५. सणमानसुत्तवण्णना

१५. पञ्चमे ठिते मज्झन्हिकेति ठितमज्झन्हिके. सन्निसीवेसूति यथा फासुकट्ठानं उपगन्त्वा सन्निसिन्नेसु विस्सममानेसु. ठितमज्झन्हिककालो नामेस सब्बसत्तानं इरियापथदुब्बल्यकालो. इध पन पक्खीनंयेव वसेन दस्सितो. सणतेवाति सणति विय महाविरवं विय मुच्चति. सणमानमेव चेत्थ ‘‘सणतेवा’’ति वुत्तं. तप्पटिभागं नामेतं. निदाघसमयस्मिञ्हि ठितमज्झन्हिककाले चतुप्पदगणेसु चेव पक्खीगणेसु च सन्निसिन्नेसु वातपूरितानं सुसिररुक्खानञ्चेव छिद्दवेणुपब्बानञ्च खन्धेन खन्धं साखाय साखं सङ्घट्टयन्तानं पादपानञ्च अरञ्ञमज्झे महासद्दो उप्पज्जति. तं सन्धायेतं वुत्तं. तं भयं पटिभाति मन्ति तं एवरूपे काले महाअरञ्ञस्स सणमानं मय्हं भयं हुत्वा उपट्ठाति. दन्धपञ्ञा किरेसा देवता तस्मिं खणे अत्तनो निसज्जफासुकं कथाफासुकं दुतियकं अलभन्ती एवमाह. यस्मा पन तादिसे काले पिण्डपातपटिक्कन्तस्स विवित्ते अरञ्ञायतने कम्मट्ठानं गहेत्वा निसिन्नस्स भिक्खुनो अनप्पकं सुखं उप्पज्जति, यं सन्धाय वुत्तं –

‘‘सुञ्ञागारं पविट्ठस्स, सन्तचित्तस्स भिक्खुनो;

अमानुसी रती होति, सम्मा धम्मं विपस्सतो’’ति. (ध. प. ३७३) च,

‘‘पुरतो पच्छतो वापि, अपरो चे न विज्जति;

अतीव फासु भवति, एकस्स वसतो वने’’ति. (थेरगा. ५३७) च;

तस्मा भगवा दुतियं गाथमाह. तत्थ सा रति पटिभाति मन्ति या एवरूपे काले एककस्स निसज्जा नाम, सा रति मय्हं उपट्ठातीति अत्थो. सेसं तादिसमेवाति.

सणमानसुत्तवण्णना निट्ठिता.