६. सप्पसुत्तवण्णना

१४२. छट्ठे सोण्डिकाकिलञ्जन्ति सुराकारकानं पिट्ठपत्थरणककिलञ्जं. कोसलिका कंसपातीति कोसलरञ्ञो रथचक्कप्पमाणा परिभोगपाति. गळगळायन्तेति गज्जन्ते. कम्मारगग्गरियाति कम्मारुद्धनपणाळिया. धममानायाति भस्तवातेन पूरियमानाय. इति विदित्वाति – ‘‘समणो गोतमो पधानमनुयुत्तो सुखेन निसिन्नो, घट्टयिस्सामि न’’न्ति वुत्तप्पकारं अत्तभावं मापेत्वा नियामभूमियं इतो चितो च सञ्चरन्तं विज्जुलतालोकेन दिस्वा, ‘‘को नु खो एसो सत्तो’’ति? आवज्जेन्तो, ‘‘मारो अय’’न्ति एवं विदित्वा.

सुञ्ञगेहानीति सुञ्ञागारानि. सेय्याति सेय्यत्थाय. ठस्सामि चङ्कमिस्सामि निसीदिस्सामि निपज्जिस्सामीति एतदत्थाय यो सुञ्ञागारानि सेवतीति अत्थो. सो मुनि अत्तसञ्ञतोति सो बुद्धमुनि हत्थपादकुक्कुच्चाभावेन संयतत्तभावो. वोस्सज्ज चरेय्य तत्थ सोति सो तस्मिं अत्तभावे आलयं निकन्तिं वोस्सज्जित्वा पहाय चरेय्य. पतिरूपं हि तथाविधस्स तन्ति तादिसस्स तंसण्ठितस्स बुद्धमुनिनो तं अत्तभावे निकन्तिं वोस्सज्जित्वा चरणं नाम पतिरूपं युत्तं अनुच्छविकं.

चरकाति सीहब्यग्घादिका सञ्चरणसत्ता. भेरवाति सविञ्ञाणकअविञ्ञाणकभेरवा. तत्थ सविञ्ञाणका सीहब्यग्घादयो, अविञ्ञाणका रत्तिभागे खाणुवम्मिकादयो. तेपि हि तस्मिं काले यक्खा विय उपट्ठहन्ति, रज्जुवल्लियादीनि सब्बानि सप्पा विय उपट्ठहन्ति. तत्थाति तेसु भेरवेसु सुञ्ञागारगतो बुद्धमुनि लोमचलनमत्तकम्पि न करोति.

इदानि अट्ठानपरिकप्पं दस्सेन्तो नभं फलेय्यातिआदिमाह. तत्थ फलेय्याति काकपदं विय हीरहीरसो फलेय्य. चलेय्याति पोक्खरपत्ते वाताहतो उदकबिन्दु विय चलेय्य. सल्लम्पि चे उरसि पकप्पयेय्युन्ति तिखिणसत्तिसल्लं चेपि उरस्मिं चारेयेय्युं. उपधीसूति खन्धूपधीसु. ताणं न करोन्तीति तिखिणे सल्ले उरस्मिं चारियमाने भयेन गुम्बन्तरकन्दरादीनि पविसन्ता ताणं करोन्ति नाम. बुद्धा पन समुच्छिन्नसब्बभया एवरूपं ताणं नाम न करोन्ति. छट्ठं.