३. पुण्णोवादसुत्तवण्णना
३९५. एवं मे सुतन्ति पुण्णोवादसुत्तं. तत्थ पटिसल्लानाति एकीभावा. तं चेति तं चक्खुञ्चेव रूपञ्च. नन्दीसमुदया दुक्खसमुदयोति नन्दिया तण्हाय समोधानेन पञ्चक्खन्धदुक्खस्स समोधानं होति. इति छसु द्वारेसु दुक्खं समुदयोति द्विन्नं सच्चानं वसेन वट्टं मत्थकं पापेत्वा दस्सेसि. दुतियनये निरोधो मग्गोति द्विन्नं सच्चानं वसेन विवट्टं मत्थकं पापेत्वा दस्सेसि. इमिना च त्वं पुण्णाति पाटियेक्को अनुसन्धि. एवं ताव वट्टविवट्टवसेन देसनं अरहत्ते पक्खिपित्वा इदानि पुण्णत्थेरं सत्तसु ठानेसु सीहनादं नदापेतुं इमिना च त्वन्तिआदिमाह.
३९६. चण्डाति दुट्ठा किब्बिसा. फरुसाति कक्खळा. अक्कोसिस्सन्तीति दसहि अक्कोसवत्थूहि अक्कोसिस्सन्ति. परिभासिस्सन्तीति किं समणो नाम त्वं, इदञ्च इदञ्च ते करिस्सामाति तज्जेस्सन्ति. एवमेत्थाति एवं मय्हं एत्थ भविस्सति.
दण्डेनाति चतुहत्थेन दण्डेन वा घटिकमुग्गरेन वा. सत्थेनाति एकतोधारादिना. सत्थहारकं परियेसन्तीति जीवितहारकं सत्थं परियेसन्ति. इदं थेरो ततियपाराजिकवत्थुस्मिं असुभकथं सुत्वा अत्तभावेन जिगुच्छन्तानं भिक्खूनं सत्थहारकपरियेसनं सन्धायाह. दमूपसमेनाति एत्थ दमोति इन्द्रियसंवरादीनं एतं नामं. ‘‘सच्चेन दन्तो दमसा उपेतो, वेदन्तगू वुसितब्रह्मचरियो’’ति (सं. नि. १.१९५; सु. नि. ४६७) एत्थ हि इन्द्रियसंवरो दमोति वुत्तो. ‘‘यदि सच्चा दमा चागा, खन्त्या भिय्योध विज्जती’’ति (सं. नि. १.२४६; सु. नि. १९१) एत्थ पञ्ञा दमोति वुत्तो. ‘‘दानेन दमेन संयमेन सच्चवज्जेना’’ति (दी. नि. १.१६६; म. नि. २.२२६) एत्थ उपोसथकम्मं दमोति वुत्तं. इमस्मिं पन सुत्ते खन्ति दमोति वेदितब्बा. उपसमोति तस्सेव वेवचनं.
३९७. अथ खो आयस्मा पुण्णोति को पनेस पुण्णो, कस्मा पनेत्थ गन्तुकामो अहोसीति. सुनापरन्तवासिको एव एसो, सावत्थियं पन असप्पायविहारं सल्लक्खेत्वा तत्थ गन्तुकामो अहोसि.
तत्रायं अनुपुब्बिकथा – सुनापरन्तरट्ठे किर एकस्मिं वाणिजकगामे एते द्वे भातरो. तेसु कदाचि जेट्ठो पञ्च सकटसतानि गहेत्वा जनपदं गन्त्वा भण्डं आहरति, कदाचि कनिट्ठो. इमस्मिं पन समये कनिट्ठं घरे ठपेत्वा जेट्ठभातिको पञ्च सकटसतानि गहेत्वा जनपदचारिकं चरन्तो अनुपुब्बेन सावत्थिं पत्वा जेतवनस्स नातिदूरे सकटसत्थं निवासेत्वा भुत्तपातरासो परिजनपरिवुतो फासुकट्ठाने निसीदि.
तेन च समयेन सावत्थिवासिनो भुत्तपातरासा उपोसथङ्गानि अधिट्ठाय सुद्धुत्तरासङ्गा गन्धपुप्फादिहत्था येन बुद्धो येन धम्मो येन सङ्घो, तन्निन्ना तप्पोणा तप्पाब्भारा हुत्वा दक्खिणद्वारेन निक्खमित्वा जेतवनं गच्छन्ति. सो ते दिस्वा ‘‘कहं इमे गच्छन्ति’’ति एकमनुस्सं पुच्छि. किं त्वं अय्यो न जानासि, लोके बुद्धधम्मसङ्घरतनानि नाम उप्पन्नानि, इच्चेस महाजनो सत्थु सन्तिके धम्मकथं सोतुं गच्छतीति. तस्स बुद्धोति वचनं छविचम्मादीनि छिन्दित्वा अट्ठिमिञ्जं आहच्च अट्ठासि. अथ अत्तनो परिजनपरिवुतो ताय परिसाय सद्धिं विहारं गन्त्वा सत्थु मधुरस्सरेन धम्मं देसेन्तस्स परिसपरियन्ते ठितो धम्मं सुत्वा पब्बज्जाय चित्तं उप्पादेसि. अथ तथागतेन कालं विदित्वा परिसाय उय्योजिताय सत्थारं उपसङ्कमित्वा वन्दित्वा स्वातनाय निमन्तेत्वा दुतियदिवसे मण्डपं कारेत्वा आसनानि पञ्ञपेत्वा बुद्धप्पमुखस्स सङ्घस्स महादानं दत्वा भुत्तपातरासो उपोसथङ्गानि अधिट्ठाय भण्डागारिकं पक्कोसापेत्वा, एत्तकं भण्डं विस्सज्जितं, एत्तकं न विस्सज्जितन्ति सब्बं आचिक्खित्वा – ‘‘इमं सापतेय्यं मय्हं कनिट्ठस्स देही’’ति सब्बं निय्यातेत्वा सत्थु सन्तिके पब्बजित्वा कम्मट्ठानपरायणो अहोसि.
अथस्स कम्मट्ठानं मनसिकरोन्तस्स कम्मट्ठानं न उपट्ठाति. ततो चिन्तेसि – ‘‘अयं जनपदो मय्हं असप्पायो, यंनूनाहं सत्थु सन्तिके कम्मट्ठानं गहेत्वा सकट्ठानमेव गच्छेय्य’’न्ति. अथ पुब्बण्हसमये पिण्डाय चरित्वा सायन्हसमये पटिसल्लाना वुट्ठहित्वा भगवन्तं उपसङ्कमित्वा कम्मट्ठानं कथापेत्वा सत्त सीहनादे नदित्वा पक्कामि. तेन वुत्तं – ‘‘अथ खो आयस्मा पुण्णो…पे… विहरती’’ति.
कत्थ पनायं विहासीति? चतूसु ठानेसु विहासि, सुनापरन्तरट्ठं ताव पविसित्वा अज्जुहत्थपब्बते नाम पविसित्वा वाणिजगामं पिण्डाय पाविसि. अथ नं कनिट्ठभाता सञ्जानित्वा भिक्खं दत्वा, ‘‘भन्ते, अञ्ञत्थ अगन्त्वा इधेव वसथा’’ति पटिञ्ञं कारेत्वा तत्थेव वसापेसि.
ततो समुद्दगिरिविहारं नाम अगमासि. तत्थ अयकन्तपासाणेहि परिच्छिन्दित्वा कतचङ्कमो अत्थि, तं कोचि चङ्कमितुं समत्थो नाम नत्थि. तत्थ समुद्दवीचियो आगन्त्वा अयकन्तपासाणेसु पहरित्वा महासद्दं करोन्ति. थेरोनं – ‘‘कम्मट्ठानं मनसिकरोन्तानं फासुविहारो होतू’’ति समुद्दं निस्सद्दं कत्वा अधिट्ठासि.
ततो मातुलगिरिं नाम अगमासि. तत्थ सकुणसङ्घो उस्सन्नो, रत्तिञ्च दिवा च सद्दो एकाबद्धोव होति, थेरो इमं ठानं अफासुकन्ति ततो मकुलकारामविहारं नाम गतो. सो वाणिजगामस्स नातिदूरो नच्चासन्नो गमनागमनसम्पन्नो विवित्तो अप्पसद्दो. थेरो इमं ठानं फासुकन्ति तत्थ रत्तिट्ठानदिवाट्ठानचङ्कमनादीनि कारेत्वा वस्सं उपगच्छि. एवं चतूसु ठानेसु विहासि.
अथेकदिवसं तस्मिंयेव अन्तोवस्से पञ्च वाणिजसतानि परसमुद्दं गच्छामाति नावाय भण्डं पक्खिपिंसु. नावारोहनदिवसे थेरस्स कनिट्ठभाता थेरं भोजेत्वा थेरस्स सन्तिके सिक्खापदानि गहेत्वा वन्दित्वा गच्छन्तो, – ‘‘भन्ते, महासमुद्दो नाम अप्पमेय्यो अनेकन्तरायो, अम्हे आवज्जेय्याथा’’ति वत्वा नावं आरुहि. नावा उत्तमजवेन गच्छमाना अञ्ञतरं दीपकं पापुणि. मनुस्सा पातरासं करिस्सामाति दीपके ओतिण्णा. तस्मिं दीपे अञ्ञं किञ्चि नत्थि, चन्दनवनमेव अहोसि.
अथेको वासिया रुक्खं आकोटेत्वा लोहितचन्दनभावं ञत्वा आह – ‘‘भो मयं लाभत्थाय परसमुद्दं गच्छाम, इतो च उत्तरि लाभो नाम नत्थि, चतुरङ्गुलमत्ता घटिका सतसहस्सं अग्घति, हारेतब्बकयुत्तं भण्डं हारेत्वा चन्दनस्स पूरेमा’’ति. ते तथा करिंसु. चन्दनवने अधिवत्था अमनुस्सा कुज्झित्वा – ‘‘इमेहि अम्हाकं चन्दनवनं नासितं, घातेस्साम ने’’ति चिन्तेत्वा – ‘‘इधेव घातितेसु सब्बं वनं एकं कुणपं भविस्सति, समुद्दमज्झे नेसं नावं ओसीदेस्सामा’’ति आहंसु. अथ तेसं नावं आरुय्ह मुहुत्तं गतकालेयेव उप्पादिकं उट्ठपेत्वा सयम्पि ते अमनुस्सा भयानकानि रूपानि दस्सयिंसु. भीता मनुस्सा अत्तनो अत्तनो देवता नमस्सन्ति. थेरस्स कनिट्ठो चूळपुण्णकुटुम्बिको – ‘‘मय्हं भाता अवस्सयो होतू’’ति थेरस्स नमस्समानो अट्ठासि.
थेरोपि किर तस्मिंयेव खणे आवज्जित्वा तेसं ब्यसनुप्पत्तिं ञत्वा वेहासं उप्पतित्वा सम्मुखे अट्ठासि. अमनुस्सा थेरं दिस्वा ‘‘अय्यो पुण्णत्थेरो एती’’ति पक्कमिंसु, उप्पादिकं सन्निसीदि. थेरो मा भायथाति ते अस्सासेत्वा ‘‘कहं गन्तुकामत्था’’ति पुच्छि. भन्ते, अम्हाकं सकट्ठानमेव गच्छामाति. थेरो नावं फले अक्कमित्वा ‘‘एतेसं इच्छितट्ठानं गच्छतू’’ति अधिट्ठासि. वाणिजा सकट्ठानं गन्त्वा तं पवत्तिं पुत्तदारस्स आरोचेत्वा ‘‘एथ थेरं सरणं गच्छामा’’ति पञ्चसता अत्तनो पञ्चमातुगामसतेहि सद्धिं तीसु सरणेसु पतिट्ठाय उपासकत्तं पटिवेदेसुं. ततो नावाय भण्डं ओतारेत्वा थेरस्स एकं कोट्ठासं कत्वा – ‘‘अयं, भन्ते, तुम्हाकं कोट्ठासो’’ति आहंसु. थेरो – ‘‘मय्हं विसुं कोट्ठासकिच्चं नत्थि, सत्था पन तुम्हेहि दिट्ठपुब्बो’’ति. न दिट्ठपुब्बो, भन्तेति. तेन हि इमिना सत्थु मण्डलमाळं करोथ, एवं सत्थारं पस्सिस्सथाति. ते साधु, भन्तेति तेन च कोट्ठासेन अत्तनो च कोट्ठासेहि मण्डलमाळं कातुं आरभिंसु.
सत्थापि किर आरद्धकालतो पट्ठाय परिभोगं अकासि. आरक्खमनुस्सा रत्तिं ओभासं दिस्वा ‘‘महेसक्खा देवता अत्थी’’ति सञ्ञं करिंसु. उपासका मण्डलमाळञ्च भिक्खुसङ्घस्स च सेनासनानि निट्ठपेत्वा दानसम्भारं सज्जेत्वा – ‘‘कतं, भन्ते, अम्हेहि अत्तनो किच्चं, सत्थारं पक्कोसथा’’ति थेरस्स आरोचेसुं. थेरो सायन्हसमये इद्धिया सावत्थिं पत्वा, ‘‘भन्ते, वाणिजगामवासिनो तुम्हे दट्ठुकामा, तेसं अनुकम्पं करोथा’’ति भगवन्तं याचि. भगवा अधिवासेसि. थेरो भगवतो अधिवासनं विदित्वा सकट्ठानमेव पच्चागतो.
भगवापि आनन्दथेरं आमन्तेसि, – ‘‘आनन्द, स्वे सुनापरन्ते वाणिजगामे पिण्डाय चरिस्साम, त्वं एकूनपञ्चसतानं भिक्खूनं सलाकं देही’’ति. थेरो साधु, भन्तेति भिक्खुसङ्घस्स तमत्थं आरोचेत्वा नभचारिका भिक्खू सलाकं गण्हन्तूति आह. तंदिवसं कुण्डधानत्थेरो पठमं सलाकं अग्गहेसि. वाणिजगामवासिनोपि ‘‘स्वे किर सत्था आगमिस्सती’’ति गाममज्झे मण्डपं कत्वा दानग्गं सज्जयिंसु. भगवा पातोव सरीरपटिजग्गनं कत्वा गन्धकुटिं पविसित्वा फलसमापत्तिं अप्पेत्वा निसीदि. सक्कस्स पण्डुकम्बलसिलासनं उण्हं अहोसि. सो किं इदन्ति आवज्जेत्वा सत्थु सुनापरन्तगमनं दिस्वा विस्सकम्मं आमन्तेसि – ‘‘तात अज्ज भगवा तिमत्तानि योजनसतानि पिण्डाचारं करिस्सति, पञ्च कूटागारसतानि मापेत्वा जेतवनद्वारकोट्ठमत्थके गमनसज्जानि कत्वा ठपेही’’ति. सो तथा अकासि. भगवतो कूटागारं चतुमुखं अहोसि, द्विन्नं अग्गसावकानं द्विमुखानि, सेसानि एकमुखानि. सत्था गन्धकुटितो निक्खम्म पटिपाटिया ठपितकूटागारेसु धुरकूटागारं पाविसि. द्वे अग्गसावके आदिं कत्वा एकूनपञ्चभिक्खुसतानिपि कूटागारं गन्त्वा निसिन्ना अहेसुं. एकं तुच्छकूटागारं अहोसि, पञ्चपि कूटागारसतानि आकासे उप्पतिंसु.
सत्था सच्चबन्धपब्बतं नाम पत्वा कूटागारं आकासे ठपेसि. तस्मिं पब्बते सच्चबन्धो नाम मिच्छादिट्ठिकतापसो महाजनं मिच्छादिट्ठिं उग्गण्हापेन्तो लाभग्गयसग्गप्पत्तो हुत्वा वसति. अब्भन्तरे चस्स अन्तोचाटियं पदीपो विय अरहत्तस्स उपनिस्सयो जलति. तं दिस्वा धम्ममस्स कथेस्सामीति गन्त्वा धम्मं देसेसि. तापसो देसनापरियोसाने अरहत्तं पापुणि, मग्गेनेवास्स अभिञ्ञा आगता. एहिभिक्खु हुत्वा इद्धिमयपत्तचीवरधरो हुत्वा कूटागारं पाविसि.
भगवा कूटागारगतेहि पञ्चहि भिक्खुसतेहि सद्धिं वाणिजगामं गन्त्वा कूटागारानि अदिस्समानानि कत्वा वाणिजगामं पाविसि. वाणिजा बुद्धप्पमुखस्स भिक्खुसङ्घस्स महादानं दत्वा सत्थारं मकुलकारामं नयिंसु. सत्था मण्डलमाळं पाविसि. महाजनो याव सत्था भत्तदरथं पटिपस्सम्भेति, ताव पातरासं कत्वा उपोसथङ्गानि समादाय बहुं गन्धञ्च पुप्फञ्च आदाय धम्मस्सवनत्थाय आरामं पच्चागमासि. सत्था धम्मं देसेसि. महाजनस्स बन्धनमोक्खो जातो, महन्तं बुद्धकोलाहलं अहोसि.
सत्था महाजनस्स सङ्गहत्थं कतिपाहं तत्थेव वसि, अरुणं पन महागन्धकुटियंयेव उट्ठपेसि. तत्थ कतिपाहं वसित्वा वाणिजगामे पिण्डाय चरित्वा ‘‘त्वं इधेव वसाही’’ति पुण्णत्थेरं निवत्तेत्वा अन्तरे नम्मदानदी नाम अत्थि, तस्सा तीरं अगमासि. नम्मदानागराजा सत्थु पच्चुग्गमनं कत्वा नागभवनं पवेसेत्वा तिण्णं रतनानं सक्कारं अकासि. सत्था तस्स धम्मं कथेत्वा नागभवना निक्खमि. सो – ‘‘मय्हं, भन्ते, परिचरितब्बं देथा’’ति याचि, भगवा नम्मदानदीतीरे पदचेतियं दस्सेसि. तं वीचीसु आगतासु पिधीयति, गतासु विवरीयति, महासक्कारप्पत्तं अहोसि. सत्था ततो निक्खम्म सच्चबन्धपब्बतं गन्त्वा सच्चबन्धं आह – ‘‘तया महाजनो अपायमग्गे ओतारितो, त्वं इधेव वसित्वा एतेसं लद्धिं विस्सज्जापेत्वा निब्बानमग्गे पतिट्ठापेही’’ति. सोपि परिचरितब्बं याचि. सत्था घनपिट्ठिपासाणे अल्लमत्तिकपिण्डम्हि लञ्छनं विय पदचेतियं दस्सेसि, ततो जेतवनमेव गतो. एतमत्थं सन्धाय तेनेवन्तरवस्सेनातिआदि वुत्तं.
परिनिब्बायीति अनुपादिसेसाय निब्बानधातुया परिनिब्बायि. महाजनो थेरस्स सत्त दिवसानि सरीरपूजं कत्वा बहूनि गन्धकट्ठानि समोधानेत्वा सरीरं झापेत्वा धातुयो आदाय चेतियं अकासि. सम्बहुला भिक्खूति थेरस्स आळाहने ठितभिक्खू. सेसं सब्बत्थ उत्तानमेवाति.
पपञ्चसूदनिया मज्झिमनिकायट्ठकथाय
पुण्णोवादसुत्तवण्णना निट्ठिता.