१. पठमवग्गो

१. पठमकस्सपसुत्तवण्णना

८२. देवपुत्तसंयुत्तस्स पठमे देवपुत्तोति देवानञ्हि अङ्के निब्बत्ता पुरिसा देवपुत्ता नाम, इत्थियो देवधीतरो नाम होन्ति. नामवसेन अपाकटाव ‘‘अञ्ञतरा देवता’’ति वुच्चति, पाकटो ‘‘इत्थन्नामो देवपुत्तो’’ति. तस्मा हेट्ठा ‘‘अञ्ञतरा देवता’’ति वत्वा इध ‘‘देवपुत्तो’’ति वुत्तं. अनुसासन्ति अनुसिट्ठिं. अयं किर देवपुत्तो भगवता सम्बोधितो सत्तमे वस्से यमकपाटिहारियं कत्वा तिदसपुरे वस्सं उपगम्म अभिधम्मं देसेन्तेन झानविभङ्गे – ‘‘भिक्खूति समञ्ञाय भिक्खु, पटिञ्ञाय भिक्खू’’ति (विभ. ५१०). एवं भिक्खुनिद्देसं कथियमानं अस्सोसि. ‘‘एवं वितक्केथ, मा एवं वितक्कयित्थ, एवं मनसिकरोथ, मा एवं मनसाकत्थ. इदं पजहथ, इदं उपसम्पज्ज विहरथा’’ति (पारा. १९). एवरूपं पन भिक्खुओवादं भिक्खुअनुसासनं न अस्सोसि. सो तं सन्धाय – ‘‘भिक्खुं भगवा पकासेसि, नो च भिक्खुनो अनुसास’’न्ति आह.

तेन हीति यस्मा मया भिक्खुनो अनुसिट्ठि न पकासिताति वदसि, तस्मा. तञ्ञेवेत्थ पटिभातूति तुय्हेवेसा अनुसिट्ठिपकासना उपट्ठातूति. यो हि पञ्हं कथेतुकामो होति, न च सक्कोति सब्बञ्ञुतञ्ञाणेन सद्धिं संसन्दित्वा कथेतुं. यो वा न कथेतुकामो होति, सक्कोति पन कथेतुं. यो वा नेव कथेतुकामो होति, कथेतुं न च सक्कोति. सब्बेसम्पि तेसं भगवा पञ्हं भारं न करोति. अयं पन देवपुत्तो कथेतुकामो चेव, सक्कोति च कथेतुं. तस्मा तस्सेव भारं करोन्तो भगवा एवमाह. सोपि पञ्हं कथेसि.

तत्थ सुभासितस्स सिक्खेथाति सुभासितं सिक्खेय्य, चतुसच्चनिस्सितं दसकथावत्थुनिस्सितं सत्ततिंसबोधिपक्खियनिस्सितं चतुब्बिधं वचीसुचरितमेव सिक्खेय्य. समणूपासनस्स चाति समणेहि उपासितब्बं समणूपासनं नाम अट्ठतिंसभेदं कम्मट्ठानं, तम्पि सिक्खेय्य भावेय्याति अत्थो. बहुस्सुतानं वा भिक्खूनं उपासनम्पि समणूपासनं. तम्पि ‘किं, भन्ते, कुसल’’न्तिआदिना पञ्हपुच्छनेन पञ्ञावुद्धत्थं सिक्खेय्य. चित्तवूपसमस्स चाति अट्ठसमापत्तिवसेन चित्तवूपसमं सिक्खेय्य. इति देवपुत्तेन तिस्सो सिक्खा कथिता होन्ति. पुरिमपदेन हि अधिसीलसिक्खा कथिता, दुतियपदेन अधिपञ्ञासिक्खा, चित्तवूपसमेन अधिचित्तसिक्खाति एवं इमाय गाथाय सकलम्पि सासनं पकासितमेव होति. पठमं.

२. दुतियकस्सपसुत्तवण्णना

८३. दुतिये झायीति द्वीहि झानेहि झायी. विमुत्तचित्तोति कम्मट्ठानविमुत्तिया विमुत्तचित्तो. हदयस्सानुपत्तिन्ति अरहत्तं. लोकस्साति सङ्खारलोकस्स. अनिस्सितोति तण्हादिट्ठीहि अनिस्सितो, तण्हादिट्ठियो वा अनिस्सितो. तदानिसंसोति अरहत्तानिसंसो. इदं वुत्तं होति – अरहत्तानिसंसो भिक्खु अरहत्तं पत्थेन्तो झायी भवेय्य, सुविमुत्तचित्तो भवेय्य, लोकस्स उदयब्बयं ञत्वा अनिस्सितो भवेय्य. तन्तिधम्मो पन इमस्मिं सासने पुब्बभागोति. दुतियं.

३-४. माघसुत्तादिवण्णना

८४. ततिये माघोति सक्कस्सेतं नामं. स्वेव वत्तेन अञ्ञे अभिभवित्वा देविस्सरियं पत्तोति वत्रभू, वत्रनामकं वा असुरं अभिभवतीति वत्रभू. ततियं.

८५. चतुत्थं वुत्तत्थमेव. चतुत्थं.

५. दामलिसुत्तवण्णना

८६. पञ्चमे न तेनासीसते भवन्ति तेन कारणेन यं किञ्चि भवं न पत्थेति. आयतपग्गहो नामेस देवपुत्तो, खीणासवस्स किच्चवोसानं नत्थि. खीणासवेन हि आदितो अरहत्तप्पत्तिया वीरियं कतं, अपरभागे मया अरहत्तं पत्तन्ति मा तुण्ही भवतु, तथेव वीरियं दळ्हं करोतु परक्कमतूति चिन्तेत्वा एवमाह.

अथ भगवा ‘‘अयं देवपुत्तो खीणासवस्स किच्चवोसानं अकथेन्तो मम सासनं अनिय्यानिकं कथेति, किच्चवोसानमस्स कथेस्सामी’’ति चिन्तेत्वा नत्थि किच्चन्तिआदिमाह. तीसु किर पिटकेसु अयं गाथा असंकिण्णा. भगवता हि अञ्ञत्थ वीरियस्स दोसो नाम दस्सितो नत्थि. इध पन इमं देवपुत्तं पटिबाहित्वा ‘‘खीणासवेन पुब्बभागे आसवक्खयत्थाय अरञ्ञे वसन्तेन कम्मट्ठानं आदाय वीरियं कतं, अपरभागे सचे इच्छति, करोतु, नो चे इच्छति, यथासुखं विहरतू’’ति खीणासवस्स किच्चवोसानदस्सनत्थं एवमाह. तत्थ गाधन्ति पतिट्ठं. पञ्चमं.

६. कामदसुत्तवण्णना

८७. छट्ठे दुक्करन्ति अयं किर देवपुत्तो पुब्बयोगावचरो बहलकिलेसताय सप्पयोगेन किलेसे विक्खम्भेन्तो समणधम्मं कत्वा पुब्बूपनिस्सयमन्दताय अरियभूमिं अप्पत्वाव कालं कत्वा देवलोके निब्बत्तो. सो ‘‘तथागतस्स सन्तिकं गन्त्वा दुक्करभावं आरोचेस्सामी’’ति आगन्त्वा एवमाह. तत्थ दुक्करन्ति दसपि वस्सानि…पे… सट्ठिपि यदेतं एकन्तपरिसुद्धस्स समणधम्मस्स करणं नाम, तं दुक्करं. सेखाति सत्त सेखा. सीलसमाहिताति सीलेन समाहिता समुपेता. ठितत्ताति पतिट्ठितसभावा. एवं पुच्छितपञ्हं विस्सज्जेत्वा इदानि उपरिपञ्हसमुट्ठापनत्थं अनगारियुपेतस्सातिआदिमाह. तत्थ अनगारियुपेतस्साति अनगारियं निग्गेहभावं उपेतस्स. सत्तभूमिकेपि हि पासादे वसन्तो भिक्खु वुड्ढतरेन आगन्त्वा ‘‘मय्हं इदं पापुणाती’’ति वुत्ते पत्तचीवरं आदाय निक्खमतेव. तस्मा ‘‘अनगारियुपेतो’’ति वुच्चति. तुट्ठीति चतुपच्चयसन्तोसो. भावनायाति चित्तवूपसमभावनाय.

ते छेत्वा मच्चुनो जालन्ति ये रत्तिन्दिवं इन्द्रियूपसमे रता, ते दुस्समादहं चित्तं समादहन्ति. ये च समाहितचित्ता, ते चतुपच्चयसन्तोसं पूरेन्ता न किलमन्ति. ये सन्तुट्ठा, ते सीलं पूरेन्ता न किलमन्ति. ये सीले पतिट्ठिता सत्त सेखा, ते अरिया मच्चुनो जालसङ्खातं किलेसजालं छिन्दित्वा गच्छन्ति. दुग्गमोति ‘‘सच्चमेतं, भन्ते, ये इन्द्रियूपसमे रता, ते दुस्समादहं समादहन्ति…पे… ये सीले पतिट्ठिता, ते मच्चुनो जालं छिन्दित्वा गच्छन्ति’’. किं न गच्छिस्सन्ति? अयं पन दुग्गमो भगवा विसमो मग्गोति आह. तत्थ किञ्चापि अरियमग्गो नेव दुग्गमो न विसमो, पुब्बभागपटिपदाय पनस्स बहू परिस्सया होन्ति. तस्मा एवं वुत्तो. अवंसिराति ञाणसिरेन अधोसिरा हुत्वा पपतन्ति. अरियमग्गं आरोहितुं असमत्थतायेव च ते अनरियमग्गे पपतन्तीति च वुच्चन्ति. अरियानं समो मग्गोति स्वेव मग्गो अरियानं समो होति. विसमे समाति विसमेपि सत्तकाये समायेव. छट्ठं.

७. पञ्चालचण्डसुत्तवण्णना

८८. सत्तमे सम्बाधेति नीवरणसम्बाधं कामगुणसम्बाधन्ति द्वे सम्बाधा. तेसु इध नीवरणसम्बाधं अधिप्पेतं. ओकासन्ति झानस्सेतं नामं. पटिलीननिसभोति पटिलीनसेट्ठो. पटिलीनो नाम पहीनमानो वुच्चति. यथाह – ‘‘कथञ्च, भिक्खवे, भिक्खु पटिलीनो होति. इध, भिक्खवे, भिक्खुनो अस्मिमानो पहीनो होति उच्छिन्नमूलो तालावत्थुकतो अनभावंकतो आयतिं अनुप्पादधम्मो’’ति (अ. नि. ४.३८; महानि. ८७). पच्चलत्थंसूति पटिलभिंसु. सम्मा तेति ये निब्बानपत्तिया सतिं पटिलभिंसु, ते लोकुत्तरसमाधिनापि सुसमाहिताति मिस्सकज्झानं कथितं. सत्तमं.

८. तायनसुत्तवण्णना

८९. अट्ठमे पुराणतित्थकरोति पुब्बे तित्थकरो. एत्थ च तित्थं नाम द्वासट्ठि दिट्ठियो, तित्थकरो नाम तासं उप्पादको सत्था. सेय्यथिदं नन्दो, वच्छो, किसो, संकिच्चो. पुराणादयो पन तित्थिया नाम. अयं पन दिट्ठिं उप्पादेत्वा कथं सग्गे निब्बत्तोति? कम्मवादिताय. एस किर उपोसथभत्तादीनि अदासि, अनाथानं वत्तं पट्ठपेसि, पतिस्सये अकासि, पोक्खरणियो खणापेसि, अञ्ञम्पि बहुं कल्याणं अकासि. सो तस्स निस्सन्देन सग्गे निब्बत्तो, सासनस्स पन निय्यानिकभावं जानाति. सो तथागतस्स सन्तिकं गन्त्वा सासनानुच्छविका वीरियप्पटिसंयुत्ता गाथा वक्खामीति आगन्त्वा छिन्द सोतन्तिआदिमाह.

तत्थ छिन्दाति अनियमितआणत्ति. सोतन्ति तण्हासोतं. परक्कम्माति परक्कमित्वा वीरियं कत्वा. कामेति किलेसकामेपि वत्थुकामेपि. पनुदाति नीहर. एकत्तन्ति झानं. इदं वुत्तं होति – कामे अजहित्वा मुनि झानं न उपपज्जति, न पटिलभतीति अत्थो. कयिरा चे कयिराथेनन्ति यदि वीरियं करेय्य, करेय्याथ, तं वीरियं न ओसक्केय्य. दळ्हमेनं परक्कमेति दळ्हं एनं करेय्य. सिथिलो हि परिब्बाजोति सिथिलगहिता पब्बज्जा. भिय्यो आकिरते रजन्ति अतिरेकं उपरि किलेसरजं आकिरति. अकतं दुक्कटं सेय्योति दुक्कटं अकतमेव सेय्यो. यं किञ्चीति न केवलं दुक्कटं कत्वा कतसामञ्ञमेव, अञ्ञम्पि यं किञ्चि सिथिलं कतं एवरूपमेव होति. संकिलिट्ठन्ति दुक्करकारिकवतं. इमस्मिं हि सासने पच्चयहेतु समादिन्नधुतङ्गवतं संकिलिट्ठमेव. सङ्कस्सरन्ति सङ्काय सरितं, ‘‘इदम्पि इमिना कतं भविस्सति, इदम्पि इमिना’’ति एवं आसङ्कितपरिसङ्कितं. आदिब्रह्मचरियिकाति मग्गब्रह्मचरियस्स आदिभूता पुब्बपधानभूता. अट्ठमं.

९. चन्दिमसुत्तवण्णना

९०. नवमे चन्दिमाति चन्दविमानवासी देवपुत्तो. सब्बधीति सब्बेसु खन्धआयतनादीसु. लोकानुकम्पकाति तुय्हम्पि एतस्सपि तादिसा एव. सन्तरमानोवाति तुरितो विय. पमुञ्चसीति अतीतत्थे वत्तमानवचनं. नवमं.

१०. सूरियसुत्तवण्णना

९१. दसमे सूरियोति सूरियविमानवासी देवपुत्तो. अन्धकारेति चक्खुविञ्ञाणुप्पत्तिनिवारणेन अन्धभावकरणे. विरोचतीति वेरोचनो. मण्डलीति मण्डलसण्ठानो. मा, राहु, गिली चरमन्तलिक्खेति अन्तलिक्खे चरं सूरियं, राहु, मा गिलीति वदति. किं पनेस तं गिलतीति? आम, गिलति. राहुस्स हि अत्तभावो महा, उच्चत्तनेन अट्ठयोजनसताधिकानि चत्तारि योजनसहस्सानि, बाहन्तरमस्स द्वादसयोजनसतानि, बहलत्तेन छ योजनसतानि, सीसं नव योजनसतं, नलाटं तियोजनसतं, भमुकन्तरं पण्णासयोजनं, मुखं द्वियोजनसतं, घानं तियोजनसतं, मुखाधानं तियोजनसतगम्भीरं हत्थतलपादतलानि पुथुलतो द्वियोजनसतानि. अङ्गुलिपब्बानि पण्णास योजनानि. सो चन्दिमसूरिये विरोचमाने दिस्वा इस्सापकतो तेसं गमनवीथिं ओतरित्वा मुखं विवरित्वा तिट्ठति. चन्दविमानं सूरियविमानं वा तियोजनसतिके महानरके पक्खित्तं विय होति. विमाने अधिवत्था देवता मरणभयतज्जिता एकप्पहारेनेव विरवन्ति. सो पन विमानं कदाचि हत्थेन छादेति, कदाचि हनुकस्स हेट्ठा पक्खिपति, कदाचि जिव्हाय परिमज्जति, कदाचि अवगण्डकारकं भुञ्जन्तो विय कपोलन्तरे ठपेति. वेगं पन वारेतुं न सक्कोति. सचे वारेस्सामीति गण्डकं कत्वा तिट्ठेय्य, मत्थकं तस्स भिन्दित्वा निक्खमेय्य, आकड्ढित्वा वा नं ओनमेय्य. तस्मा विमानेन सहेव गच्छति. पजं ममन्ति चन्दिमसूरिया किर द्वेपि देवपुत्ता महासमयसुत्तकथनदिवसे सोतापत्तिफलं पत्ता. तेन भगवा ‘‘पजं मम’’न्ति आह, पुत्तो मम एसोति अत्थो. दसमं.

पठमो वग्गो.