२. अनाथपिण्डिकवग्गो

१. चन्दिमससुत्तवण्णना

९२. दुतियवग्गस्स पठमे कच्छेवाति कच्छे विय. कच्छेति पब्बतकच्छेपि नदीकच्छेपि. एकोदि निपकाति एकग्गचित्ता चेव पञ्ञानेपक्केन च समन्नागता. सताति सतिमन्तो. इदं वुत्तं होति – ये झानानि लभित्वा एकोदी निपका सता विहरन्ति, ते अमकसे पब्बतकच्छे वा नदीकच्छे वा मगा विय सोत्थिं गमिस्सन्तीति. पारन्ति निब्बानं. अम्बुजोति मच्छो. रणञ्जहाति किलेसञ्जहा. येपि झानानि लभित्वा अप्पमत्ता किलेसे जहन्ति, ते सुत्तजालं भिन्दित्वा मच्छा विय निब्बानं गमिस्सन्तीति वुत्तं होति. पठमं.

२. वेण्डुसुत्तवण्णना

९३. दुतिये वेण्डूति तस्स देवपुत्तस्स नामं. पयिरुपासियाति परिरुपासित्वा. अनुसिक्खरेति सिक्खन्ति. सिट्ठिपदेति अनुसिट्ठिपदे. काले ते अप्पमज्जन्ताति काले ते अप्पमादं करोन्ता. दुतियं.

३. दीघलट्ठिसुत्तवण्णना

९४. ततिये दीघलट्ठीति देवलोके सब्बे समप्पमाणा तिगावुतिकाव होन्ति, मनुस्सलोके पनस्स दीघत्तभावताय एवंनामं अहोसि. सो पुञ्ञानि कत्वा देवलोके निब्बत्तोपि तथेव पञ्ञायि. ततियं.

४. नन्दनसुत्तवण्णना

९५. चतुत्थे गोतमाति भगवन्तं गोत्तेन आलपति. अनावटन्ति तथागतस्स हि सब्बञ्ञुतञ्ञाणं पेसेन्तस्स रुक्खो वा पब्बतो वा आवरितुं समत्थो नाम नत्थि. तेनाह ‘‘अनावट’’न्ति. इति तथागतं थोमेत्वा देवलोके अभिसङ्खतपञ्हं पुच्छन्तो कथंविधन्तिआदिमाह. तत्थ दुक्खमतिच्च इरियतीति दुक्खं अतिक्कमित्वा विहरति. सीलवाति लोकियलोकुत्तरेन सीलेन समन्नागतो खीणासवो. पञ्ञादयोपि मिस्सकायेव वेदितब्बा. पूजयन्तीति गन्धपुप्फादीहि पूजेन्ति. चतुत्थं.

५-६. चन्दनसुत्तादिवण्णना

९६. पञ्चमे अप्पतिट्ठे अनालम्बेति हेट्ठा अपतिट्ठे उपरि अनालम्बने. सुसमाहितोति अप्पनायपि उपचारेनपि सुट्ठु समाहितो. पहितत्तोति पेसितत्तो. नन्दीरागपरिक्खीणोति परिक्खीणनन्दीरागो. नन्दीरागो नाम तयो कम्माभिसङ्खारा. इति इमाय गाथाय कामसञ्ञागहणेन पञ्चोरम्भागियसंयोजनानि, रूपसंयोजनगहणेन पञ्च उद्धम्भागियसंयोजनानि, नन्दीरागेन तयो कम्माभिसङ्खारा गहिता. एवं यस्स दस संयोजनानि तयो च कम्माभिसङ्खारा पहीना, सो गम्भीरे महोघे न सीदतीति. कामसञ्ञाय वा कामभवो, रूपसंयोजनेन रूपभवो गहितो, तेसं गहणेन अरूपभवो गहितोव, नन्दीरागेन तयो कम्माभिसङ्खारा गहिताति एवं यस्स तीसु भवेसु तयो सङ्खारा नत्थि, सो गम्भीरे न सीदतीतिपि दस्सेति. पञ्चमं.

९७. छट्ठं वुत्तत्थमेव. छट्ठं.

७. सुब्रह्मसुत्तवण्णना

९८. सत्तमे सुब्रह्माति सो किर देवपुत्तो अच्छरासङ्घपरिवुतो नन्दनकीळिकं गन्त्वा पारिच्छत्तकमूले पञ्ञत्तासने निसीदि. तं पञ्चसता देवधीतरो परिवारेत्वा निसिन्ना, पञ्चसता रुक्खं अभिरुळ्हा. ननु च देवतानं चित्तवसेन योजनसतिकोपि रुक्खो ओनमित्वा हत्थं आगच्छति, कस्मा ता अभिरुळ्हाति. खिड्डापसुतताय. अभिरुय्ह पन मधुरस्सरेन गायित्वा गायित्वा पुप्फानि पातेन्ति, तानि गहेत्वा इतरा एकतोवण्टिकमालादिवसेन गन्थेन्ति. अथ रुक्खं अभिरुळ्हा उपच्छेदककम्मवसेन एकप्पहारेनेव कालं कत्वा अवीचिम्हि निब्बत्ता महादुक्खं अनुभवन्ति.

अथ काले गच्छन्ते देवपुत्तो ‘‘इमासं नेव सद्दो सुय्यति, न पुप्फानि पातेन्ति. कहं नु खो गता’’ति? आवज्जेन्तो निरये निब्बत्तभावं दिस्वा पियवत्थुकसोकेन रुप्पमानो चिन्तेसि – ‘‘एता ताव यथाकम्मेन गता, मय्हं आयुसङ्खारो कित्तको’’ति. सो – ‘‘सत्तमे दिवसे मयापि अवसेसाहि पञ्चसताहि सद्धिं कालं कत्वा तत्थेव निब्बत्तितब्ब’’न्ति दिस्वा बलवतरेन सोकेन रुप्पि. सो – ‘‘इमं मय्हं सोकं सदेवके लोके अञ्ञत्र तथागता निद्धमितुं समत्थो नाम नत्थी’’ति चिन्तेत्वा सत्थु सन्तिकं गन्त्वा निच्चं उत्रस्तन्ति गाथमाह.

तत्थ इदन्ति अत्तनो चित्तं दस्सेति. दुतियपदं पुरिमस्सेव वेवचनं. निच्चन्ति च पदस्स देवलोके निब्बत्तकालतो पट्ठायाति अत्थो न गहेतब्बो, सोकुप्पत्तिकालतो पन पट्ठाय निच्चन्ति वेदितब्बं. अनुप्पन्नेसु किच्छेसूति इतो सत्ताहच्चयेन यानि दुक्खानि उप्पज्जिस्सन्ति, तेसु. अथो उप्पतितेसु चाति यानि पञ्चसतानं अच्छरानं निरये निब्बत्तानं दिट्ठानि, तेसु चाति एवं इमेसु उप्पन्नानुप्पन्नेसु दुक्खेसु निच्चं मम उत्रस्तं चित्तं, अब्भन्तरे डय्हमानो विय होमि भगवाति दस्सेति.

नाञ्ञत्र बोज्झा तपसाति बोज्झङ्गभावनञ्च तपोगुणञ्च अञ्ञत्र मुञ्चित्वा सोत्थिं न पस्सामीति अत्थो. सब्बनिस्सग्गाति निब्बानतो. एत्थ किञ्चापि बोज्झङ्गभावना पठमं गहिता, इन्द्रियसंवरो पच्छा, अत्थतो पन इन्द्रियसंवरोव पठमं वेदितब्बो. इन्दियसंवरे हि गहिते चतुपारिसुद्धिसीलं गहितं होति. तस्मिं पतिट्ठितो भिक्खु निस्सयमुत्तको धुतङ्गसङ्खातं तपोगुणं समादाय अरञ्ञं पविसित्वा कम्मट्ठानं भावेन्तो सह विपस्सनाय बोज्झङ्गे भावेति. तस्स अरियमग्गो यं निब्बानं आरम्मणं कत्वा उप्पज्जति, सो ‘‘सब्बनिस्सग्गो’’ति भगवा चतुसच्चवसेन देसनं विनिवत्तेसि. देवपुत्तो देसनापरियोसाने सोतापत्तिफले पतिट्ठहीति. सत्तमं.

८-१०. ककुधसुत्तादिवण्णना

९९. अट्ठमे ककुधो देवपुत्तोति अयं किर कोलनगरे महामोग्गल्लानत्थेरस्स उपट्ठाकपुत्तो दहरकालेयेव थेरस्स सन्तिके वसन्तो झानं निब्बत्तेत्वा कालङ्कतो, ब्रह्मलोके उप्पज्जि. तत्रापि नं ककुधो ब्रह्मात्वेव सञ्जानन्ति. नन्दसीति तुस्ससि. किं लद्धाति तुट्ठि नाम किञ्चि मनापं लभित्वा होति, तस्मा एवमाह. किं जीयित्थाति यस्स हि किञ्चि मनापं चीवरादिवत्थु जिण्णं होति, सो सोचति, तस्मा एवमाह. अरती नाभिकीरतीति उक्कण्ठिता नाभिभवति. अघजातस्साति दुक्खजातस्स, वट्टदुक्खे ठितस्साति अत्थो. नन्दीजातस्साति जाततण्हस्स. अघन्ति एवरूपस्स हि वट्टदुक्खं आगतमेव होति. ‘‘दुक्खी सुखं पत्थयती’’ति हि वुत्तं. इति अघजातस्स नन्दी होति, सुखविपरिणामेन दुक्खं आगतमेवाति नन्दीजातस्स अघं होति. अट्ठमं.

१००. नवमं वुत्तत्थमेव. नवमं.

१०१. दसमे आनन्दत्थेरस्स अनुमानबुद्धिया आनुभावप्पकासनत्थं अञ्ञतरोति आह. दसमं.

दुतियो वग्गो.