२. महाराहुलोवादसुत्तवण्णना

११३. एवं मे सुतन्ति महाराहुलोवादसुत्तं. तत्थ पिट्ठितो पिट्ठितो अनुबन्धीति दस्सनं अविजहित्वा गमनं अब्बोच्छिन्नं कत्वा पच्छतो पच्छतो इरियापथानुबन्धनेन अनुबन्धि. तदा हि भगवा पदे पदं निक्खिपन्तो विलासितगमनेन पुरतो पुरतो गच्छति, राहुलत्थेरो दसबलस्स पदानुपदिको हुत्वा पच्छतो पच्छतो.

तत्थ भगवा सुपुप्फितसालवनमज्झगतो सुभूमिओतरणत्थाय निक्खन्तमत्तवरवारणो विय विरोचित्थ, राहुलभद्दो च वरवारणस्स पच्छतो निक्खन्तगजपोतको विय. भगवा सायन्हसमये मणिगुहतो निक्खमित्वा गोचरं पटिपन्नो केसरसीहो विय, राहुलभद्दो च सीहमिगराजानं अनुबन्धन्तो निक्खन्तसीहपोतको विय. भगवा मणिपब्बतसस्सिरिकवनसण्डतो दाठबलो महाब्यग्घो विय, राहुलभद्दो च ब्यग्घराजानं अनुबन्धब्यग्घपोतको विय. भगवा सिम्बलिदायतो निक्खन्तसुपण्णराजा विय, राहुलभद्दो च सुपण्णराजस्स पच्छतो निक्खन्तसुपण्णपोतको विय. भगवा चित्तकूटपब्बततो गगनतलं पक्खन्दसुवण्णहंसराजा विय, राहुलभद्दो च हंसाधिपतिं अनुपक्खन्दहंसपोतको विय. भगवा महासरं अज्झोगाळ्हा सुवण्णमहानावा विय, राहुलभद्दो च सुवण्णनावं पच्छा अनुबन्धनावापोतको विय. भगवा चक्करतनानुभावेन गगनतले सम्पयातचक्कवत्तिराजा विय, राहुलभद्दो च राजानं अनुसम्पयातपरिणायकरतनं विय. भगवा विगतवलाहकं नभं पटिपन्नतारकराजा विय, राहुलभद्दो च तारकाधिपतिनो अनुमग्गपटिपन्ना परिसुद्धओसधितारका विय.

भगवापि महासम्मतपवेणियं ओक्काकराजवंसे जातो, राहुलभद्दोपि. भगवापि सङ्खे पक्खित्तखीरसदिसो सुपरिसुद्धजातिखत्तियकुले जातो, राहुलभद्दोपि. भगवापि रज्जं पहाय पब्बजितो, राहुलभद्दोपि. भगवतोपि सरीरं द्वत्तिंसमहापुरिसलक्खणपटिमण्डितं देवनगरेसु समुस्सितरतनतोरणं विय सब्बपालिफुल्लो पारिच्छत्तको विय च अतिमनोहरणं, राहुलभद्दस्सापि. इति द्वेपि अभिनीहारसम्पन्ना, द्वेपि राजपब्बजिता, द्वेपि खत्तियसुखुमाला, द्वेपि सुवण्णवण्णा, द्वेपि लक्खणसम्पन्ना एकमग्गं पटिपन्ना पटिपाटिया गच्छन्तानं द्विन्नं चन्दमण्डलानं द्विन्नं सूरियमण्डलानं द्विन्नं सक्कसुयामसन्तुसितसुनिम्मितवसवत्तिमहाब्रह्मादीनं सिरिया सिरिं अभिभवमाना विय विरोचिंसु.

तत्रायस्मा राहुलो भगवतो पिट्ठितो पिट्ठितो गच्छन्तोव पादतलतो याव उपरि केसन्ता तथागतं आलोकेसि. सो भगवतो बुद्धवेसविलासं दिस्वा ‘‘सोभति भगवा द्वत्तिंसमहापुरिसलक्खणविचित्तसरीरो ब्यामप्पभापरिक्खित्तताय विप्पकिण्णसुवण्णचुण्णमज्झगतो विय, विज्जुलतापरिक्खित्तो कनकपब्बतो विय, यन्तसुत्तसमाकड्ढितरतनविचित्तं सुवण्णअग्घिकं विय, रत्तपंसुकूलचीवरपटिच्छन्नोपि रत्तकम्बलपरिक्खित्तकनकपब्बतो विय, पवाळलतापटिमण्डितं सुवण्णअग्घिकं विय, चीनपिट्ठचुण्णपूजितं सुवण्णचेतियं विय, लाखारसानुलित्तो कनकयूपो विय, रत्तवलाहकन्तरतो तङ्खणब्भुग्गतपुण्णचन्दो विय, अहो समतिंसपारमितानुभावसज्जितस्स अत्तभावस्स सिरीसम्पत्ती’’ति चिन्तेसि. ततो अत्तानम्पि ओलोकेत्वा – ‘‘अहम्पि सोभामि. सचे भगवा चतूसु महादीपेसु चक्कवत्तिरज्जं अकरिस्सा, मय्हं परिणायकट्ठानन्तरं अदस्सा. एवं सन्ते अतिविय जम्बुदीपतलं असोभिस्सा’’ति अत्तभावं निस्साय गेहस्सितं छन्दरागं उप्पादेसि.

भगवापि पुरतो गच्छन्तोव चिन्तेसि – ‘‘परिपुण्णच्छविमंसलोहितो दानि राहुलस्स अत्तभावो. रजनीयेसु रूपारम्मणादीसु हि चित्तस्स पक्खन्दनकालो जातो, किं बहुलताय नु खो राहुलो वीतिनामेती’’ति. अथ सहावज्जनेनेव पसन्नउदके मच्छं विय, परिसुद्धे आदासमण्डले मुखनिमित्तं विय च तस्स तं चित्तुप्पादं अद्दस. दिस्वाव – ‘‘अयं राहुलो मय्हं अत्रजो हुत्वा मम पच्छतो आगच्छन्तो ‘अहं सोभामि, मय्हं वण्णायतनं पसन्न’न्ति अत्तभावं निस्साय गेहस्सितछन्दरागं उप्पादेति, अतित्थे पक्खन्दो उप्पथं पटिपन्नो अगोचरे चरति, दिसामूळ्हअद्धिको विय अगन्तब्बं दिसं गच्छति. अयं खो पनस्स किलेसो अब्भन्तरे वड्ढन्तो अत्तत्थम्पि यथाभूतं पस्सितुं न दस्सति, परत्थम्पि, उभयत्थम्पि. ततो निरयेपि पटिसन्धिं गण्हापेस्सति, तिरच्छानयोनियम्पि, पेत्तिविसयेपि, असुरकायेपि, सम्बाधेपि मातुकुच्छिस्मिन्ति अनमतग्गे संसारवट्टे परिपातेस्सति. अयञ्हि –

अनत्थजननो लोभो, लोभो चित्तप्पकोपनो;

भयमन्तरतो जातं, तं जनो नावबुज्झति.

लुद्धो अत्थं न जानाति, लुद्धो धम्मं न पस्सति;

अन्धतमं तदा होति, यं लोभो सहते नरं. (इतिवु. ८८) –

यथा खो पन अनेकरतनपूरा महानावा भिन्नफलकन्तरेन उदकं आदियमाना मुहुत्तम्पि न अज्झुपेक्खितब्बा होति, वेगेनस्सा विवरं पिदहितुं वट्टति, एवमेवं अयम्पि न अज्झुपेक्खितब्बो. यावस्स अयं किलेसो अब्भन्तरे सीलरतनादीनि न विनासेति, तावदेव नं निग्गण्हिस्सामी’’ति अज्झासयमकासि. एवरूपेसु पन ठानेसु बुद्धानं नागविलोकनं नाम होति. तस्मा यन्तेन परिवत्तितसुवण्णपटिमा विय सकलकायेनेव परिवत्तेत्वा ठितो राहुलभद्दं आमन्तेसि. तं सन्धाय ‘‘अथ खो भगवा अपलोकेत्वा’’तिआदि वुत्तं.

तत्थ यंकिञ्चि रूपन्तिआदीनि सब्बाकारेन विसुद्धिमग्गे खन्धनिद्देसे वित्थारितानि. नेतं ममातिआदीनि महाहत्थिपदोपमे वुत्तानि. रूपमेव नु खो भगवाति कस्मा पुच्छति? तस्स किर – ‘‘सब्बं रूपं नेतं मम, नेसोहमस्मि न मेसो अत्ता’’ति सुत्वा – ‘‘भगवा सब्बं रूपं विपस्सनापञ्ञाय एवं दट्ठब्बन्ति वदति, वेदनादीसु नु खो कथं पटिपज्जितब्ब’’न्ति नयो उदपादि. तस्मा तस्मिं नये ठितो पुच्छति. नयकुसलो हेस आयस्मा राहुलो, इदं न कत्तब्बन्ति वुत्ते इदम्पि न कत्तब्बं इदम्पि न कत्तब्बमेवाति नयसतेनपि नयसहस्सेनपि पटिविज्झति. इदं कत्तब्बन्ति वुत्तेपि एसेव नयो.

सिक्खाकामो हि अयं आयस्मा, पातोव गन्धकुटिपरिवेणे पत्थमत्तं वालिकं ओकिरति – ‘‘अज्ज सम्मासम्बुद्धस्स सन्तिका मय्हं उपज्झायस्स सन्तिका एत्तकं ओवादं एत्तकं परिभासं लभामी’’ति. सम्मासम्बुद्धोपि नं एतदग्गे ठपेन्तो – ‘‘एतदग्गं, भिक्खवे, मम सावकानं भिक्खूनं सिक्खाकामानं यदिदं राहुलो’’ति (अ. नि. १.२०९) सिक्खायमेव अग्गं कत्वा ठपेसि. सोपि आयस्मा भिक्खुसङ्घमज्झे तमेव सीहनादं नदि –

‘‘सब्बमेतं अभिञ्ञाय, धम्मराजा पिता मम;

सम्मुखा भिक्खुसङ्घस्स, एतदग्गे ठपेसि मं.

सिक्खाकामानहं अग्गो, धम्मराजेन थोमितो;

सद्धापब्बजितानञ्च, सहायो पवरो मम.

धम्मराजा पिता मय्हं, धम्मारक्खो च पेत्तियो;

सारिपुत्तो उपज्झायो, सब्बं मे जिनसासन’’न्ति.

अथस्स भगवा यस्मा न केवलं रूपमेव, वेदनादयोपि एवं दट्ठब्बा, तस्मा रूपम्पि राहुलातिआदिमाह. को नज्जाति को नु अज्ज. थेरस्स किर एतदहोसि ‘‘सम्मासम्बुद्धो मय्हं अत्तभावनिस्सितं छन्दरागं ञत्वा ‘समणेन नाम एवरूपो वितक्को न वितक्कितब्बो’ति नेव परियायेन कथं कथेसि, गच्छ भिक्खु राहुलं वदेहि ‘मा पुन एवरूपं वितक्कं वितक्केसी’ति न दूतं पेसेसि. मं सम्मुक्खे ठत्वायेव पन सभण्डकं चोरं चूळाय गण्हन्तो विय सम्मुखा सुगतोवादं अदासि. सुगतोवादो च नाम असङ्खेय्येहिपि कप्पेहि दुल्लभो. एवरूपस्स बुद्धस्स सम्मुखा ओवादं लभित्वा को नु विञ्ञू पण्डितजातिको अज्ज गामं पिण्डाय पविसिस्सती’’ति. अथेस आयस्मा आहारकिच्चं पहाय यस्मिं निसिन्नट्ठाने ठितेन ओवादो लद्धो, ततोव पटिनिवत्तेत्वा अञ्ञतरस्मिं रुक्खमूले निसीदि. भगवापि तं आयस्मन्तं निवत्तमानं दिस्वा न एवमाह – ‘‘मा निवत्त ताव, राहुल, भिक्खाचारकालो ते’’ति. कस्मा? एवं किरस्स अहोसि – ‘‘अज्ज ताव कायगतासतिअमतभोजनं भुञ्जतू’’ति.

अद्दसा खो आयस्मा सारिपुत्तोति भगवति गते पच्छा गच्छन्तो अद्दस. एतस्स किरायस्मतो एककस्स विहरतो अञ्ञं वत्तं, भगवता सद्धिं विहरतो अञ्ञं. यदा हि द्वे अग्गसावका एकाकिनो वसन्ति, तदा पातोव सेनासनं सम्मज्जित्वा सरीरपटिजग्गनं कत्वा समापत्तिं अप्पेत्वा सन्निसिन्ना अत्तनो चित्तरुचिया भिक्खाचारं गच्छन्ति. भगवता सद्धिं विहरन्ता पन थेरा एवं न करोन्ति. तदा हि भगवा भिक्खुसङ्घपरिवारो पठमं भिक्खाचारं गच्छति. तस्मिं गते थेरो अत्तनो सेनासना निक्खमित्वा – ‘‘बहूनं वसनट्ठाने नाम सब्बेव पासादिकं कातुं सक्कोन्ति वा, न वा सक्कोन्ती’’ति तत्थ तत्थ गन्त्वा असम्मट्ठं ठानं सम्मज्जति. सचे कचवरो अछड्डितो होति, तं छड्डेति. पानीयट्ठपेतब्बट्ठानम्हि पानीयकूटे असति पानीयघटं ठपेति. गिलानानं सन्तिकं गन्त्वा, ‘‘आवुसो, तुम्हाकं किं आहरामि, किं वो इच्छितब्ब’’न्ति? पुच्छति. अवस्सिकदहरानं सन्तिकं गन्त्वा – ‘‘अभिरमथ, आवुसो, मा उक्कण्ठित्थ, पटिपत्तिसारकं बुद्धसासन’’न्ति ओवदति. एवं कत्वा सब्बपच्छा भिक्खाचारं गच्छति. यथा हि चक्कवत्ति कुहिञ्चि गन्तुकामो सेनाय परिवारितो पठमं निक्खमति, परिणायकरतनं सेनङ्गानि संविधाय पच्छा निक्खमति, एवं सद्धम्मचक्कवत्ति भगवा भिक्खुसङ्घपरिवारो पठमं निक्खमति, तस्स भगवतो परिणायकरतनभूतो धम्मसेनापति इमं किच्चं कत्वा सब्बपच्छा निक्खमति. सो एवं निक्खन्तो तस्मिं दिवसे अञ्ञतरस्मिं रुक्खमूले निसिन्नं राहुलभद्दं अद्दस. तेन वुत्तं ‘‘पच्छा गच्छन्तो अद्दसा’’ति.

अथ कस्मा आनापानस्सतियं नियोजेसि? निसज्जानुच्छविकत्ता. थेरो किर ‘‘एतस्स भगवता रूपकम्मट्ठानं कथित’’न्ति अनावज्जित्वाव येनाकारेन अयं अचलो अनोबद्धो हुत्वा निसिन्नो, इदमस्स एतिस्सा निसज्जाय कम्मट्ठानं अनुच्छविकन्ति चिन्तेत्वा एवमाह. तत्थ आनापानस्सतिन्ति अस्सासपस्सासे परिग्गहेत्वा तत्थ चतुक्कपञ्चकज्झानं निब्बत्तेत्वा विपस्सनं वड्ढेत्वा अरहत्तं गण्हाहीति दस्सेति.

महप्फला होतीति कीवमहप्फला होति? इध भिक्खु आनापानस्सतिं अनुयुत्तो एकासने निसिन्नोव सब्बासवे खेपेत्वा अरहत्तं पापुणाति, तथा असक्कोन्तो मरणकाले समसीसी होति, तथा असक्कोन्तो देवलोके निब्बत्तित्वा धम्मकथिकदेवपुत्तस्स धम्मं सुत्वा अरहत्तं पापुणाति, ततो विरद्धो अनुप्पन्ने बुद्धुप्पादे पच्चेकबोधिं सच्छिकरोति, तं असच्छिकरोन्तो बुद्धानं सम्मुखीभावे बाहियत्थेरादयो विय खिप्पाभिञ्ञो होति, एवं महप्फला. महानिसंसाति तस्सेव वेवचनं. वुत्तम्पि चेतं –

‘‘आनापानस्सती यस्स, परिपुण्णा सुभाविता;

अनुपुब्बं परिचिता, यथा बुद्धेन देसिता;

सोमं लोकं पभासेति, अब्भा मुत्तोव चन्दिमा’’ति. (थेरगा. ५४८; पटि. म. १.१.६०) –

इमं महप्फलतं सम्पस्समानो थेरो सद्धिविहारिकं तत्थ नियोजेति.

इति भगवा रूपकम्मट्ठानं, थेरो आनापानस्सतिन्ति उभोपि कम्मट्ठानं आचिक्खित्वा गता, राहुलभद्दो विहारेयेव ओहीनो. भगवा तस्स ओहीनभावं जानन्तोपि नेव अत्तना खादनीयं भोजनीयं गहेत्वा अगमासि, न आनन्दत्थेरस्स हत्थे पेसेसि, न पसेनदिमहाराजअनाथपिण्डिकादीनं सञ्ञं अदासि. सञ्ञामत्तकञ्हि लभित्वा ते काजभत्तं अभिहरेय्युं. यथा च भगवा, एवं सारिपुत्तत्थेरोपि न किञ्चि अकासि. राहुलत्थेरो निराहारो छिन्नभत्तो अहोसि. तस्स पनायस्मतो – ‘‘भगवा मं विहारे ओहीनं जानन्तोपि अत्तना लद्धपिण्डपातं नापि सयं गहेत्वा आगतो, न अञ्ञस्स हत्थे पहिणि, न मनुस्सानं सञ्ञं अदासि, उपज्झायोपि मे ओहीनभावं जानन्तो तथेव न किञ्चि अकासी’’ति चित्तम्पि न उप्पन्नं, कुतो तप्पच्चया ओमानं वा अतिमानं वा जनेस्सति. भगवता पन आचिक्खितकम्मट्ठानमेव पुरेभत्तम्पि पच्छाभत्तम्पि – ‘‘इतिपि रूपं अनिच्चं, इतिपि दुक्खं, इतिपि असुभं, इतिपि अनत्ता’’ति अग्गिं अभिमत्थेन्तो विय निरन्तरं मनसिकत्वा सायन्हसमये चिन्तेसि – ‘‘अहं उपज्झायेन आनापानस्सतिं भावेहीति वुत्तो, तस्स वचनं न करिस्सामि. आचरियुपज्झायानञ्हि वचनं अकरोन्तो दुब्बचो नाम होति. ‘दुब्बचो राहुलो, उपज्झायस्सपि वचनं न करोती’ति च गरहुप्पत्तितो कक्खळतरा पीळा नाम नत्थी’’ति भावनाविधानं पुच्छितुकामो भगवतो सन्तिकं अगमासि. तं दस्सेतुं अथ खो आयस्मा राहुलोतिआदि वुत्तं.

११४. तत्थ पटिसल्लानाति एकीभावतो. यंकिञ्चि राहुलाति कस्मा? भगवा आनापानस्सतिं पुट्ठो रूपकम्मट्ठानं कथेतीति. रूपे छन्दरागप्पहानत्थं. एवं किरस्स अहोसि – ‘‘राहुलस्स अत्तभावं निस्साय छन्दरागो उप्पन्नो, हेट्ठा चस्स सङ्खेपेन रूपकम्मट्ठानं कथितं. इदानिस्सापि द्विचत्तालीसाय आकारेहि अत्तभावं विराजेत्वा विसङ्खरित्वा तंनिस्सितं छन्दरागं अनुप्पत्तिधम्मतं आपादेस्सामी’’ति. अथ आकासधातुं कस्मा वित्थारेसीति? उपादारूपदस्सनत्थं. हेट्ठा हि चत्तारि महाभूतानेव कथितानि, न उपादारूपं. तस्मा इमिना मुखेन तं दस्सेतुं आकासधातुं वित्थारेसि. अपिच अज्झत्तिकेन आकासेन परिच्छिन्नरूपम्पि पाकटं होति.

आकासेन परिच्छिन्नं, रूपं याति विभूततं;

तस्सेवं आविभावत्थं, तं पकासेसि नायको.

एत्थ पन पुरिमासु ताव चतूसु धातूसु यं वत्तब्बं, तं महाहत्थिपदोपमे वुत्तमेव.

११८. आकासधातुयं आकासगतन्ति आकासभावं गतं. उपादिन्नन्तिआदिन्नं गहितं परामट्ठं, सरीरट्ठकन्ति अत्थो. कण्णच्छिद्दन्ति मंसलोहितादीहि असम्फुट्ठकण्णविवरं. नासच्छिद्दादीसुपि एसेव नयो. येन चाति येन छिद्देन. अज्झोहरतीति अन्तो पवेसेति, जिव्हाबन्धनतो हि याव उदरपटला मनुस्सानं विदत्थिचतुरङ्गुलं छिद्दट्ठानं होति. तं सन्धायेतं वुत्तं. यत्थ चाति यस्मिं ओकासे. सन्तिट्ठतीति पतिट्ठाति. मनुस्सानञ्हि महन्तं पटपरिस्सावनमत्तञ्च उदरपटलं नाम होति. तं सन्धायेतं वुत्तं. अधोभागं निक्खमतीति येन हेट्ठा निक्खमति. द्वत्तिंसहत्थमत्तं एकवीसतिया ठानेसु वङ्कं अन्तं नाम होति. तं सन्धायेतं वुत्तं. यं वा पनञ्ञम्पीति इमिना सुखुमसुखुमं चम्ममंसादिअन्तरगतञ्चेव लोमकूपभावेन च ठितं आकासं दस्सेति. सेसमेत्थापि पथवीधातुआदीसु वुत्तनयेनेव वेदितब्बं.

११९. इदानिस्स तादिभावलक्खणं आचिक्खन्तो पथवीसमन्तिआदिमाह. इट्ठानिट्ठेसु हि अरज्जन्तो अदुस्सन्तो तादी नाम होति. मनापामनापाति एत्थ अट्ठ लोभसहगतचित्तसम्पयुत्ता मनापा नाम, द्वे दोमनस्सचित्तसम्पयुत्ता अमनापा नाम. चित्तं न परियादाय ठस्सन्तीति एते फस्सा उप्पज्जित्वा तव चित्तं अन्तोमुट्ठिगतं करोन्तो विय परियादाय गहेत्वा ठातुं न सक्खिस्सन्ति ‘‘अहं सोभामि, मय्हं वण्णायतनं पसन्न’’न्ति पुन अत्तभावं निस्साय छन्दरागो नुप्पज्जिस्सति. गूथगतन्तिआदीसु गूथमेव गूथगतं. एवं सब्बत्थ.

न कत्थचि पतिट्ठितोति पथवीपब्बतरुक्खादीसु एकस्मिम्पि न पतिट्ठितो, यदि हि पथवियं पतिट्ठितो भवेय्य, पथविया भिज्जमानाय सहेव भिज्जेय्य, पब्बते पतमाने सहेव पतेय्य, रुक्खे छिज्जमाने सहेव छिज्जेय्य.

१२०. मेत्तं राहुलाति कस्मा आरभि? तादिभावस्स कारणदस्सनत्थं. हेट्ठा हि तादिभावलक्खणं दस्सितं, न च सक्का अहं तादी होमीति अकारणा भवितुं, नपि ‘‘अहं उच्चाकुलप्पसुतो बहुस्सुतो लाभी, मं राजराजमहामत्तादयो भजन्ति, अहं तादी होमी’’ति इमेहि कारणेहि कोचि तादी नाम होति, मेत्तादिभावनाय पन होतीति तादिभावस्स कारणदस्सनत्थं इमं देसनं आरभि.

तत्थ भावयतोति उपचारं वा अप्पनं वा पापेन्तस्स. यो ब्यापादोति यो सत्ते कोपो, सो पहीयिस्सति. विहेसाति पाणिआदीहि सत्तानं विहिंसनं. अरतीति पन्तसेनासनेसु चेव अधिकुसलधम्मेसु च उक्कण्ठितता. पटिघोति यत्थ कत्थचि सत्तेसु सङ्खारेसु च पटिहञ्ञनकिलेसो. असुभन्ति उद्धुमातकादीसु उपचारप्पनं. उद्धुमातकादीसु असुभभावना च नामेसा वित्थारतो विसुद्धिमग्गे कथिताव. रागोति पञ्चकामगुणिकरागो. अनिच्चसञ्ञन्ति अनिच्चानुपस्सनाय सहजातसञ्ञं. विपस्सना एव वा एसा असञ्ञापि सञ्ञासीसेन सञ्ञाति वुत्ता. अस्मिमानोति रूपादीसु अस्मीति मानो.

१२१. इदानि थेरेन पुच्छितं पञ्हं वित्थारेन्तो आनापानस्सतिन्तिआदिमाह. तत्थ इदं कम्मट्ठानञ्च कम्मट्ठानभावना च पाळिअत्थो च सद्धिं आनिसंसकथाय सब्बो सब्बाकारेन विसुद्धिमग्गे अनुस्सतिनिद्देसे वित्थारितोयेव. इमं देसनं भगवा नेय्यपुग्गलवसेनेव परिनिट्ठापेसीति.

पपञ्चसूदनिया मज्झिमनिकायट्ठकथाय

माहाराहुलोवादसुत्तवण्णना निट्ठिता.