९. पठमपज्जुन्नधीतुसुत्तवण्णना

३९. नवमे पज्जुन्नस्स धीताति पज्जुन्नस्स नाम वस्सवलाहकदेवरञ्ञो चातुमहाराजिकस्स धीता. अभिवन्देति भगवा तुम्हाकं पादे वन्दामि. चक्खुमताति पञ्चहि चक्खूहि चक्खुमन्तेन तथागतेन. धम्मो अनुबुद्धोति, ‘‘इदं मया पुब्बे परेसं सन्तिके केवलं सुतंयेव आसी’’ति वदति. साहं दानीति, सा अहं इदानि. सक्खि जानामीति, पटिवेधवसेन पच्चक्खमेव जानामि. विगरहन्ताति, ‘‘हीनक्खरपदब्यञ्जनो’’ति वा ‘‘अनिय्यानिको’’ति वा एवं गरहन्ता. रोरुवन्ति, द्वे रोरुवा – धूमरोरुवो च जालरोरुवो च. तत्थ धूमरोरुवो विसुं होति, जालरोरुवोति पन अवीचिमहानिरयस्सेवेतं नामं. तत्थ हि सत्ता अग्गिम्हि जलन्ते जलन्ते पुनप्पुनं रवं रवन्ति, तस्मा सो ‘‘रोरुवो’’ति वुच्चति. घोरन्ति दारुणं. खन्तिया उपसमेन उपेताति रुच्चित्वा खमापेत्वा गहणखन्तिया च रागादिउपसमेन च उपेताति. नवमं.