६. निद्दातन्दीसुत्तवण्णना

१६. छट्ठे निद्दाति, ‘‘अभिजानामहं, अग्गिवेस्सन, गिम्हानं पच्छिमे मासे निद्दं ओक्कमिता’’ति (म. नि. १.३८७) एवरूपाय अब्याकतनिद्दाय पुब्बभागापरभागेसु सेखपुथुज्जनानं ससङ्खारिकअकुसले चित्ते उप्पन्नं थिनमिद्धं. तन्दीति अतिच्छातातिसीतादिकालेसु उप्पन्नं आगन्तुकं आलसियं. वुत्तम्पि चेतं – ‘‘तत्थ कतमा तन्दी? या तन्दी तन्दियना तन्दिमनता आलस्यं आलस्यायना आलस्यायितत्तं, अयं वुच्चति तन्दी’’ति (विभ. ८५७). विजम्भिताति कायविजम्भना. अरतीति अकुसलपक्खा उक्कण्ठितता. भत्तसम्मदोति भत्तमुच्छा भत्तकिलमथो. वित्थारो पन तेसं – ‘‘तत्थ कतमा विजम्भिता? या कायस्स जम्भना विजम्भना’’तिआदिना नयेन अभिधम्मे आगतोव. एतेनाति एतेन निद्दादिना उपक्किलेसेन उपक्किलिट्ठो निवारितपातुभावो. नप्पकासतीति न जोतति, न पातुभवतीति अत्थो. अरियमग्गोति लोकुत्तरमग्गो. इधाति इमस्मिं लोके. पाणिनन्ति सत्तानं. वीरियेनाति मग्गसहजातवीरियेन. नं पणामेत्वाति एतं किलेसजातं नीहरित्वा. अरियमग्गोति लोकियलोकुत्तरमग्गो. इति मग्गेनेव उपक्किलेसे नीहरित्वा मग्गस्स विसुद्धि वुत्ताति.

निद्दातन्दीसुत्तवण्णना निट्ठिता.