७. धनञ्जानिसुत्तवण्णना
४४५. एवं मे सुतन्ति धनञ्जानिसुत्तं. तत्थ दक्खिणागिरिस्मिन्ति गिरीति पब्बतो, राजगहं परिक्खिपित्वा ठितपब्बतस्स दक्खिणदिसाभागे जनपदस्सेतं नामं. तण्डुलपालिद्वारायाति राजगहस्स किर द्वत्तिंसमहाद्वारानि चतुसट्ठिखुद्दकद्वारानि, तेसु एकं तण्डुलपालिद्वारं नाम, तं सन्धायेवमाह. राजानं निस्सायाति ‘‘गच्छ मनुस्से अपीळेत्वा सस्सभागं गण्हाही’’ति रञ्ञा पेसितो गन्त्वा सब्बमेव सस्सं गण्हाति, ‘‘मा नो, भन्ते, नासेही’’ति च वुत्ते – ‘‘राजकुले वुत्तं मन्दं, अहं रञ्ञा आगमनकालेयेव एवं आणत्तो, मा कन्दित्था’’ति एवं राजानं निस्साय ब्राह्मणगहपतिके विलुम्पति. धञ्ञं येभुय्येन अत्तनो घरं पवेसेत्वा अप्पकं राजकुले पवेसेति. किं ब्राह्मणगहपतिकानं न पीळं अकासीति च वुत्तो – ‘‘आम, महाराज, इमस्मिं वारे खेत्तानि मन्दसस्सानि अहेसुं, तस्मा अपीळेन्तस्स मे गण्हतो न बहुं जात’’न्ति एवं ब्राह्मणगहपतिके निस्साय राजानं विलुम्पति.
४४६. पयो पीयतन्ति तरुणखीरं पिवतु. ताव भत्तस्साति याव खीरं पिवित्वा निसीदिस्सथ, तावदेव भत्तस्स कालो भविस्सति. इधेव हि नो पातरासभत्तं आहरिस्सन्तीति दस्सेति. मातापितरोतिआदीसु महल्लका मातापितरो मुदुकानि अत्थरणपावुरणानि सुखुमानि वत्थानि मधुरभोजनं सुगन्धगन्धमालादीनि च परियेसित्वा पोसेतब्बा. पुत्तधीतानं नामकरणमङ्गलादीनि सब्बकिच्चानि करोन्तेन पुत्तदारो पोसेतब्बो. एवञ्हि अकरियमाने गरहा उप्पज्जतीति इमिना नयेन अत्थो वेदितब्बो.
४४७. अधम्मचारीति पञ्च दुस्सील्यकम्मानि वा दस दुस्सील्यकम्मानि वा इध अधम्मो नाम. उपकड्ढेय्युन्ति पञ्चविधबन्धनादिकम्मकरणत्थं तं तं निरयं कड्ढेय्युं.
४४८. धम्मचारीति धम्मिकसिवविज्जादिकम्मकारी. पटिक्कमन्तीति ओसरन्ति परिहायन्ति. अभिक्कमन्तीति अभिसरन्ति वड्ढन्ति. सेय्योति वरतरं. हीनेति निहीने लामके. कालङ्कतो च सारिपुत्ताति इदं भगवा ‘‘तत्रस्स गन्त्वा देसेही’’ति अधिप्पायेन थेरमाह. थेरोपि तंखणंयेव गन्त्वा महाब्रह्मुनो धम्मं देसेसि, ततो पट्ठाय चातुप्पदिकं गाथं कथेन्तोपि चतुसच्चविमुत्तं नाम न कथेसीति.
पपञ्चसूदनिया मज्झिमनिकायट्ठकथाय
धनञ्जानिसुत्तवण्णना निट्ठिता.