१. तेविज्जवच्छसुत्तवण्णना

१८५. एवं मे सुतन्ति तेविज्जवच्छसुत्तं. तत्थ एकपुण्डरीकेति पुण्डरीको वुच्चति सेतम्बरुक्खो, सो तस्मिं आरामे एको पुण्डरीको अत्थीति एकपुण्डरीको. एतदहोसीति तत्थ पविसितुकामताय अहोसि. चिरस्सं खो, भन्तेति पकतिया आगतपुब्बतं उपादाय. धम्मस्स चानुधम्मन्ति इध सब्बञ्ञुतञ्ञाणं धम्मो नाम, महाजनस्स ब्याकरणं अनुधम्मो नाम. सेसं जीवकसुत्ते (म. नि. २.५१ आदयो) वुत्तनयमेव. न मे तेति अननुञ्ञाय ठत्वा अनुञ्ञम्पि पटिक्खिपति. ‘‘सब्बञ्ञू सब्बदस्सावी अपरिसेसं ञाणदस्सनं पटिजानाती’’ति हि इदं अनुजानितब्बं सिया, – ‘‘चरतो च मे…पे… पच्चुपट्ठित’’न्ति इदं पन नानुजानितब्बं. सब्बञ्ञुतञ्ञाणेन हि आवज्जित्वा पजानाति. तस्मा अननुञ्ञाय ठत्वा अनुञ्ञम्पि पटिक्खिपन्तो एवमाह.

१८६. आसवानं खयाति एत्थ सकिं खीणानं आसवानं पुन खेपेतब्बाभावा यावदेवाति न वुत्तं. पुब्बेनिवासञाणेन चेत्थ भगवा अतीतजाननगुणं दस्सेति, दिब्बचक्खुञाणेन पच्चुप्पन्नजाननगुणं, आसवक्खयञाणेन लोकुत्तरगुणन्ति. इति इमाहि तीहि विज्जाहि सकलबुद्धगुणे संखिपित्वा कथेसि.

गिहिसंयोजनन्ति गिहिबन्धनं गिहिपरिक्खारेसु निकन्तिं. नत्थि खो वच्छाति गिहिसंयोजनं अप्पहाय दुक्खस्सन्तकरो नाम नत्थि. येपि हि सन्ततिमहामत्तो उग्गसेनो सेट्ठिपुत्तो वीतसोकदारकोति गिहिलिङ्गे ठिताव अरहत्तं पत्ता, तेपि मग्गेन सब्बसङ्खारेसु निकन्तिं सुक्खापेत्वा पत्ता. तं पत्वा पन न तेन लिङ्गेन अट्ठंसु, गिहिलिङ्गं नामेतं हीनं, उत्तमगुणं धारेतुं न सक्कोति. तस्मा तत्थ ठितो अरहत्तं पत्वा तंदिवसमेव पब्बजति वा परिनिब्बाति वा. भूमदेवता पन तिट्ठन्ति. कस्मा? निलीयनोकासस्स अत्थिताय. सेसकामभवे मनुस्सेसु सोतापन्नादयो तयो तिट्ठन्ति, कामावचरदेवेसु सोतापन्ना सकदागामिनो च, अनागामिखीणासवा पनेत्थ न तिट्ठन्ति. कस्मा? तञ्हि ठानं लळितजनस्स आवासो, नत्थि तत्थ तेसं पविवेकारहं पटिच्छन्नट्ठानञ्च. इति तत्थ खीणासवो परिनिब्बाति, अनागामी चवित्वा सुद्धावासे निब्बत्तति. कामावचरदेवतो उपरि पन चत्तारोपि अरिया तिट्ठन्ति.

सोपासि कम्मवादीति सोपि कम्मवादी अहोसि, किरियम्पि न पटिबाहित्थ. तञ्हि एकनवुतिकप्पमत्थके अत्तानंयेव गहेत्वा कथेति. तदा किर महासत्तो पासण्डपरिग्गण्हनत्थं पब्बजितो तस्सपि पासण्डस्स निप्फलभावं जानित्वा वीरियं न हापेसि, किरियवादी हुत्वा सग्गे निब्बत्तति. तस्मा एवमाह. सेसं सब्बत्थ उत्तानमेवाति.

पपञ्चसूदनिया मज्झिमनिकायट्ठकथाय

तेविज्जवच्छसुत्तवण्णना निट्ठिता.