९. चूळसकुलुदायिसुत्तवण्णना
२७०. एवं मे सुतन्ति चूळसकुलुदायिसुत्तं. तत्थ यदा पन, भन्ते, भगवाति इदं परिब्बाजको धम्मकथं सोतुकामो भगवतो धम्मदेसनाय सालयभावं दस्सेन्तो आह.
२७१. तंयेवेत्थ पटिभातूति सचे धम्मं सोतुकामो, तुय्हेवेत्थ एको पञ्हो एकं कारणं उपट्ठातु. यथा मं पटिभासेय्याति येन कारणेन मम धम्मदेसना उपट्ठहेय्य, एतेन हि कारणेन कथाय समुट्ठिताय सुखं धम्मं देसेतुन्ति दीपेति. तस्स मय्हं, भन्तेति सो किर तं दिस्वा – ‘‘सचे भगवा इध अभविस्सा, अयमेतस्स भासितस्स अत्थोति दीपसहस्सं विय उज्जलापेत्वा अज्ज मे पाकटं अकरिस्सा’’ति दसबलंयेव अनुस्सरि. तस्मा तस्स मय्हं, भन्तेतिआदिमाह. तत्थ अहो नूनाति अनुस्सरणत्थे निपातद्वयं. तेन तस्स भगवन्तं अनुस्सरन्तस्स एतदहोसि ‘‘अहो नून भगवा अहो नून सुगतो’’ति. यो इमेसन्ति यो इमेसं धम्मानं. सुकुसलोति सुट्ठु कुसलो निपुणो छेको. सो भगवा अहो नून कथेय्य, सो सुगतो अहो नून कथेय्य, तस्स हि भगवतो पुब्बेनिवासञाणस्स अनेकानि कप्पकोटिसहस्सानि एकङ्गणानि पाकटानीति, अयमेत्थ अधिप्पायो.
तस्स वाहं पुब्बन्तं आरब्भाति यो हि लाभी होति, सो ‘‘पुब्बे त्वं खत्तियो अहोसि, ब्राह्मणो अहोसी’’ति वुत्ते जानन्तो सक्कच्चं सुस्सूसति. अलाभी पन – ‘‘एवं भविस्सति एवं भविस्सती’’ति सीसकम्पमेत्तमेव दस्सेति. तस्मा एवमाह – ‘‘तस्स वाहं पुब्बन्तं आरब्भ पञ्हस्स वेय्याकरणेन चित्तं आराधेय्य’’न्ति.
सो वा मं अपरन्तन्ति दिब्बचक्खुलाभिनो हि अनागतंसञाणं इज्झति, तस्मा एवमाह. इतरं पुब्बे वुत्तनयमेव.
धम्मं ते देसेस्सामीति अयं किर अतीते देसियमानेपि न बुज्झिस्सति, अनागते देसियमानेपि न बुज्झिस्सति. अथस्स भगवा सण्हसुखुमं पच्चयाकारं देसेतुकामो एवमाह. किं पन तं बुज्झिस्सतीति? एतं पगेव न बुज्झिस्सति, अनागते पनस्स वासनाय पच्चयो भविस्सतीति दिस्वा भगवा एवमाह.
पंसुपिसाचकन्ति असुचिट्ठाने निब्बत्तपिसाचं. सो हि एकं मूलं गहेत्वा अदिस्समानकायो होति. तत्रिदं वत्थु – एका किर यक्खिनी द्वे दारके थूपारामद्वारे निसीदापेत्वा आहारपरियेसनत्थं नगरं गता. दारका एकं पिण्डपातिकत्थेरं दिस्वा आहंसु, – ‘‘भन्ते, अम्हाकं माता अन्तो नगरं पविट्ठा, तस्सा वदेय्याथ ‘यं वा तं वा लद्धकं, गहेत्वा सीघं गच्छ, दारका ते जिघच्छितं सन्धारेतुं न सक्कोन्ती’’’ति. तमहं कथं पस्सिस्सामीति? इदं, भन्ते, गण्हथाति एकं मूलखण्डं अदंसु. थेरस्स अनेकानि यक्खसहस्सानि पञ्ञायिंसु, सो दारकेहि दिन्नसञ्ञाणेन तं यक्खिनिं अद्दस विरूपं बीभच्छं केवलं वीथियं गब्भमलं पच्चासीसमानं. दिस्वा तमत्थं कथेसि. कथं मं त्वं पस्ससीति वुत्ते मूलखण्डं दस्सेसि, सा अच्छिन्दित्वा गण्हि. एवं पंसुपिसाचका एकं मूलं गहेत्वा अदिस्समानकाया होन्ति. तं सन्धायेस ‘‘पंसुपिसाचकम्पि न पस्सामी’’ति आह. न पक्खायतीति न दिस्सति न उपट्ठाति.
२७२. दीघापि खो ते एसाति उदायि एसा तव वाचा दीघापि भवेय्य, एवं वदन्तस्स वस्ससतम्पि वस्ससहस्सम्पि पवत्तेय्य, न च अत्थं दीपेय्याति अधिप्पायो. अप्पाटिहीरकतन्ति अनिय्यानिकं अमूलकं निरत्थकं सम्पज्जतीति अत्थो.
इदानि तं वण्णं दस्सेन्तो सेय्यथापि, भन्तेतिआदिमाह. तत्थ पण्डुकम्बले निक्खित्तोति विसभागवण्णे रत्तकम्बले ठपितो. एवंवण्णो अत्ता होतीति इदं सो सुभकिण्हदेवलोके निब्बत्तक्खन्धे सन्धाय – ‘‘अम्हाकं मतकाले अत्ता सुभकिण्हदेवलोके खन्धा विय जोतेती’’ति वदति.
२७३. अयं इमेसं उभिन्नन्ति सो किर यस्मा मणिस्स बहि आभा न निच्छरति, खज्जोपनकस्स अङ्गुलद्वङ्गुलचतुरङ्गुलमत्तं निच्छरति, महाखज्जोपनकस्स पन खळमण्डलमत्तम्पि निच्छरतियेव, तस्मा एवमाह.
विद्धेति उब्बिद्धे, मेघविगमेन दूरीभूतेति अत्थो. विगतवलाहकेति अपगतमेघे. देवेति आकासे. ओसधितारकाति सुक्कतारका. सा हि यस्मा तस्सा उदयतो पट्ठाय तेन सञ्ञाणेन ओसधानि गण्हन्तिपि पिवन्तिपि, तस्मा ‘‘ओसधितारका’’ति वुच्चति. अभिदो अड्ढरत्तसमयन्ति अभिन्ने अड्ढरत्तसमये. इमिना गगनमज्झे ठितचन्दं दस्सेति. अभिदो मज्झन्हिकेपि एसेव नयो.
अतो खोति ये अनुभोन्ति, तेहि बहुतरा, बहू चेव बहुतरा चाति अत्थो. आभा नानुभोन्तीति ओभासं न वळञ्जन्ति, अत्तनो सरीरोभासेनेव आलोकं फरित्वा विहरन्ति.
२७४. इदानि यस्मा सो ‘‘एकन्तसुखं लोकं पुच्छिस्सामी’’ति निसिन्नो, पुच्छामूळ्हो पन जातो, तस्मा नं भगवा तं पुच्छं सरापेन्तो किं पन, उदायि, अत्थि एकन्तसुखो लोकोतिआदिमाह. तत्थ आकारवतीति कारणवती. अञ्ञतरं वा पन तपोगुणन्ति अचेलकपाळिं सन्धायाह, सुरापानविरतीति अत्थो.
२७५. कतमा पन सा, भन्ते, आकारवती पटिपदा एकन्तसुखस्साति कस्मा पुच्छति? एवं किरस्स अहोसि – ‘‘मयं सत्तानं एकन्तसुखं वदाम, पटिपदं पन कालेन सुखं कालेन दुक्खं वदाम. एकन्तसुखस्स खो पन अत्तनो पटिपदायपि एकन्तसुखाय भवितब्बं. अम्हाकं कथा अनिय्यानिका, सत्थु कथाव निय्यानिका’’ति. इदानि सत्थारंयेव पुच्छित्वा जानिस्सामीति तस्मा पुच्छति.
एत्थ मयं अनस्सामाति एतस्मिं कारणे मयं अनस्साम. कस्मा पन एवमाहंसु? ते किर पुब्बे पञ्चसु धम्मेसु पतिट्ठाय कसिणपरिकम्मं कत्वा ततियज्झानं निब्बत्तेत्वा अपरिहीनज्झाना कालं कत्वा सुभकिण्हेसु निब्बत्तन्तीति जानन्ति, गच्छन्ते गच्छन्ते पन काले कसिणपरिकम्मम्पि न जानिंसु, ततियज्झानम्पि निब्बत्तेतुं नासक्खिंसु. पञ्च पुब्बभागधम्मे पन ‘‘आकारवती पटिपदा’’ति उग्गहेत्वा ततियज्झानं ‘‘एकन्तसुखो लोको’’ति उग्गण्हिंसु. तस्मा एवमाहंसु. उत्तरितरन्ति इतो पञ्चहि धम्मेहि उत्तरितरं पटिपदं वा ततियज्झानतो उत्तरितरं एकन्तसुखं लोकं वा न जानामाति वुत्तं होति. अप्पसद्दे कत्वाति एकप्पहारेनेव महासद्दं कातुं आरद्धे निस्सद्दे कत्वा.
२७६. सच्छिकिरियाहेतूति एत्थ द्वे सच्छिकिरिया पटिलाभसच्छिकिरिया च पच्चक्खसच्छिकिरिया च. तत्थ ततियज्झानं निब्बत्तेत्वा अपरिहीनज्झानो कालं कत्वा सुभकिण्हलोके तेसं देवानं समानायुवण्णो हुत्वा निब्बत्तति, अयं पटिलाभसच्छिकिरिया नाम. चतुत्थज्झानं निब्बत्तेत्वा इद्धिविकुब्बनेन सुभकिण्हलोकं गन्त्वा तेहि देवेहि सद्धिं सन्तिट्ठति सल्लपति साकच्छं आपज्जति, अयं पच्चक्खसच्छिकिरिया नाम. तासं द्विन्नम्पि ततियज्झानं आकारवती पटिपदा नाम. तञ्हि अनुप्पादेत्वा नेव सक्का सुभकिण्हलोके निब्बत्तितुं, न चतुत्थज्झानं उप्पादेतुं. इति दुविधम्पेतं सच्छिकिरियं सन्धाय – ‘‘एतस्स नून, भन्ते, एकन्तसुखस्स लोकस्स सच्छिकिरियाहेतू’’ति आह.
२७७. उदञ्चनिकोति उदकवारको. अन्तरायमकासीति यथा पब्बज्जं न लभति, एवं उपद्दुतमकासि यथा तं उपनिस्सयविपन्नं. अयं किर कस्सपबुद्धकाले पब्बजित्वा समणधम्ममकासि. अथस्स एको सहायको भिक्खु सासने अनभिरतो, ‘‘आवुसो, विब्भमिस्सामी’’ति आरोचेसि. सो तस्स पत्तचीवरे लोभं उप्पादेत्वा गिहिभावाय वण्णं अभासि. इतरो तस्स पत्तचीवरं दत्वा विब्भमि. तेनस्स कम्मुना इदानि भगवतो सम्मुखा पब्बज्जाय अन्तरायो जातो. भगवता पनस्स पुरिमसुत्तं अतिरेकभाणवारमत्तं, इदं भाणवारमत्तन्ति एत्तकाय तन्तिया धम्मो कथितो, एकदेसनायपि मग्गफलपटिवेधो न जातो, अनागते पनस्स पच्चयो भविस्सतीति भगवा धम्मं देसेति. अनागते पच्चयभावञ्चस्स दिस्वा भगवा धरमानो एकं भिक्खुम्पि मेत्ताविहारिम्हि एतदग्गे न ठपेसि. पस्सति हि भगवा – ‘‘अनागते अयं मम सासने पब्बजित्वा मेत्ताविहारीनं अग्गो भविस्सती’’ति.
सो भगवति परिनिब्बुते धम्मासोकराजकाले पाटलिपुत्ते निब्बत्तित्वा पब्बजित्वा अरहत्तप्पत्तो अस्सगुत्तत्थेरो नाम हुत्वा मेत्ताविहारीनं अग्गो अहोसि. थेरस्स मेत्तानुभावेन तिरच्छानगतापि मेत्तचित्तं पटिलभिंसु, थेरो सकलजम्बुदीपे भिक्खुसङ्घस्स ओवादाचरियो हुत्वा वत्तनिसेनासने आवसि, तिंसयोजनमत्ता अटवी एकं पधानघरं अहोसि. थेरो आकासे चम्मखण्डं पत्थरित्वा तत्थ निसिन्नो कम्मट्ठानं कथेसि. गच्छन्ते गच्छन्ते काले भिक्खाचारम्पि अगन्त्वा विहारे निसिन्नो कम्मट्ठानं कथेसि, मनुस्सा विहारमेव गन्त्वा दानमदंसु. धम्मासोकराजा थेरस्स गुणं सुत्वा दट्ठुकामो तिक्खत्तुं पहिणि. थेरो भिक्खुसङ्घस्स ओवादं दम्मीति एकवारम्पि न गतोति.
पपञ्चसूदनिया मज्झिमनिकायट्ठकथाय
चूळसकुलुदायिसुत्तवण्णना निट्ठिता.