१. तपोकम्मसुत्तवण्णना
१३७. मारसंयुत्तस्स पठमे उरुवेलायं विहरतीति पटिविद्धसब्बञ्ञुतञ्ञाणो उरुवेलगामं उपनिस्साय विहरति. पठमाभिसम्बुद्धोति अभिसम्बुद्धो हुत्वा पठमं अन्तोसत्ताहस्मिंयेव. दुक्करकारिकायाति छब्बस्सानि कताय दुक्करकारिकाय. मारो पापिमाति अत्तनो विसयं अतिक्कमितुं पटिपन्ने सत्ते मारेतीति मारो. पापे नियोजेति, सयं वा पापे नियुत्तोति पापिमा. अञ्ञानिपिस्स कण्हो, अधिपति, वसवत्ती, अन्तको, नमुचि, पमत्तबन्धूतिआदीनि बहूनि नामानि, इध पन नामद्वयमेव गहितं. उपसङ्कमीति – ‘‘अयं समणो गोतमो ‘मुत्तोस्मी’ति मञ्ञति, अमुत्तभावमस्स कथेस्सामी’’ति चिन्तेत्वा उपसङ्कमि.
तपोकम्मा अपक्कम्माति तपोकम्मतो अपक्कमित्वा. अपरद्धोति ‘‘दूरे त्वं सुद्धिमग्गा’’ति वदति. अमरं तपन्ति अमरतपं अमरभावत्थाय कतं लूखतपं, अत्तकिलमथानुयोगो. सब्बानत्थावहं होतीति, ‘‘सब्बं तपं मय्हं अत्थावहं न भवती’’ति ञत्वा. फियारित्तंव धम्मनीति अरञ्ञे थले फियारित्तं विय. इदं वुत्तं होति – यथा अरञ्ञे थले नावं ठपेत्वा भण्डस्स पूरेत्वा महाजना अभिरूहित्वा फियारित्तं गहेत्वा संकड्ढेय्युं चेव उप्पीलेय्युं च, सो महाजनस्स वायामो एकङ्गुलद्वङ्गुलमत्तम्पि नावाय गमनं असाधेन्तो निरत्थको भवेय्य न अनत्थावहो, एवमेव अहं ‘सब्बं अमरं तपं अनत्थावहं होती’ति ञत्वा विस्सज्जेसिन्ति.
इदानि तं अमरं तपं पहाय येन मग्गेन बुद्धो जातो, तं दस्सेन्तो सीलन्तिआदिमाह. तत्थ सीलन्ति वचनेन सम्मावाचाकम्मन्ताजीवा गहिता, समाधिना सम्मावायामसतिसमाधयो, पञ्ञाय सम्मादिट्ठिसङ्कप्पा. मग्गं बोधाय भावयन्ति इमं अट्ठङ्गिकमेव अरियमग्गं बोधत्थाय भावयन्तो. एत्थ च बोधायाति मग्गत्थाय. यथा हि यागुत्थाय यागुमेव पचन्ति, पूवत्थाय पूवमेव पचन्ति, न अञ्ञं किञ्चि करोन्ति, एवं मग्गमेव मग्गत्थाय भावेति. तेनाह ‘‘मग्गं बोधाय भावय’’न्ति. परमं सुद्धिन्ति अरहत्तं. निहतोति त्वं मया निहतो पराजितो. पठमं.