५-१०. सिखीसुत्तादिवण्णना

५-१०. पञ्चमादीसु सिखिस्स, भिक्खवेतिआदीनं पदानं ‘‘सिखिस्सपि, भिक्खवे’’ति न एवं योजेत्वा अत्थो वेदितब्बो. कस्मा? एकासने अदेसितत्ता. नानाठानेसु हि एतानि देसितानि, अत्थो पन सब्बत्थ सदिसोयेव. सब्बबोधिसत्तानञ्हि बोधिपल्लङ्के निसिन्नानं न अञ्ञो समणो वा ब्राह्मणो वा देवो वा मारो वा ब्रह्मा वा आचिक्खति – ‘‘अतीते बोधिसत्ता पच्चयाकारं सम्मसित्वा बुद्धा जाता’’ति. यथा पन पठमकप्पिककाले देवे वुट्ठे उदकस्स गतमग्गेनेव अपरापरं वुट्ठिउदकं गच्छति, एवं तेहि तेहि पुरिमबुद्धेहि गतमग्गेनेव पच्छिमा पच्छिमा गच्छन्ति. सब्बबोधिसत्ता हि आनापानचतुत्थज्झानतो वुट्ठाय पच्चयाकारे ञाणं ओतारेत्वा तं अनुलोमपटिलोमं सम्मसित्वा बुद्धा होन्तीति पटिपाटिया सत्तसु सुत्तेसु बुद्धविपस्सना नाम कथिताति.

बुद्धवग्गो पठमो.