६. एसुकारीसुत्तवण्णना
४३७. एवं मे सुतन्ति एसुकारीसुत्तं. तत्थ बिलं ओलग्गेय्युन्ति कोट्ठासं लग्गापेय्युं, इमिना सत्थधम्मं नाम दस्सेति. सत्थवाहो किर महाकन्तारपटिपन्नो अन्तरामग्गे गोणे मते मंसं गहेत्वा सब्बेसं सत्थिकानं ‘‘इदं खादित्वा एत्तकं मूलं दातब्ब’’न्ति कोट्ठासं ओलग्गेति, गोणमंसं नाम खादन्तापि अत्थि अखादन्तापि, मूलं दातुं सक्कोन्तापि असक्कोन्तापि. सत्थवाहो येन मूलेन गोणो गहितो, तस्स निक्खमनत्थं सब्बेसं बलक्कारेन कोट्ठासं दत्वा मूलं गण्हाति, अयं सत्थधम्मो. एवमेवं ब्राह्मणापि लोकस्स पटिञ्ञं अग्गहेत्वा अत्तनोव धम्मताय चतस्सो पारिचरिया पञ्ञपेन्तीति दस्सेतुं एवमेव खोतिआदिमाह. पापियो अस्साति पापं अस्स. सेय्यो अस्साति हितं अस्स. अथ वा पापियोति पापको लामको अत्तभावो अस्स. सेय्योति सेट्ठो उत्तमो. सेय्यंसोति सेय्यो. उच्चाकुलीनताति उच्चाकुलीनत्तेन सेय्यो. पापियंसोति पापियो. उच्चाकुलीनता च द्वीसु कुलेसु वड्ढेति खत्तियकुले ब्राह्मणकुले च, उळारवण्णता तीसु. वेस्सोपि हि उळारवण्णो होति. उळारभोगता चतूसुपि. सुद्दोपि हि अन्तमसो चण्डालोपि उळारभोगो होतियेव.
४४०. भिक्खाचरियन्ति कोटिधनेनपि हि ब्राह्मणेन भिक्खा चरितब्बाव, पोराणकब्राह्मणा असीतिकोटिधनापि एकवेलं भिक्खं चरन्ति. कस्मा? दुग्गतकाले चरन्तानं इदानि भिक्खं चरितुं आरद्धाति गरहा न भविस्सतीति. अतिमञ्ञमानोति यो भिक्खाचरियवंसं हरित्वा सत्तजीवकसिकम्मवणिज्जादीहि जीविकं कप्पेति, अयं अतिमञ्ञति नाम. गोपो वाति यथा गोपको अत्तना रक्खितब्बं भण्डं थेनेन्तो अकिच्चकारी होति, एवन्ति अत्थो. इमिना नयेन सब्बवारेसु अत्थो वेदितब्बो. असितब्याभङ्गिन्ति तिणलायनअसितञ्चेव काजञ्च. अनुस्सरतोति यत्थ जातो, तस्मिं पोराणे मातापेत्तिके कुलवंसे अनुस्सरियमानेति अत्थो. सेसं सब्बत्थ उत्तानमेवाति.
पपञ्चसूदनिया मज्झिमनिकायट्ठकथाय
एसुकारीसुत्तवण्णना निट्ठिता.