४. दीघनखसुत्तवण्णना
२०१. एवं मे सुतन्ति दीघनखसुत्तं. तत्थ सूकरखतायन्ति सूकरखताति एवंनामके लेणे. कस्सपबुद्धकाले किर तं लेणं एकस्मिं बुद्धन्तरे पथविया वड्ढमानाय अन्तोभूमिगतं जातं. अथेकदिवसं एको सूकरो तस्स छदनपरियन्तसमीपे पंसुं खणि. देवे वुट्टे पंसुधोतो छदनपरियन्तो पाकटो अहोसि. एको वनचरको दिस्वा – ‘‘पुब्बे सीलवन्तेहि परिभुत्तलेणेन भवितब्बं, पटिजग्गिस्सामि न’’न्ति समन्ततो पंसुं अपनेत्वा लेणं सोधेत्वा कुट्टपरिक्खेपं कत्वा द्वारवातपानं योजेत्वा सुपरिनिट्ठित-सुधाकम्मचित्तकम्मरजतपट्टसदिसाय वालुकाय सन्थतपरिवेणं लेणं कत्वा मञ्चपीठं पञ्ञापेत्वा भगवतो वसनत्थाय अदासि. लेणं गम्भीरं अहोसि ओतरित्वा अभिरुहितब्बं. तं सन्धायेतं वुत्तं.
दीघनखोति तस्स परिब्बाजकस्स नामं. उपसङ्कमीति कस्मा उपसङ्कमि? सो किर थेरे अड्ढमासपब्बजिते चिन्तेसि – ‘‘मय्हं मातुलो अञ्ञं पासण्डं गन्त्वा न चिरं तिट्ठति, इदानि पनस्स समणस्स गोतमस्स सन्तिकं गतस्स अड्ढमासो जातो. पवत्तिम्पिस्स न सुणामि, ओजवन्तं नु खो सासनं, जानिस्सामि न’’न्ति गन्तुकामो जातो. तस्मा उपसङ्कमि. एकमन्तं ठितोति तस्मिं किर समये थेरो भगवन्तं बीजयमानो ठितो होति, परिब्बाजको मातुले हिरोत्तप्पेन ठितकोव पञ्हं पुच्छि. तेन वुत्तं ‘‘एकमन्तं ठितो’’ति.
सब्बं मे नक्खमतीति सब्बा मे उपपत्तियो नक्खमन्ति, पटिसन्धियो नक्खमन्तीति अधिप्पायेन वदति. एत्तावतानेन ‘‘उच्छेदवादोहमस्मी’’ति दीपितं होति. भगवा पनस्स अधिप्पायं मुञ्चित्वा अक्खरे ताव दोसं दस्सेन्तो यापि खो तेतिआदिमाह. तत्थ एसापि ते दिट्ठि नक्खमतीति एसापि ते पठमं रुच्चित्वा खमापेत्वा गहितदिट्ठि नक्खमतीति. एसा चे मे, भो गोतम, दिट्ठि खमेय्याति मय्हञ्हि सब्बं नक्खमतीति दिट्ठि, तस्स मय्हं या एसा सब्बं मे नक्खमतीति दिट्ठि, एसा मे खमेय्य. यं तं ‘‘सब्बं मे नक्खमती’’ति वुत्तं, तम्पिस्स तादिसमेव. यथा सब्बगहणेन गहितापि अयं दिट्ठि खमति, एवमेवं तम्पि खमेय्य. एवं अत्तनो वादे आरोपितं दोसं ञत्वा तं परिहरामीति सञ्ञाय वदति, अत्थतो पनस्स ‘‘एसा दिट्ठि न मे खमती’’ति आपज्जति. यस्स पनेसा न खमति न रुच्चति, तस्सायं ताय दिट्ठिया सब्बं मे न खमतीति दिट्ठि रुचितं. तेन हि दिट्ठिअक्खमेन अरुचितेन भवितब्बन्ति सब्बं खमतीति रुच्चतीति आपज्जति. न पनेस तं सम्पटिच्छति, केवलं तस्सापि उच्छेददिट्ठिया उच्छेदमेव गण्हाति. तेनाह भगवा अतो खो ते, अग्गिवेस्सन,…पे… अञ्ञञ्च दिट्ठिं उपादियन्तीति. तत्थ अतोति पजहनकेसु निस्सक्कं, ये पजहन्ति, तेहि ये नप्पजहन्तीति वुच्चियन्ति, तेव बहुतराति अत्थो. बहू हि बहुतराति एत्थ हिकारो निपातमत्तं, बहू बहुतराति अत्थो. परतो तनू हि तनुतराति पदेपि एसेव नयो. ये एवमाहंसूति ये एवं वदन्ति. तञ्चेव दिट्ठिं नप्पजहन्ति, अञ्ञञ्च दिट्ठिं उपादियन्तीति मूलदस्सनं नप्पजहन्ति, अपरदस्सनं उपादियन्ति.
एत्थ च सस्सतं गहेत्वा तम्पि अप्पहाय उच्छेदं वा एकच्चसस्सतं वा गहेतुं न सक्का, उच्छेदम्पि गहेत्वा तं अप्पहाय सस्सतं वा एकच्चसस्सतं वा न सक्का गहेतुं, एकच्चसस्सतम्पि गहेत्वा तं अप्पहाय सस्सतं वा उच्छेदं वा न सक्का गहेतुं. मूलसस्सतं पन अप्पहाय अञ्ञं सस्सतमेव सक्का गहेतुं. कथं? एकस्मिञ्हि समये ‘‘रूपं सस्सत’’न्ति गहेत्वा अपरस्मिं समये ‘‘न सुद्धरूपमेव सस्सतं, वेदनापि सस्सता, विञ्ञाणम्पि सस्सत’’न्ति गण्हाति. उच्छेदेपि एकच्चसस्सतेपि एसेव नयो. यथा च खन्धेसु, एवं आयतनेसुपि योजेतब्बं. इदं सन्धाय वुत्तं – ‘‘तञ्चेव दिट्ठिं नप्पजहन्ति, अञ्ञञ्च दिट्ठिं उपादियन्ती’’ति.
दुतियवारे अतोति अप्पजहनकेसु निस्सक्कं, ये नप्पजहन्ति, तेहि, ये पजहन्तीति वुच्चियन्ति, तेव तनुतरा अप्पतराति अत्थो. तञ्चेव दिट्ठिं पजहन्ति, अञ्ञञ्च दिट्ठिं न उपादियन्तीति तञ्च मूलदस्सनं पजहन्ति, अञ्ञञ्च दस्सनं न गण्हन्ति. कथं? एकस्मिञ्हि समये ‘‘रूपं सस्सत’’न्ति गहेत्वा अपरस्मिं समये तत्थ आदीनवं दिस्वा ‘‘ओळारिकमेतं मय्हं दस्सन’’न्ति पजहति ‘‘न केवलञ्च रूपं सस्सतन्ति दस्सनमेव ओळारिकं, वेदनापि सस्सता…पे… विञ्ञाणम्पि सस्सतन्ति दस्सनं ओळारिकमेवा’’ति विस्सज्जेति. उच्छेदेपि एकच्चसस्सतेपि एसेव नयो. यथा च खन्धेसु, एवं आयतनेसुपि योजेतब्बं. एवं तञ्च मूलदस्सनं पजहन्ति, अञ्ञञ्च दस्सनं न गण्हन्ति.
सन्तग्गिवेस्सनाति कस्मा आरभि? अयं उच्छेदलद्धिको अत्तनो लद्धिं निगूहति, तस्सा पन लद्धिया वण्णे वुच्चमाने अत्तनो लद्धिं पातुकरिस्सतीति तिस्सो लद्धियो एकतो दस्सेत्वा विभजितुं इमं देसनं आरभि.
सारागाय सन्तिकेतिआदीसु रागवसेन वट्टे रज्जनस्स आसन्ना तण्हादिट्ठिसंयोजनेन वट्टसंयोजनस्स सन्तिके. अभिनन्दनायाति तण्हादिट्ठिवसेनेव गिलित्वा परियादियनस्स गहणस्स च आसन्नाति अत्थो. असारागाय सन्तिकेतिआदीसु वट्टे अरज्जनस्स आसन्नातिआदिना नयेन अत्थो वेदितब्बो.
एत्थ च सस्सतदस्सनं अप्पसावज्जं दन्धविरागं, उच्छेददस्सनं महासावज्जं खिप्पविरागं. कथं? सस्सतवादी हि इधलोकं परलोकञ्च अत्थीति जानाति, सुकतदुक्कटानं फलं अत्थीति जानाति, कुसलं करोति, अकुसलं करोन्तो भायति, वट्टं अस्सादेति, अभिनन्दति. बुद्धानं वा बुद्धसावकानं वा सम्मुखीभूतो सीघं लद्धिं जहितुं न सक्कोति. तस्मा तं सस्सतदस्सनं अप्पसावज्जं दन्धविरागन्ति वुच्चति. उच्छेदवादी पन इधलोकपरलोकं अत्थीति जानाति, सुकतदुक्कटानं फलं अत्थीति जानाति, कुसलं न करोति, अकुसलं करोन्तो न भायति, वट्टं न अस्सादेति, नाभिनन्दति, बुद्धानं वा बुद्धसावकानं वा सम्मुखीभावे सीघं दस्सनं पजहति. पारमियो पूरेतुं सक्कोन्तो बुद्धो हुत्वा, असक्कोन्तो अभिनीहारं कत्वा सावको हुत्वा परिनिब्बायति. तस्मा उच्छेददस्सनं महासावज्जं खिप्पविरागन्ति वुच्चति.
२०२. सो पन परिब्बाजको एतमत्थं असल्लक्खेत्वा – ‘‘मय्हं दस्सनं संवण्णेति पसंसति, अद्धा मे सुन्दरं दस्सन’’न्ति सल्लक्खेत्वा उक्कंसेति मे भवन्तिआदिमाह.
इदानि यस्मा अयं परिब्बाजको कञ्जियेनेव तित्तकालाबु, उच्छेददस्सनेनेव पूरितो, सो यथा कञ्जियं अप्पहाय न सक्का लाबुम्हि तेलफाणितादीनि पक्खिपितुं, पक्खित्तानिपि न गण्हाति, एवमेवं तं लद्धिं अप्पहाय अभब्बो मग्गफलानं लाभाय, तस्मा लद्धिं जहापनत्थं तत्रग्गिवेस्सनातिआदि आरद्धं. विग्गहोति कलहो. एवमेतासं दिट्ठीनं पहानं होतीति एवं विग्गहादिआदीनवं दिस्वा तासं दिट्ठीनं पहानं होति. सो हि परिब्बाजको ‘‘किं मे इमिना विग्गहादिना’’ति तं उच्छेददस्सनं पजहति.
२०५. अथस्स भगवा वमितकञ्जिये लाबुम्हि सप्पिफाणितादीनि पक्खिपन्तो विय हदये अमतोसधं पूरेस्सामीति विपस्सनं आचिक्खन्तो अयं खो पन, अग्गिवेस्सन, कायोतिआदिमाह. तस्सत्थो वम्मिकसुत्ते वुत्तो. अनिच्चतोतिआदीनिपि हेट्ठा वित्थारितानेव. यो कायस्मिं कायछन्दोति या कायस्मिं तण्हा. स्नेहोति तण्हास्नेहोव. कायन्वयताति कायानुगमनभावो, कायं अनुगच्छनककिलेसोति अत्थो.
एवं रूपकम्मट्ठानं दस्सेत्वा इदानि अरूपकम्मट्ठानं दस्सेन्तो तिस्सो खोतिआदिमाह. पुन तासंयेव वेदनानं असम्मिस्सभावं दस्सेन्तो यस्मिं, अग्गिवेस्सन, समयेतिआदिमाह. तत्रायं सङ्खेपत्थो – यस्मिं समये सुखादीसु एकं वेदनं वेदयति, तस्मिं समये अञ्ञा वेदना अत्तनो वारं वा ओकासं वा ओलोकयमाना निसिन्ना नाम नत्थि, अथ खो अनुप्पन्नाव होन्ति भिन्नउदकपुप्फुळा विय च अन्तरहिता वा. सुखापि खोतिआदि तासं वेदनानं चुण्णविचुण्णभावदस्सनत्थं वुत्तं.
न केनचि संवदतीति तस्सतं गहेत्वा ‘‘सस्सतवादी अह’’न्ति उच्छेदवादिनापि सद्धिं न संवदति, तमेव गहेत्वा ‘‘सस्सतवादी अह’’न्ति एकच्चसस्सतवादिना सद्धिं न विवदति. एवं तयोपि वादा परिवत्तेत्वा योजेतब्बा. यञ्च लोके वुत्तन्ति यं लोके कथितं वोहरितं, तेन वोहरति अपरामसन्तो किञ्चि धम्मं परामासग्गाहेन अग्गण्हन्तो. वुत्तम्पि चेतं –
‘‘यो होति भिक्खु अरहं कतावी,
खीणासवो अन्तिमदेहधारी;
अहं वदामीतिपि सो वदेय्य,
ममं वदन्तीतिपि सो वदेय्य;
लोके समञ्ञं कुसलो विदित्वा,
वोहारमत्तेन सो वोहरेय्या’’ति. (सं. नि. १.२५);
अपरम्पि वुत्तं – ‘‘इमा खो चित्त लोकसमञ्ञा लोकनिरुत्तियो लोकवोहारा लोकपञ्ञत्तियो, याहि तथागतो वोहरति अपरामस’’न्ति (दी. नि. १.४४०).
२०६. अभिञ्ञापहानमाहाति सस्सतादीसु तेसं तेसं धम्मानं सस्सतं अभिञ्ञाय जानित्वा सस्सतस्स पहानमाह, उच्छेदं, एकच्चसस्सतं अभिञ्ञाय एकच्चसस्सतस्स पहानं वदति. रूपं अभिञ्ञाय रूपस्स पहानं वदतीतिआदिना नयेनेत्थ अत्थो वेदितब्बो.
पटिसञ्चिक्खतोति पच्चवेक्खन्तस्स. अनुपादाय आसवेहि चित्तं विमुच्चीति अनुप्पादनिरोधेन निरुद्धेहि आसवेहि अग्गहेत्वाव चित्तं विमुच्चि. एत्तावता चेस परस्स वड्ढितं भत्तं भुञ्जित्वा खुदं विनोदेन्तो विय परस्स आरद्धाय धम्मदेसनाय ञाणं पेसेत्वा विपस्सनं वड्ढेत्वा अरहत्तञ्चेव पत्तो, सावकपारमीञाणस्स च मत्थकं, सोळस च पञ्ञा पटिविज्झित्वा ठितो. दीघनखो पन सोतापत्तिफलं पत्वा सरणेसु पतिट्ठितो.
भगवा पन इमं देसनं सूरिये धरमानेयेव निट्ठापेत्वा गिज्झकूटा ओरुय्ह वेळुवनं गन्त्वा सावकसन्निपातमकासि, चतुरङ्गसमन्नागतो सन्निपातो अहोसि. तत्रिमानि अङ्गानि – माघनक्खत्तेन युत्तो पुण्णमउपोसथदिवसो, केनचि अनामन्तितानि हुत्वा अत्तनोयेव धम्मताय सन्निपतितानि अड्ढतेलसानि भिक्खुसतानि, तेसु एकोपि पुथुज्जनो वा सोतापन्न-सकदागामि-अनागामि-सुक्खविपस्सक-अरहन्तेसु वा अञ्ञतरो नत्थि, सब्बे छळभिञ्ञाव, एकोपि चेत्थ सत्थकेन केसे छिन्दित्वा पब्बजितो नाम नत्थि, सब्बे एहिभिक्खुनोयेवाति.
पपञ्चसूदनिया मज्झिमनिकायट्ठकथाय
दीघनखसुत्तवण्णना निट्ठिता.