४. पठमसङ्गामसुत्तवण्णना

१२५. चतुत्थे वेदेहिपुत्तोति वेदेहीति पण्डिताधिवचनमेतं, पण्डितित्थिया पुत्तोति अत्थो. चतुरङ्गिनिन्ति हत्थिअस्सरथपत्तिसङ्खातेहि चतूहि अङ्गेहि समन्नागतं. सन्नय्हित्वाति चम्मपटिमुञ्चनादीहि सन्नाहं कारेत्वा. सङ्गामेसुन्ति युज्झिंसु. केन कारणेन? महाकोसलरञ्ञा किर बिम्बिसारस्स धीतरं देन्तेन द्विन्नं रज्जानं अन्तरे सतसहस्सुट्ठानो कासिगामो नाम धीतु दिन्नो. अजातसत्तुना च पितरि मारिते मातापिस्स रञ्ञो वियोगसोकेन नचिरस्सेव मता. ततो राजा पसेनदि कोसलो – ‘‘अजातसत्तुना मातापितरो मारिता, मय्हं पितु सन्तको गामो’’ति तस्सत्थाय अड्डं करोति. अजातसत्तुपि ‘‘मय्हं मातु सन्तको’’ति तस्स गामस्सत्थाय द्वेपि मातुलभागिनेय्या युज्झिंसु.

पापा देवदत्तादयो मित्ता अस्साति पापमित्तो. तेयेवस्स सहायाति पापसहायो. तेस्वेवस्स चित्तं निन्नं सम्पवङ्कन्ति पापसम्पवङ्को. पसेनदिस्स सारिपुत्तत्थेरादीनं वसेन कल्याणमित्तादिता वेदितब्बा. दुक्खं सेतीति जितानि हत्थिआदीनि अनुसोचन्तो दुक्खं सयिस्सति. इदं भगवा पुन तस्स जयकारणं दिस्वा आह. जयं वेरं पसवतीति जिनन्तो वेरं पसवति, वेरिपुग्गलं लभति. चतुत्थं.