४. विपस्सीसुत्तवण्णना
४. चतुत्थे विपस्सिस्साति तस्स किर बोधिसत्तस्स यथा लोकियमनुस्सानं किञ्चिदेव पस्सन्तानं परित्तकम्माभिनिब्बत्तस्स कम्मजपसादस्स दुब्बलत्ता अक्खीनि विप्फन्दन्ति, न एवं विप्फन्दिंसु. बलवकम्मनिब्बत्तस्स पन कम्मजपसादस्स बलवत्ता अविप्फन्दन्तेहि अनिमिसेहि एव अक्खीहि पस्सि सेय्यथापि देवा तावतिंसा. तेन वुत्तं – ‘‘अनिमिसन्तो कुमारो पेक्खतीति खो, भिक्खवे, विपस्सिस्स कुमारस्स ‘विपस्सी विपस्सी’त्वेव समञ्ञा उदपादी’’ति (दी. नि. २.४०). अयञ्हेत्थ अधिप्पायो – अन्तरन्तरा निमिसजनितन्धकारविरहेन विसुद्धं पस्सति, विवटेहि वा अक्खीहि पस्सतीति विपस्सी. एत्थ च किञ्चापि पच्छिमभविकानं सब्बबोधिसत्तानं बलवकम्मनिब्बत्तस्स कम्मजपसादस्स बलवत्ता अक्खीनि न विप्फन्दन्ति, सो पन बोधिसत्तो एतेनेव नामं लभि.
अपिच विचेय्य विचेय्य पस्सतीति विपस्सी, विचिनित्वा विचिनित्वा पस्सतीति अत्थो. एकदिवसं किर विनिच्छयट्ठाने निसीदित्वा अत्थे अनुसासन्तस्स रञ्ञो अलङ्कतपटियत्तं महापुरिसं आहरित्वा अङ्के ठपयिंसु. तस्स तं अङ्के कत्वा पलाळयमानस्सेव अमच्चा सामिकं अस्सामिकं अकंसु. बोधिसत्तो अनत्तमनसद्दं निच्छारेसि. राजा ‘‘किमेतं उपधारेथा’’ति आह. उपधारयमाना अञ्ञं अदिस्वा ‘‘अट्टस्स दुब्बिनिच्छितत्ता एवं कतं भविस्सती’’ति पुन सामिकमेव सामिकं कत्वा ‘‘ञत्वा नु खो कुमारो एवं करोती’’ति? वीमंसन्ता पुन सामिकं अस्सामिकमकंसु. पुन बोधिसत्तो तथेव सद्दं निच्छारेसि. अथ राजा ‘‘जानाति महापुरिसो’’ति ततो पट्ठाय अप्पमत्तो अहोसि. तेन वुत्तं ‘‘विचेय्य विचेय्य कुमारो अत्थे पनायति ञायेनाति खो, भिक्खवे, विपस्सिस्स कुमारस्स भिय्योसोमत्ताय ‘विपस्सी विपस्सी’त्वेव समञ्ञा उदपादी’’ति (दी. नि. २.४१).
भगवतोति भाग्यसम्पन्नस्स. अरहतोति रागादिअरीनं हतत्ता, संसारचक्कस्स वा अरानं हतत्ता, पच्चयानं वा अरहत्ता अरहाति एवं गुणतो उप्पन्ननामधेय्यस्स. सम्मासम्बुद्धस्साति सम्मा नयेन हेतुना सामं पच्चत्तपुरिसकारेन चत्तारि सच्चानि बुद्धस्स. पुब्बेव सम्बोधाति सम्बोधो वुच्चति चतूसु मग्गेसु ञाणं, ततो पुब्बेव. बोधिसत्तस्सेव सतोति एत्थ बोधीति ञाणं, बोधिमा सत्तो बोधिसत्तो, ञाणवा पञ्ञवा पण्डितोति अत्थो. पुरिमबुद्धानञ्हि पादमूले अभिनीहारतो पट्ठाय पण्डितोव सो सत्तो, न अन्धबालोति बोधिसत्तो. यथा वा उदकतो उग्गन्त्वा ठितं परिपाकगतं पदुमं सूरियरस्मिसम्फस्सेन अवस्सं बुज्झिस्सतीति बुज्झनकपदुमन्ति वुच्चति, एवं बुद्धानं सन्तिके ब्याकरणस्स लद्धत्ता अवस्सं अनन्तरायेन पारमियो पूरेत्वा बुज्झिस्सतीति बुज्झनकसत्तोतिपि बोधिसत्तो. या च एसा चतुमग्गञाणसङ्खाता बोधि, तं पत्थयमानो पवत्ततीति बोधियं सत्तो आसत्तोतिपि बोधिसत्तो. एवं गुणतो उप्पन्ननामवसेन बोधिसत्तस्सेव सतो. किच्छन्ति दुक्खं. आपन्नोति अनुप्पत्तो. इदं वुत्तं होति – अहो अयं सत्तलोको दुक्खं अनुप्पत्तोति. चवति च उपपज्जति चाति इदं अपरापरं चुतिपटिसन्धिवसेन वुत्तं. निस्सरणन्ति निब्बानं. तञ्हि जरामरणदुक्खतो निस्सटत्ता तस्स निस्सरणन्ति वुच्चति. कुदास्सु नामाति कतरस्मिं नु खो काले.
योनिसो मनसिकाराति उपायमनसिकारेन पथमनसिकारेन. अहु पञ्ञाय अभिसमयोति पञ्ञाय सद्धिं जरामरणकारणस्स अभिसमयो समवायो समायोगो अहोसि, ‘‘जातिपच्चया जरामरण’’न्ति इदं तेन दिट्ठन्ति अत्थो. अथ वा योनिसो मनसिकारा अहु पञ्ञायाति योनिसो मनसिकारेन च पञ्ञाय च अभिसमयो अहु. ‘‘जातिया खो सति जरामरण’’न्ति, एवं जरामरणकारणस्स पटिवेधो अहोसीति अत्थो. एस नयो सब्बत्थ.
इति हिदन्ति एवमिदं. समुदयो समुदयोति एकादससु ठानेसु सङ्खारादीनं समुदयं सम्पिण्डेत्वा निद्दिसति. पुब्बे अननुस्सुतेसूति ‘‘अविज्जापच्चया सङ्खारानं समुदयो होती’’ति. एवं इतो पुब्बे अननुस्सुतेसु धम्मेसु, चतूसु वा अरियसच्चधम्मेसु. चक्खुन्तिआदीनि ञाणवेवचनानेव. ञाणमेव हेत्थ दस्सनट्ठेन चक्खु, ञातट्ठेन ञाणं, पजाननट्ठेन पञ्ञा, पटिवेधनट्ठेन विज्जा, ओभासनट्ठेन आलोकोति वुत्तं. तं पनेतं चतूसु सच्चेसु लोकियलोकुत्तरमिस्सकं निद्दिट्ठन्ति वेदितब्बं. निरोधवारेपि इमिनाव नयेन अत्थो वेदितब्बो. चतुत्थं.