१०. सूरियसुत्तवण्णना

९१. दसमे सूरियोति सूरियविमानवासी देवपुत्तो. अन्धकारेति चक्खुविञ्ञाणुप्पत्तिनिवारणेन अन्धभावकरणे. विरोचतीति वेरोचनो. मण्डलीति मण्डलसण्ठानो. मा, राहु, गिली चरमन्तलिक्खेति अन्तलिक्खे चरं सूरियं, राहु, मा गिलीति वदति. किं पनेस तं गिलतीति? आम, गिलति. राहुस्स हि अत्तभावो महा, उच्चत्तनेन अट्ठयोजनसताधिकानि चत्तारि योजनसहस्सानि, बाहन्तरमस्स द्वादसयोजनसतानि, बहलत्तेन छ योजनसतानि, सीसं नव योजनसतं, नलाटं तियोजनसतं, भमुकन्तरं पण्णासयोजनं, मुखं द्वियोजनसतं, घानं तियोजनसतं, मुखाधानं तियोजनसतगम्भीरं हत्थतलपादतलानि पुथुलतो द्वियोजनसतानि. अङ्गुलिपब्बानि पण्णास योजनानि. सो चन्दिमसूरिये विरोचमाने दिस्वा इस्सापकतो तेसं गमनवीथिं ओतरित्वा मुखं विवरित्वा तिट्ठति. चन्दविमानं सूरियविमानं वा तियोजनसतिके महानरके पक्खित्तं विय होति. विमाने अधिवत्था देवता मरणभयतज्जिता एकप्पहारेनेव विरवन्ति. सो पन विमानं कदाचि हत्थेन छादेति, कदाचि हनुकस्स हेट्ठा पक्खिपति, कदाचि जिव्हाय परिमज्जति, कदाचि अवगण्डकारकं भुञ्जन्तो विय कपोलन्तरे ठपेति. वेगं पन वारेतुं न सक्कोति. सचे वारेस्सामीति गण्डकं कत्वा तिट्ठेय्य, मत्थकं तस्स भिन्दित्वा निक्खमेय्य, आकड्ढित्वा वा नं ओनमेय्य. तस्मा विमानेन सहेव गच्छति. पजं ममन्ति चन्दिमसूरिया किर द्वेपि देवपुत्ता महासमयसुत्तकथनदिवसे सोतापत्तिफलं पत्ता. तेन भगवा ‘‘पजं मम’’न्ति आह, पुत्तो मम एसोति अत्थो. दसमं.

पठमो वग्गो.