४. नन्दकोवादसुत्तवण्णना
३९८. एवं मे सुतन्ति नन्दकोवादसुत्तं. तत्थ तेन खो पन समयेनाति भगवा महापजापतिया याचितो भिक्खुनिसङ्घं उय्योजेत्वा भिक्खुसङ्घं सन्निपातेत्वा – ‘‘थेरा भिक्खू वारेन भिक्खुनियो ओवदन्तू’’ति सङ्घस्स भारं अकासि. तं सन्धायेतं वुत्तं. तत्थ परियायेनाति वारेन. न इच्छतीति अत्तनो वारे सम्पत्ते दूरं गामं वा गन्त्वा सूचिकम्मादीनि वा आरभित्वा ‘‘अयं नामस्स पपञ्चो’’ति वदापेसि. इमं पन परियायेन ओवादं भगवा नन्दकत्थेरस्सेव कारणा अकासि. कस्मा? इमासञ्हि भिक्खुनीनं थेरं दिस्वा चित्तं एकग्गं होति पसीदति. तेन ता तस्स ओवादं सम्पटिच्छितुकामा, धम्मकथं सोतुकामा. तस्मा भगवा – ‘‘नन्दको अत्तनो वारे सम्पत्ते ओवादं दस्सति, धम्मकथं कथेस्सती’’ति वारेन ओवादं अकासि. थेरो पन अत्तनो वारं न करोति, कस्माति चे? ता किर भिक्खुनियो पुब्बे थेरस्स जम्बुदीपे रज्जं कारेन्तस्स ओरोधा अहेसुं. थेरो पुब्बेनिवासञाणेन तं कारणं ञत्वा चिन्तेसि – ‘‘मं इमस्स भिक्खुनिसङ्घस्स मज्झे निसिन्नं उपमायो च कारणानि च आहरित्वा धम्मं कथयमानं दिस्वा अञ्ञो पुब्बेनिवासञाणलाभी भिक्खु इमं कारणं ओलोकेत्वा ‘आयस्मा नन्दको यावज्जदिवसा ओरोधे न विस्सज्जेति, सोभतायमायस्मा ओरोधपरिवुतो’ति वत्तब्बं मञ्ञेय्या’’ति. एतमत्थं सम्पस्समानो थेरो अत्तनो वारं न करोति. इमासञ्च किर भिक्खुनीनं थेरस्सेव देसना सप्पाया भविस्सतीति ञत्वा अथ खो भगवा आयस्मन्तं नन्दकं आमन्तेसि.
तासं भिक्खुनीनं पुब्बे तस्स ओरोधभावजाननत्थं इदं वत्थुं – पुब्बे किर बाराणसियं पञ्च दाससतानि पञ्च दासिसतानि चाति जङ्घसहस्सं एकतोव कम्मं कत्वा एकस्मिं ठाने वसि. अयं नन्दकत्थेरो तस्मिं काले जेट्ठकदासो होति, गोतमी जेट्ठकदासी. सा जेट्ठकदासस्स पादपरिचारिका अहोसि पण्डिता ब्यत्ता. जङ्घसहस्सम्पि पुञ्ञकम्मं करोन्तं एकतो करोति. अथ वस्सूपनायिकसमये पञ्च पच्चेकबुद्धा नन्दमूलकपब्भारतो इसिपतने ओतरित्वा नगरे पिण्डाय चरित्वा इसिपतनमेव गन्त्वा – ‘‘वस्सूपनायिककुटिया अत्थाय हत्थकम्मं याचिस्सामा’’ति चीवरं पारुपित्वा सायन्हसमये नगरं पविसित्वा सेट्ठिस्स घरद्वारे अट्ठंसु. जेट्ठकदासी कुटं गहेत्वा उदकतित्थं गच्छन्ती पच्चेकबुद्धे नगरं पविसन्ते अद्दस. सेट्ठि तेसं आगतकारणं सुत्वा ‘‘अम्हाकं ओकासो नत्थि, गच्छन्तू’’ति आह.
अथ ते नगरा निक्खमन्ते जेट्ठकदासी कुटं गहेत्वा पविसन्ती दिस्वा कुटं ओतारेत्वा वन्दित्वा ओनमित्वा मुखं पिधाय – ‘‘अय्या नगरं पविट्ठमत्ताव निक्खन्ता, किं नु खो’’ति पुच्छि. वस्सूपनायिककुटिया हत्थकम्मं याचितुं आगमिम्हाति. लद्धं, भन्तेति. न लद्धं उपासिकेति? किं पनेसा कुटि इस्सरेहेव कातब्बा, दुग्गतेहिपि सक्का कातुन्ति. येन केनचि सक्काति? साधु, भन्ते, मयं करिस्साम. स्वे मय्हं भिक्खं गण्हथाति निमन्तेत्वा उदकं नेत्वा पुन कुटं गहेत्वा आगम्म तित्थमग्गे ठत्वा आगता अवसेसदासियो ‘‘एत्थेव होथा’’ति वत्वा सब्बासं आगतकाले आह – ‘‘अम्म किं निच्चमेव परस्स दासकम्मं करिस्सथ, उदाहु दासभावतो मुच्चितुं इच्छथा’’ति? अज्जेव मुच्चितुमिच्छाम अय्येति. यदि एवं मया पञ्च पच्चेकबुद्धा हत्थकम्मं अलभन्ता स्वातनाय निमन्तिता, तुम्हाकं सामिकेहि एकदिवसं हत्थकम्मं दापेथाति. ता साधूति सम्पटिच्छित्वा सायं अटवितो आगतकाले सामिकानं आरोचेसुं. ते साधूति जेट्ठकदासस्स गेहद्वारे सन्निपतिंसु.
अथ ने जेट्ठकदासी स्वे ताता पच्चेकबुद्धानं हत्थकम्मं देथाति आनिसंसं आचिक्खित्वा येपि न कातुकामा, ते गाळ्हेन ओवादेन तज्जेत्वा पटिच्छापेसि. सा पुनदिवसे पच्चेकबुद्धानं भत्तं दत्वा सब्बेसं दासपुत्तानं सञ्ञं अदासि. ते तावदेव अरञ्ञं पविसित्वा दब्बसम्भारे समोधानेत्वा सतं सतं हुत्वा एकेककुटिं एकेकचङ्कमनादिपरिवारं कत्वा मञ्चपीठपानीयपरिभोजनीयभाजनादीनि ठपेत्वा पच्चेकबुद्धे तेमासं तत्थ वसनत्थाय पटिञ्ञं कारेत्वा वारभिक्खं पट्ठपेसुं. यो अत्तनो वारदिवसे न सक्कोति. तस्स जेट्ठकदासी सकगेहतो आहरित्वा देति. एवं तेमासं जग्गित्वा जेट्ठकदासी एकेकं दासं एकेकं साटकं विस्सज्जापेसि. पञ्च थूलसाटकसतानि अहेसुं. तानि परिवत्तापेत्वा पञ्चन्नं पच्चेकबुद्धानं तिचीवरानि कत्वा अदासि. पच्चेकबुद्धा यथाफासुकं अगमंसु. तम्पि जङ्घसहस्सं एकतो कुसलं कत्वा कायस्स भेदा देवलोके निब्बत्ति. तानि पञ्च मातुगामसतानि कालेन कालं तेसं पञ्चन्नं पुरिससतानं गेहे होन्ति, कालेन कालं सब्बापि जेट्ठकदासपुत्तस्सेव गेहे होन्ति. अथ एकस्मिं काले जेट्ठकदासपुत्तो देवलोकतो चवित्वा राजकुले निब्बत्तो. तापि पञ्चसता देवकञ्ञा महाभोगकुलेसु निब्बत्तित्वा तस्स रज्जे ठितस्स गेहं अगमंसु. एतेन नियामेन संसरन्तियो अम्हाकं भगवतो काले कोलियनगरे देवदहनगरे च खत्तियकुलेसु निब्बत्ता.
नन्दकत्थेरोपि पब्बजित्वा अरहत्तं पत्तो, जेट्ठकदासिधीता वयं आगम्म सुद्धोदनमहाराजस्स अग्गमहेसिट्ठाने ठिता, इतरापि तेसं तेसं राजपुत्तानंयेव घरं गता. तासं सामिका पञ्चसता राजकुमारा उदकचुम्बटकलहे सत्थु धम्मदेसनं सुत्वा पब्बजिता, राजधीतरो तेसं उक्कण्ठनत्थं सासनं पेसेसुं. ते उक्कण्ठिते भगवा कुणालदहं नेत्वा सोतापत्तिफले पतिट्ठपेत्वा महासमयदिवसे अरहत्ते पतिट्ठापेसि. तापि पञ्चसता राजधीतरो निक्खमित्वा महापजापतिया सन्तिके पब्बजिंसु. अयमायस्मा नन्दको एत्ताव ता भिक्खुनियोति एवमेतं वत्थु दीपेतब्बं.
राजकारामोति पसेनदिना कारितो नगरस्स दक्खिणदिसाभागे थूपारामसदिसे ठाने विहारो.
३९९. सम्मप्पञ्ञाय सुदिट्ठन्ति हेतुना कारणेन विपस्सनापञ्ञाय याथावसरसतो दिट्ठं.
४०१. तज्जं तज्जन्ति तंसभावं तंसभावं, अत्थतो पन तं तं पच्चयं पटिच्च ता ता वेदना उप्पज्जन्तीति वुत्तं होति.
४०२. पगेवस्स छायाति मूलादीनि निस्साय निब्बत्ता छाया पठमतरंयेव अनिच्चा.
४१३. अनुपहच्चाति अनुपहनित्वा. तत्थ मंसं पिण्डं पिण्डं कत्वा चम्मं अल्लियापेन्तो मंसकायं उपहनति नाम. चम्मं बद्धं बद्धं कत्वा मंसे अल्लियापेन्तो मंसकायं उपहनति नाम. एवं अकत्वा. विलिमंसं न्हारुबन्धनन्ति सब्बचम्मे लग्गविलीपनमंसमेव. अन्तराकिलेससंयोजनबन्धनन्ति सब्बं अन्तरकिलेसमेव सन्धाय वुत्तं.
४१४. सत्त खो पनिमेति कस्मा आहाति? या हि एसा पञ्ञा किलेसे छिन्दतीति वुत्ता, सा न एकिकाव अत्तनो धम्मताय छिन्दितुं सक्कोति. यथा पन कुठारी न अत्तनो धम्मताय छेज्जं छिन्दति, पुरिसस्स तज्जं वायामं पटिच्चेव छिन्दति, एवं न विना छहि बोज्झङ्गेहि पञ्ञा किलेसे छिन्दितुं सक्कोति. तस्मा एवमाह. तेन हीति येन कारणेन तया छ अज्झत्तिकानि आयतनानि, छ बाहिरानि, छ विञ्ञाणकाये, दीपोपमं, रुक्खोपमं, गावूपमञ्च दस्सेत्वा सत्तहि बोज्झङ्गेहि आसवक्खयेन देसना निट्ठपिता, तेन कारणेन त्वं स्वेपि ता भिक्खुनियो तेनेव ओवादेन ओवदेय्यासीति.
४१५. सा सोतापन्नाति या सा गुणेहि सब्बपच्छिमिका, सा सोतापन्ना. सेसा पन सकदागामिअनागामिनियो च खीणासवा च. यदि एवं कथं परिपुण्णसङ्कप्पाति. अज्झासयपारिपूरिया. यस्सा हि भिक्खुनिया एवमहोसि – ‘‘कदा नु खो अहं अय्यस्स नन्दकस्स धम्मदेसनं सुणन्ती तस्मिंयेव आसने सोतापत्तिफलं सच्छिकरेय्य’’न्ति, सा सोतापत्तिफलं सच्छाकासि. यस्सा अहोसि ‘‘सकदागामिफलं अनागामिफलं अरहत्त’’न्ति, सा अरहत्तं सच्छाकासि. तेनाह भगवा ‘‘अत्तमना चेव परिपुण्णसङ्कप्पा चा’’ति.
पपञ्चसूदनिया मज्झिमनिकायट्ठकथाय
नन्दकोवादसुत्तवण्णना निट्ठिता.