३. दोणपाकसुत्तवण्णना
१२४. ततिये दोणपाककुरन्ति दोणपाकं कुरं, दोणस्स तण्डुलानं पक्कभत्तं तदूपियञ्च सूपब्यञ्जनं भुञ्जतीति अत्थो. भुत्तावीति पुब्बे भत्तसम्मदं विनोदेत्वा मुहुत्तं विस्समित्वा बुद्धुपट्ठानं गच्छति, तंदिवसं पन भुञ्जन्तोव दसबलं सरित्वा हत्थे धोवित्वा अगमासि. महस्सासीति तस्स गच्छतो बलवा भत्तपरीळाहो उदपादि, तस्मा महन्तेहि अस्सासेहि अस्ससति, गत्ततोपिस्स सेदबिन्दूनि मुच्चन्ति, तमेनं उभोसु पस्सेसु ठत्वा यमकतालवण्टेहि बीजन्ति, बुद्धगारवेन पन निपज्जितुं न उस्सहतीति इदं सन्धाय ‘‘महस्सासी’’ति वुत्तं. इमं गाथं अभासीति, राजा भोजने अमत्तञ्ञुताय किलमति, फासु विहारं दानिस्स करिस्सामीति चिन्तेत्वा अभासि. मनुजस्साति सत्तस्स. कहापणसतन्ति पातरासे पण्णासं सायमासे पण्णासन्ति एवं कहापणसतं. परियापुणित्वाति रञ्ञा सद्धिं थोकं गन्त्वा ‘‘इमं मङ्गलअसिं कस्स दम्मि, महाराजा’’ति? असुकस्स नाम देहीति सो तं असिं दत्वा दसबलस्स सन्तिकं आगम्म वन्दित्वा ठितकोव ‘‘गाथं वदथ, भो गोतमा’’ति वत्वा भगवता वुत्तं परियापुणित्वाति अत्थो.
भत्ताभिहारे सुदं भासतीति कथं भासति? भगवता अनुसिट्ठिनियामेन. भगवा हि नं एवं अनुसासि – ‘‘माणव, इमं गाथं नटो विय पत्तपत्तट्ठाने मा अवच, रञ्ञो भुञ्जनट्ठाने ठत्वा पठमपिण्डादीसुपि अवत्वा वोसानपिण्डे गहिते वदेय्यासि, राजा सुत्वाव भत्तपिण्डं छड्डेस्सति. अथ रञ्ञो हत्थेसु धोतेसु पातिं अपनेत्वा सित्थानि गणेत्वा तदुपियं ब्यञ्जनं ञत्वा पुनदिवसे तावतके तण्डुले हारेय्यासि, पातरासे च वत्वा सायमासे मा वदेय्यासी’’ति. सो साधूति पटिस्सुणित्वा तंदिवसं रञ्ञो पातरासं भुत्वा गतत्ता सायमासे भगवतो अनुसिट्ठिनियामेन गाथं अभासि. राजा दसबलस्स वचनं सरित्वा भत्तपिण्डं पातियंयेव छड्डेसि. रञ्ञो हत्थेसु धोतेसु पातिं अपनेत्वा सित्थानि गणेत्वा तदुपियं ब्यञ्जनं ञत्वा पुनदिवसे तत्तके तण्डुले हरिंसु.
नाळिकोदनपरमताय सण्ठासीति सो किर माणवो दिवसे दिवसे तथागतस्स सन्तिकं गच्छति, दसबलस्स विस्सासिको अहोसि. अथ नं एकदिवसं पुच्छि ‘‘राजा कित्तकं भुञ्जती’’ति? सो ‘‘नाळिकोदन’’न्ति आह. वट्टिस्सति एत्तावता पुरिसभागो एस, इतो पट्ठाय गाथं मा वदीति. इति राजा तत्थेव सण्ठासि. दिट्ठधम्मिकेन चेव अत्थेन सम्परायिकेन चाति एत्थ सल्लिखितसरीरता दिट्ठधम्मिकत्थो नाम, सीलं सम्परायिकत्थो. भोजने मत्तञ्ञुता हि सीलङ्गं नाम होतीति. ततियं.