२. हत्थिराजवण्णसुत्तवण्णना

१३८. दुतिये रत्तन्धकारतिमिसायन्ति रत्तिं अन्धभावकारके महातमे चतुरङ्गे तमसि. अब्भोकासे निसिन्नो होतीति गन्धकुटितो निक्खमित्वा चङ्कमनकोटियं पासाणफलके महाचीवरं सीसे ठपेत्वा पधानं परिग्गण्हमानो निसिन्नो होति.

ननु च तथागतस्स अभावितो वा मग्गो, अप्पहीना वा किलेसा, अप्पटिविद्धं वा अकुप्पं, असच्छिकतो वा निरोधो नत्थि, कस्मा एवमकासीति? अनागते कुलपुत्तानं अङ्कुसत्थं. ‘‘अनागते हि कुलपुत्ता मया गतमग्गं आवज्जित्वा अब्भोकासवासं वसितब्बं मञ्ञमाना पधानकम्मं करिस्सन्ती’’ति सम्पस्समानो सत्था एवमकासि. महाति महन्तो. अरिट्ठकोति काळको. मणीति पासाणो. एवमस्स सीसं होतीति एवरूपं तस्स काळवण्णं कूटागारप्पमाणं महापासाणसदिसं सीसं होति.

सुभासुभन्ति दीघमद्धानं संसरन्तो सुन्दरासुन्दरं वण्णं कत्वा आगतोसीति वदति. अथ वा संसरन्ति संसरन्तो आगच्छन्तो. दीघमद्धानन्ति वसवत्तिट्ठानतो याव उरुवेलाय दीघमग्गं, पुरे बोधाय वा छब्बस्सानि दुक्करकारिकसमयसङ्खातं दीघकालं. वण्णं कत्वा सुभासुभन्ति सुन्दरञ्च असुन्दरञ्च नानप्पकारं वण्णं कत्वा अनेकवारं मम सन्तिकं आगतोसीति अत्थो. सो किर वण्णो नाम नत्थि, येन वण्णेन मारो विभिंसकत्थाय भगवतो सन्तिकं न आगतपुब्बो. तेन तं भगवा एवमाह. अलं ते तेनाति अलं तुय्हं एतेन मारविभिंसाकारदस्सनब्यापारेन. दुतियं.