२. नन्दतिसुत्तवण्णना
१२. दुतिये नन्दतीति तुस्सति अत्तमनो होति. पुत्तिमाति बहुपुत्तो. तस्स हि एकच्चे पुत्ता कसिकम्मं कत्वा धञ्ञस्स कोट्ठे पूरेन्ति, एकच्चे वणिज्जं कत्वा हिरञ्ञसुवण्णं आहरन्ति, एकच्चे राजानं उपट्ठहित्वा यानवाहनगामनिगमादीनि लभन्ति. अथ तेसं आनुभावसङ्खातं सिरिं अनुभवमाना माता वा पिता वा नन्दति. छणदिवसादीसु वा मण्डितपसाधिते पुत्ते सम्पत्तिं अनुभवमाने दिस्वा नन्दतीति, ‘‘नन्दति पुत्तेहि पुत्तिमा’’ति आह. गोहि तथेवाति यथा पुत्तिमा पुत्तेहि, तथा गोसामिकोपि सम्पन्नं गोमण्डलं दिस्वा गावो निस्साय गोरससम्पत्तिं अनुभवमानो गोहि नन्दति. उपधी हि नरस्स नन्दनाति, एत्थ उपधीति चत्तारो उपधी – कामूपधि, खन्धूपधि, किलेसूपधि, अभिसङ्खारूपधीति. कामापि हि ‘‘यं पञ्च कामगुणे पटिच्च उप्पज्जति सुखं सोमनस्सं, अयं कामानं अस्सादो’’ति (म. नि. १.१६६) एवं वुत्तस्स सुखस्स अधिट्ठानभावतो ‘‘उपधियति एत्थ सुख’’न्ति इमिना वचनत्थेन उपधीति वुच्चति. खन्धापि खन्धमूलकस्स दुक्खस्स अधिट्ठानभावतो, किलेसापि अपायदुक्खस्स अधिट्ठानभावतो, अभिसङ्खारापि भवदुक्खस्स अधिट्ठानभावतोति. इध पन कामूपधि अधिप्पेतो. पञ्च हि कामगुणा तेभूमिकादिपासाद-उळारसयन-वत्थालङ्कार-नाटकपरिवारादिवसेन पच्चुपट्ठिता पीतिसोमनस्सं उपसंहरमाना नरं नन्दयन्ति. तस्मा यथा पुत्ता च गावो च, एवं इमेपि उपधी हि नरस्स नन्दनाति वेदितब्बा. न हि सो नन्दति यो निरूपधीति यो कामगुणसम्पत्तिरहितो दलिद्दो दुल्लभघासच्छादनो, न हि सो नन्दति. एवरूपो मनुस्सपेतो च मनुस्सनेरयिको च किं नन्दिस्सति भगवाति आह.
इदं सुत्वा सत्था चिन्तेसि – ‘‘अयं देवता सोकवत्थुमेव नन्दवत्थुं करोति, सोकवत्थुभावमस्सा दीपेस्सामी’’ति फलेन फलं पातेन्तो विय तायेव उपमाय तस्सा वादं भिन्दन्तो तमेव गाथं परिवत्तेत्वा सोचतीति आह. तत्थ सोचति पुत्तेहीति विदेसगमनादिवसेन पुत्तेसु नट्ठेसुपि नस्सन्तेसुपि इदानि नस्सिस्सन्तीति नाससङ्कीपि सोचति, तथा मतेसुपि मरन्तेसुपि चोरेहि राजपुरिसेहि गहितेसु वा पच्चत्थिकानं हत्थं उपगतेसु वा मरणसङ्कीपि हुत्वा सोचति. रुक्खपब्बतादीहि पतित्वा हत्थपादादीनं भेदवसेन भिन्नेसुपि भिज्जन्तेसुपि भेदसङ्कीपि हुत्वा सोचति. यथा च पुत्तेहि पुत्तिमा, गोसामिकोपि तथेव नवहाकारेहि गोहि सोचति. उपधी हि नरस्स सोचनाति यथा च पुत्तगावो, एवं पञ्च कामगुणोपधीपि –
‘‘तस्स चे कामयानस्स, छन्दजातस्स जन्तुनो;
ते कामा परिहायन्ति, सल्लविद्धोव रुप्पती’’ति. (सु. नि. ७७३) –
वुत्तनयेन नरं सोचन्ति. तस्मा नरस्स सोचना सोकवत्थुकमेवाति वेदितब्बा. न हि सो सोचति, यो निरूपधीति यस्स पन चतुब्बिधापेते उपधियो नत्थि, सो निरुपधि महाखीणासवो किं सोचिस्सति, न सोचति देवतेति.
नन्दतिसुत्तवण्णना निट्ठिता.