४. नसन्तिसुत्तवण्णना
३४. चतुत्थे कमनीयानीति रूपादीनि इट्ठारम्मणानि. अपुनागमनं अनागन्ता पुरिसो मच्चुधेय्याति तेभूमकवट्टसङ्खाता मच्चुधेय्या अपुनागमनसङ्खातं निब्बानं अनागन्ता. निब्बानञ्हि सत्ता न पुनागच्छन्ति, तस्मा तं अपुनागमनन्ति वुच्चति. तं कामेसु बद्धो च पमत्तो च अनागन्ता नाम होति, सो तं पापुणितुं न सक्कोति, तस्मा एवमाह. छन्दजन्ति तण्हाछन्दतो जातं. अघन्ति पञ्चक्खन्धदुक्खं. दुतियपदं तस्सेव वेवचनं. छन्दविनया अघविनयोति तण्हाविनयेन पञ्चक्खन्धविनयो. अघविनया दुक्खविनयोति पञ्चक्खन्धविनयेन वट्टदुक्खं विनीतमेव होति. चित्रानीति आरम्मणचित्तानि. सङ्कप्परागोति सङ्कप्पितरागो. एवमेत्थ वत्थुकामं पटिक्खिपित्वा किलेसकामो कामोति वुत्तो. अयं पनत्थो पसूरसुत्तेन (सु. नि. ८३० आदयो) विभावेतब्बो. पसूरपरिब्बाजको हि थेरेन ‘‘सङ्कप्परागो पुरिसस्स कामो’’ति वुत्ते –
‘‘न ते कामा यानि चित्रानि लोके,
सङ्कप्परागञ्च वदेसि कामं;
सङ्कप्पयं अकुसले वितक्के,
भिक्खूपि ते हेहिन्ति कामभोगी’’ति. –
आह. अथ नं थेरो अवोच –
‘‘ते चे कामा यानि चित्रानि लोके,
सङ्कप्परागं न वदेसि कामं;
पस्सन्तो रूपानि मनोरमानि,
सत्थापि ते हेहिति कामभोगी.
सुणन्तो सद्दानि, घायन्तो गन्धानि;
सायन्तो रसानि, फुसन्तो फस्सानि मनोरमानि;
सत्थापि ते हेहिति कामभोगी’’ति.
अथेत्थ धीराति अथ एतेसु आरम्मणेसु पण्डिता छन्दरागं विनयन्ति. संयोजनं सब्बन्ति दसविधम्पि संयोजनं. अकिञ्चनन्ति रागकिञ्चनादिविरहितं. नानुपतन्ति दुक्खाति वट्टदुक्खा पन तस्स उपरि न पतन्ति. इच्चायस्मा मोघराजाति, ‘‘पहासि सङ्ख’’न्ति गाथं सुत्वा तस्सं परिसति अनुसन्धिकुसलो मोघराजा नाम थेरो ‘‘इमिस्सा गाथाय अत्थो न यथानुसन्धिं गतो’’ति चिन्तेत्वा यथानुसन्धिं घटेन्तो एवमाह. तत्थ इध वा हुरं वाति इधलोके वा परलोके वा. नरुत्तमं अत्थचरं नरानन्ति किञ्चापि सब्बे खीणासवा नरुत्तमा चेव अत्थचरा च नरानं, थेरो पन दसबलं सन्धायेवमाह. ये तं नमस्सन्ति पसंसिया तेति यदि तथाविमुत्तं देवमनुस्सा नमस्सन्ति, अथ ये तं भगवन्तं कायेन वा वाचाय वा अनुपटिपत्तिया वा नमस्सन्ति, ते किं पसंसिया, उदाहु अपसंसियाति. भिक्खूति मोघराजत्थेरं आलपति. अञ्ञाय धम्मन्ति चतुसच्चधम्मं जानित्वा. सङ्गातिगा तेपि भवन्तीति ये तं कायेन वा वाचाय वा अनुपटिपत्तिया वा नमस्सन्ति. ते चतुसच्चधम्मं अञ्ञाय विचिकिच्छं पहाय सङ्गातिगापि होन्ति, पसंसियापि होन्तीति. चतुत्थं.