३. नत्थिपुत्तसमसुत्तवण्णना
१३. ततिये नत्थि पुत्तसमं पेमन्ति विरूपेपि हि अत्तनो पुत्तके सुवण्णबिम्बकं विय मञ्ञन्ति, मालागुळे विय सीसादीसु कत्वा परिहरमाना तेहि ओहदितापि ओमुत्तिकापि गन्धविलेपनपतिता विय सोमनस्सं आपज्जन्ति. तेनाह – ‘‘नत्थि पुत्तसमं पेम’’न्ति. पुत्तपेमसमं पेमं नाम नत्थीति वुत्तं होति. गोसमितं धनन्ति गोहि समं गोधनसमं गोधनसदिसं अञ्ञं धनं नाम नत्थि भगवाति आह. सूरियसमा आभाति सूरियाभाय समा अञ्ञा आभा नाम नत्थीति दस्सेति. समुद्दपरमाति ये केचि अञ्ञे सरा नाम, सब्बे ते समुद्दपरमा, समुद्दो तेसं उत्तमो, समुद्दसदिसं अञ्ञं उदकनिधानं नाम नत्थि, भगवाति.
यस्मा पन अत्तपेमेन समं पेमं नाम नत्थि. मातापितादयो हि छड्डेत्वापि पुत्तधीतादयो च अपोसेत्वापि सत्ता अत्तानमेव पोसेन्ति. धञ्ञेन च समं धनं नाम नत्थि. (यदा हि सत्ता दुब्भिक्खा होन्ति), तथारूपे हि काले हिरञ्ञसुवण्णादीनि गोमहिंसादीनिपि धञ्ञग्गहणत्थं धञ्ञसामिकानमेव सन्तिकं गहेत्वा गच्छन्ति. पञ्ञाय च समा आभा नाम नत्थि. सूरियादयो हि एकदेसंयेव ओभासन्ति, पच्चुप्पन्नमेव च तमं विनोदेन्ति. पञ्ञा पन दससहस्सिम्पि लोकधातुं एकप्पज्जोतं कातुं सक्कोति, अतीतंसादिपटिच्छादकञ्च तमं विधमति. मेघवुट्ठिया च समो सरो नाम नत्थि. नदीवापि होतु तलाकादीनि वा, वुट्ठिसमो सरो नाम नत्थि. मेघवुट्ठिया हि पच्छिन्नाय महासमुद्दो अङ्गुलिपब्बतेमनमत्तम्पि उदकं न होति, वुट्ठिया पन पवत्तमानाय याव आभस्सरभवनापि एकोदकं होति. तस्मा भगवा देवताय पटिगाथं वदन्तो नत्थि अत्तसमं पेमन्तिआदिमाहाति.
नत्थिपुत्तसमसुत्तवण्णना निट्ठिता.