ‘‘एते फस्साहारेन यापेन्ती’’ति तस्स लद्धि. कच्छपा पन अत्तनो उतुसमये महासमुद्दतो निक्खमित्वा समुद्दतीरे वालिकन्तरे अण्डानि ठपेत्वा वालिकाय पटिच्छादेत्वा महासमुद्दमेव ओतरन्ति. तानि मातुअनुस्सरणवसेन न पूतीनि होन्ति. तानि मनोसञ्चेतनाहारेन यापेन्तीति तस्स लद्धि. किञ्चापि थेरस्स अयं लद्धि, न पन एताय लद्धिया इमं पञ्हं पुच्छति. दिट्ठिगतिको हि उम्मत्तकसदिसो. यथा उम्मत्तको पच्छिं गहेत्वा अन्तरवीथिं ओतिण्णो गोमयम्पि पासाणम्पि गूथम्पि खज्जखण्डम्पि तं तं मनापम्पि अमनापम्पि गहेत्वा पच्छियं पक्खिपति. एवमेव दिट्ठिगतिको युत्तम्पि अयुत्तम्पि पुच्छति. सो ‘‘कस्मा इमं पुच्छसी’’ति न निग्गहेतब्बो, पुच्छितपुच्छितट्ठाने पन गहणमेव निसेधेतब्बं. तेनेव नं भगवा ‘‘कस्मा एवं पुच्छसी’’ति अवत्वा गहितगाहमेव तस्स मोचेतुं नो कल्लो पञ्होतिआदिमाह.
तत्थ नो कल्लोति अयुत्तो. आहारेतीति अहं न वदामीति अहं कोचि सत्तो वा पुग्गलो वा आहारेतीति न वदामि. आहारेतीति चाहं वदेय्यन्ति यदि अहं आहारेतीति वदेय्यं. तत्रस्स कल्लो पञ्होति तस्मिं मया एवं वुत्ते अयं पञ्हो युत्तो भवेय्य. किस्स नु खो, भन्ते, विञ्ञाणाहारोति, भन्ते, अयं विञ्ञाणाहारो कतमस्स धम्मस्स पच्चयोति अत्थो. तत्र कल्लं वेय्याकरणन्ति तस्मिं एवं पुच्छिते पञ्हे इमं वेय्याकरणं युत्तं ‘‘विञ्ञाणाहारो आयतिं पुनब्भवाभिनिब्बत्तिया पच्चयो’’ति. एत्थ च विञ्ञाणाहारोति पटिसन्धिचित्तं. आयतिं पुनब्भवाभिनिब्बत्तीति तेनेव विञ्ञाणेन सहुप्पन्ननामरूपं. तस्मिं भूते सति सळायतनन्ति तस्मिं पुनब्भवाभिनिब्बत्तिसङ्खाते नामरूपे जाते सति सळायतनं होतीति अत्थो.
सळायतनपच्चया फस्सोति इधापि भगवा उत्तरि पञ्हस्स ओकासं देन्तो देसनं निट्ठापेसि. दिट्ठिगतिको हि नवपुच्छं उप्पादेतुं न सक्कोति, निद्दिट्ठं निद्दिट्ठंयेव पन गण्हित्वा पुच्छति, तेनस्स भगवा ओकासं अदासि. अत्थो पनस्स सब्बपदेसु वुत्तनयेनेव गहेतब्बो. ‘‘को नु खो, भन्ते, भवती’’ति कस्मा न पुच्छति? दिट्ठिगतिकस्स हि सत्तो नाम भूतो निब्बत्तोयेवाति लद्धि, तस्मा अत्तनो लद्धिविरुद्धं इदन्ति न पुच्छति. अपिच इदप्पच्चया इदं इदप्पच्चया इदन्ति बहूसु ठानेसु कथितत्ता सञ्ञत्तिं उपगतो, तेनापि न पुच्छति. सत्थापि ‘‘इमस्स बहुं पुच्छन्तस्सापि तित्ति नत्थि, तुच्छपुच्छमेव पुच्छती’’ति इतो पट्ठाय देसनं एकाबद्धं कत्वा देसेसि. छन्नं त्वेवाति यतो पट्ठाय देसनारुळ्हं, तमेव गहेत्वा देसनं विवट्टेन्तो एवमाह. इमस्मिं पन सुत्ते विञ्ञाणनामरूपानं अन्तरे एको सन्धि, वेदनातण्हानं अन्तरे एको, भवजातीनं अन्तरे एकोति. दुतियं.