७. सुपतिसुत्तवण्णना

१४३. सत्तमे पादे पक्खालेत्वाति उतुगाहापनत्थं धोवित्वा. बुद्धानं पन सरीरे रजोजल्लं न उपलिम्पति, उदकम्पि पोक्खरपत्ते पक्खित्तं विय विवट्टित्वा गच्छति. अपिच खो धोतपादके गेहे पादे धोवित्वा पविसनं पब्बजितानं वत्तं. तत्थ बुद्धानं वत्तभेदो नाम नत्थि, वत्तसीसे पन ठत्वा धोवन्ति. सचे हि तथागतो नेव न्हायेय्य, न पादे धोवेय्य, ‘‘नायं मनुस्सो’’ति वदेय्युं. तस्मा मनुस्सकिरियं अमुञ्चन्तो धोवति. सतो सम्पजानोति सोप्पपरिग्गाहकेन सतिसम्पजञ्ञेन समन्नागतो. उपसङ्कमीति समणो गोतमो सब्बरत्तिं अब्भोकासे चङ्कमित्वा गन्धकुटिं पविसित्वा निद्दायति, अतिविय सुखसयितो भविस्सति, घट्टयिस्सामि नन्ति चिन्तेत्वा उपसङ्कमि.

किं सोप्पसीति किं सुपसि, किं सोप्पं नामिदं तवाति वदति. किं नु सोप्पसीति कस्मा नु सुपसि? दुब्भगो वियाति मतो विय, विसञ्ञी विय च. सुञ्ञमगारन्ति सुञ्ञं मे घरं लद्धन्ति सोप्पसीति वदति. सूरिये उग्गतेति सूरियम्हि उट्ठिते. इदानि हि अञ्ञे भिक्खू सम्मज्जन्ति, पानीयं उपट्ठपेन्ति, भिक्खाचारगमनसज्जा भवन्ति, त्वं कस्मा सोप्पसियेव.

जालिनीति तयो भवे अज्झोत्थरित्वा ठितेन ‘‘अज्झत्तिकस्सुपादाय अट्ठारसतण्हाविचरितानी’’तिआदिना (विभ. ८४२) तेन तेन अत्तनो कोट्ठासभूतेन जालेन जालिनी. विसत्तिकाति रूपादीसु तत्थ तत्थ विसत्तताय विसमूलताय विसपरिभोगताय च विसत्तिका. कुहिञ्चि नेतवेति कत्थचि नेतुं. सब्बूपधि परिक्खयाति सब्बेसं खन्धकिलेसाभिसङ्खारकामगुणभेदानं उपधीनं परिक्खया. किं तवेत्थ, माराति, मार, तुय्हं किं एत्थ? कस्मा त्वं उण्हयागुयं निलीयितुं असक्कोन्ती खुद्दकमक्खिका विय अन्तन्तेनेव उज्झायन्तो आहिण्डसीति. सत्तमं.