२. रेवतीविमानवण्णना

उट्ठेहि रेवते सुपापधम्मेति रेवतीविमानं. तस्स का उप्पत्ति? भगवा बाराणसियं विहरति इसिपतने मिगदाये. तेन समयेन बाराणसियं सद्धासम्पन्नस्स कुलस्स पुत्तो नन्दियो नाम उपासको अहोसि सद्धासम्पन्नो दायको दानपति सङ्घुपट्ठाको. अथस्स मातापितरो सम्मुखगेहतो मातुलधीतरं रेवतिं नाम कञ्ञं आनेतुकामा अहेसुं. सा पन अस्सद्धा अदानसीला, नन्दियो तं न इच्छि. तस्स माता रेवतिं आह ‘‘अम्म, त्वं इमं गेहं आगन्त्वा भिक्खुसङ्घस्स निसीदनट्ठानं हरितेन गोमयेन उपलिम्पित्वा आसनानि पञ्ञापेहि, आधारके ठपेहि, भिक्खूनं आगतकाले वन्दित्वा पत्तं गहेत्वा निसीदापेत्वा धमकरणेन पानीयं परिस्सावेत्वा भुत्तकाले पत्तानि धोवाहि, एवं मे पुत्तस्स आराधिका भविस्ससी’’ति. सा तथा अकासि. अथ नं ‘‘ओवादक्खमा जाता’’ति पुत्तस्स आरोचेत्वा तेन ‘‘साधू’’ति सम्पटिच्छिते दिवसं ठपेत्वा आवाहं करिंसु.

अथ नं नन्दियो आह ‘‘सचे भिक्खुसङ्घं मातापितरो च मे उपट्ठहिस्ससि, एवं इमस्मिं गेहे वसितुं लभिस्ससि, अप्पमत्ता होही’’ति. सा ‘‘साधू’’ति पटिस्सुणित्वा किञ्चि कालं सद्धा विय हुत्वा भत्तारं अनवत्तेन्ती द्वे पुत्ते विजायि. नन्दियस्स मातापितरो कालमकंसु. गेहे सब्बिस्सरियं तस्सा एव अहोसि. नन्दियोपि महादानपति हुत्वा भिक्खुसङ्घस्स दानं पट्ठपेसि, कपणद्धिकादीनम्पि गेहद्वारे पाकवत्तं पट्ठपेसि. इसिपतनमहाविहारे चतूहि गब्भेहि पटिमण्डितं चतुसालं कारेत्वा मञ्चपीठादीनि अत्थरापेत्वा बुद्धप्पमुखस्स भिक्खुसङ्घस्स महादानं दत्वा तथागतस्स हत्थे दक्खिणोदकं पातेत्वा निय्यादेसि, सह दक्खिणोदकदानेन तावतिंसभवने आयामतो च वित्थारतो च समन्ता द्वादसयोजनिको योजनसतुब्बेधो सत्तरतनमयो अच्छरागणसहस्ससङ्घुट्ठो दिब्बपासादो उग्गञ्छि.

अथायस्मा महामोग्गल्लानो देवचारिकं चरन्तो तं पासादं दिस्वा अत्तानं वन्दितुं आगते देवपुत्ते पुच्छि ‘‘कस्सायं पासादो’’ति? ‘‘इमस्स, भन्ते, पासादस्स सामिको मनुस्सलोके बाराणसियं नन्दियो नाम कुटुम्बियपुत्तो सङ्घस्स इसिपतनमहाविहारे चतुसालं कारेसि, तस्सायं निब्बत्तो पासादो’’ति आहंसु. पासादे निब्बत्तदेवच्छरायोपि थेरं वन्दित्वा ‘‘भन्ते, मयं बाराणसियं नन्दियस्स नाम उपासकस्स परिचारिका भवितुं इध निब्बत्ता, तस्स एवं वदेथ ‘‘तुय्हं परिचारिका भवितुं निब्बत्ता, देवतायो तयि चिरायन्ते उक्कण्ठिता, देवलोकसम्पत्ति नाम मत्तिकाभाजनं भिन्दित्वा सुवण्णभाजनस्स गहणं विय अतिमनाप’न्ति वत्वा इधागमनत्थाय तस्स वदेथा’’ति आहंसु. थेरो ‘‘साधू’’ति पटिस्सुणित्वा सहसा देवलोकतो आगन्त्वा चतुपरिसमज्झे भगवन्तं पुच्छि ‘‘निब्बत्तति नु खो, भन्ते, कतपुञ्ञानं मनुस्सलोके ठितानंयेव दिब्बसम्पत्ती’’ति? ‘‘ननु ते, मोग्गल्लान, नन्दियस्स देवलोके निब्बत्ता दिब्बसम्पत्ति सामं दिट्ठा, कस्मा मं पुच्छसी’’ति? ‘‘एवं, भन्ते, निब्बत्तती’’ति. अथस्स सत्था ‘‘यथा चिरं विप्पवसित्वा आगतं पुरिसं मित्तबन्धवा अभिनन्दन्ति सम्पटिच्छन्ति, एवं कतपुञ्ञं पुग्गलं इतो परलोकं गतं सकानि पुञ्ञानि सम्पत्तिहत्थेहि सम्पटिच्छन्ति पटिग्गण्हन्ती’’ति दस्सेन्तो –

८६१. ‘‘चिरप्पवासिं पुरिसं, दूरतो सोत्थिमागतं;

ञातिमित्ता सुहज्जा च, अभिनन्दन्ति आगतं.

८६२. ‘‘तथेव कतपुञ्ञम्पि, अस्मा लोका परं गतं;

पुञ्ञानि पटिग्गण्हन्ति, पियं ञातीव आगत’’न्ति. – गाथा अभासि;

नन्दियो तं सुत्वा भिय्योसोमत्ताय दानानि देति, पुञ्ञानि करोति, सो वणिज्जाय गच्छन्तो रेवतिं आह ‘‘भद्दे, मया पट्ठपितं सङ्घस्स दानं अनाथानं पाकवत्तञ्च त्वं अप्पमत्ता पवत्तेय्यासी’’ति. सा ‘‘साधू’’ति पटिस्सुणि. सो पवासगतोपि यत्थ यत्थ वासं कप्पेति, तत्थ तत्थ भिक्खूनं अनाथानञ्च यथाविभवं दानं देतियेव. तस्स अनुकम्पाय खीणासवा दूरतोपि आगन्त्वा दानं सम्पटिच्छन्ति. रेवती पन तस्मिं गते कतिपाहमेव दानं पवत्तेत्वा अनाथानं भत्तं उपच्छिन्दि, भिक्खूनम्पि भत्तं कणाजकं बिलङ्गदुतियं अदासि. भिक्खूनं भुत्तट्ठाने अत्तना भुत्तावसेसानि सित्थानि मच्छमंसखण्डमिस्सकानि चलकट्ठिकानि च पकिरित्वा मनुस्सानं दस्सेति ‘‘पस्सथ समणानं कम्मं, सद्धादेय्यं नाम एवं छड्डेन्ती’’ति.

अथ नन्दियो वोहारकसिद्धि यथालाभो आगन्त्वा तं पवत्तिं सुत्वा रेवतिं गेहतो नीहरित्वा गेहं पाविसि. दुतियदिवसे बुद्धप्पमुखस्स भिक्खुसङ्घस्स महादानं पवत्तेत्वा निच्चभत्तं अनाथभत्तञ्च सम्मदेव पवत्तेसि, अत्तनो सहायेहि उपनीतं रेवतिं घासच्छादनपरमताय ठपेसि. सो अपरेन समयेन कालं कत्वा तावतिंसभवने अत्तनो विमानेयेव निब्बत्ति. रेवती पन सब्बं दानं पच्छिन्दित्वा ‘‘इमेसं वसेन मय्हं लाभसक्कारो परिहायी’’ति भिक्खुसङ्घं अक्कोसन्ती परिभासन्ती विचरति. अथ वेस्सवणो द्वे यक्खे आणापेसि ‘‘गच्छथ, भणे, बाराणसिनगरे उग्घोसथ ‘‘इतो सत्तमे दिवसे रेवती जीवन्तीयेव निरये पक्खिपीयती’ति’’. तं सुत्वा महाजनो संवेगजातो भीततसितो अहोसि.

अथ रेवती पन पासादं अभिरुहित्वा द्वारं थकेत्वा निसीदि. सत्तमे दिवसे तस्सा पापकम्मसञ्चोदितेन वेस्सवणेन रञ्ञा आणत्ता जलितकपिलकेसमस्सुका चिपिटविरूपनासिका परिणतदाठा लोहितक्खा सजलधरसमानवण्णा अतिविय भयानकरूपा द्वे यक्खा उपगन्त्वा ‘‘उट्ठेहि, रेवते, सुपापधम्मे’’तिआदीनि वदन्ता नानाबाहासु गहेत्वा ‘‘महाजनो पस्सतू’’ति सकलनगरे वीथितो वीथिं परिब्भमापेत्वा आकासं अब्भुग्गन्त्वा तावतिंसभवनं नेत्वा नन्दियस्स विमानं सम्पत्तिञ्चस्सा दस्सेत्वा तं विलपन्तिंयेव उस्सदनिरयसमीपं पापेसुं. तं यमपुरिसा उस्सदनिरये खिपिंसु. तेनाह –

८६३. ‘‘उट्ठेहि रेवते सुपापधम्मे, अपारुतद्वारे अदानसीले;

नेस्साम तं यत्थ थुनन्ति दुग्गता, समप्पिता नेरयिका दुखेना’’ति.

तत्थ उट्ठेहीति उट्ठह, न दानेस पासादो तं निरयभयतो रक्खितुं सक्कोति, तस्मा सीघं उट्ठहित्वा आगच्छाहीति अत्थो. रेवतेति तं नामेन आलपति. सुपापधम्मेतिआदिना उट्ठानस्स कारणं वदति. यस्मा त्वं अरियानं अक्कोसनपरिभासनादिना सुट्टु लामकपापधम्मा, यस्मा च अपारुतं द्वारं निरयस्स तव पवेसनत्थं, तस्मा उट्ठेहीति. अदानसीलेति कस्सचि किञ्चि न दानसीले कदरिये मच्छरिनी, इदम्पि उट्ठानस्सेव कारणवचनं. यस्मा दानसीलानं अमच्छरीनं तव सामिकसदिसानं सुगतियं निवासो, तादिसानं पन अदानसीलानं मच्छरीनं निरये निवासो, तस्मा उट्ठेहि, मुहुत्तमत्तम्पि तव इध ठातुं न दस्सामीति अधिप्पायो. यत्थ थुनन्ति दुग्गताति दुक्खगतत्ता दुग्गता. नेरयिकाति निरयदुक्खेन समप्पिता समङ्गीभूता यस्मिं निरये थुनन्ति, याव पापकम्मं न ब्यन्ति होति, ताव निक्खमितुं अलभन्ता नित्थुनन्ति, तत्थ तं नेस्साम नयिस्साम खिपिस्सामाति योजना.

८६४. ‘‘इच्चेव वत्वान यमस्स दूता, ते द्वे यक्खा लोहितक्खा ब्रहन्ता;

पच्चेकबाहासु गहेत्वा रेवतं, पक्कामयुं देवगणस्स सन्तिके’’ति. –

इदं सङ्गीतिकारवचनं.

तत्थ इच्चेव वत्वानाति इति एव ‘‘उट्ठेही’’तिआदिना वत्वा, वचनसमनन्तरमेवाति अत्थो. यमस्स दूताति अप्पटिसेधनियतस्स यमस्स रञ्ञो दूतसदिसा. वेस्सवणेन हि ते पेसिता. तथा हि ते तावतिंसभवनं नयिंसु. केचि ‘‘न यमस्स दूता’’ति न-कारं ‘‘यमस्सा’’ति पदेन सम्बन्धित्वा ‘‘वेस्सवणस्स दूता’’ति अत्थं वदन्ति, तं न युज्जति. न हि न यमदूतताय वेस्सवणस्स दूताति सिज्झति. यजन्ति तत्थ बलिं उपहरन्तीति यक्खा. लोहितक्खाति रत्तनयना. यक्खानञ्हि नेत्तानि अतिलोहितानि होन्ति. ब्रहन्ताति महन्ता. पच्चेकबाहासूति एको एकबाहायं, इतरो इतरबाहायन्ति पच्चेकं बाहासु. रेवतन्ति रेवतिं. रेवतातिपि तस्सा नाममेव. तथा हि ‘‘रेवते’’ति वुत्तं. पक्कामयुन्ति पक्कामेसुं, उपनेसुन्ति अत्थो. देवगणस्साति तावतिंसभवने देवसङ्घस्स.

एवं तेहि यक्खेहि तावतिंसभवनं नेत्वा नन्दियविमानस्स अविदूरे ठपिता रेवती तं सूरियमण्डलसदिसं अतिविय पभस्सरं दिस्वा –

८६५. ‘‘आदिच्चवण्णं रुचिरं पभस्सरं, ब्यम्हं सुभं कञ्चनजालछन्नं;

कस्सेतमाकिण्णजनं विमानं, सुरियस्स रंसीरिव जोतमानं.

८६६. ‘‘नारीगणा चन्दनसारलित्ता, उभतो विमानं उपसोभयन्ति;

तं दिस्सति सुरियसमानवण्णं, को मोदति सग्गपत्तो विमाने’’ति. –

ते यक्खे पुच्छि. तेपि तस्सा –

८६७. ‘‘बाराणसियं नन्दियो नामासि, उपासको अमच्छरी दानपति वदञ्ञू;

तस्सेतमाकिण्णजनं विमानं, सूरियस्स रंसीरिव जोतमानं.

८६८. ‘‘नारीगणा चन्दनसारलित्ता, उभतो विमानं उपसोभयन्ति;

तं दिस्सति सूरियसमानवण्णं, सो मोदति सग्गपत्तो विमाने’’ति. –

आचिक्खिंसु.

८६८. तत्थ चन्दनसारलित्ताति सारभूतेन चन्दनगन्धेन अनुलित्तसरीरा. उभतो विमानन्ति विमानं उभतो अन्तो चेव बहि च सङ्गीतादीहि उपेच्च सोभयन्ति.

अथ रेवती –

८६९. ‘‘नन्दियस्साहं भरिया, अगारिनी सब्बकुलस्स इस्सरा;

भत्तु विमाने रमिस्सामि दानहं, न पत्थये निरयं दस्सनाया’’ति. –

आह. तत्थ अगारिनीति गेहसामिनी. ‘‘भरिया सगामिनी’’तिपि पठन्ति, भरिया सहगामिनीति अत्थो. सब्बकुलस्स इस्सरा भत्तूति मम भत्तु नन्दियस्स सब्बकुटुम्बिकस्स इस्सरा सामिनी अहोसिं, तस्मा इदानिपि विमाने इस्सरा भविस्सामीति आह. विमाने रमिस्सामि दानहन्ति एवं पलोभेतुमेव हि तं ते तत्थ नेसुं. न पत्थये निरयं दस्सनायाति यं पन निरयं मं तुम्हे नेतुकामा, तं निरयं दस्सनायपि न पत्थये, कुतो पविसितुन्ति वदति.

एवं वदन्तिमेव ‘‘त्वं तं पत्थेहि वा मा वा, किं तव पत्थनाया’’ति निरयसमीपं नेत्वा –

८७०. ‘‘एसो ते निरयो सुपापधम्मे, पुञ्ञं तया अकतं जीवलोके;

न हि मच्छरी रोसको पापधम्मो, सग्गूपगानं लभति सहब्यत’’न्ति. –

गाथमाहंसु. तस्सत्थो – एसो तव निरयो, तया दीघरत्तं महादुक्खं अनुभवितब्बट्ठानभूतो. कस्मा? पुञ्ञं तया अकतं जीवलोके, यस्मा मनुस्सलोके अप्पमत्तकम्पि तया पुञ्ञं नाम न कतं, एवं अकतपुञ्ञो पन तादिसो सत्तो मच्छरी अत्तनो सम्पत्तिनिगूहनलक्खणेन मच्छरेन समन्नागतो, परेसं रोसुप्पादनेन रोसको, लोभादीहि पापधम्मेहि समङ्गीभावतो पापधम्मो सग्गूपगानं देवानं सहब्यतं सहभावं न लभतीति योजना.

एवं पन वत्वा ते द्वे यक्खा तत्थेवन्तरधायिंसु. तंसदिसे पन द्वे निरयपाले संसवके नाम गूथनिरये पक्खिपितुं आकड्ढन्ते पस्सित्वा –

८७१. ‘‘किं नु गूथञ्च मुत्तञ्च, असुचि पटिदिस्सति;

दुग्गन्धं किमिदं मीळ्हं, किमेतं उपवायती’’ति. –

तं निरयं पुच्छि.

८७२. ‘‘एस संसवको नाम, गम्भीरो सतपोरिसो;

यत्थ वस्ससहस्सानि, तुवं पच्चसि रेवते’’ति. –

तस्मिं कथिते तत्थ अत्तनो निब्बत्तिहेतुभूतं कम्मं पुच्छन्ती –

८७३. ‘‘किं नु कायेन वाचाय, मनसा दुक्कटं कतं;

केन संसवको लद्धो, गम्भीरो सतपोरिसो’’ति. – आह;

८७४. ‘‘समणे ब्राह्मणे चापि, अञ्ञे वापि वनिब्बके;

मुसावादेन वञ्चेसि, तं पापं पकतं तया’’ति. –

तस्सा तं कम्मं कथेत्वा पुन ते –

८७५. ‘‘तेन संसवको लद्धो, गम्भीरो सतपोरिसो;

तत्थे वस्ससहस्सानि, तुवं पच्चसि रेवते’’ति. –

आहंसु. तत्थ संसवको नामाति निच्चकालं गूथमुत्तादिअसुचिस्स संसवनतो पग्घरणतो संसवको नाम.

न केवलं तुय्हं इध संसवकलाभो एव, अथ खो एत्थ अनेकानि वस्ससहस्सानि पच्चित्वा उत्तिण्णाय हत्थच्छेदादिलाभोपीति दस्सेतुं –

८७६. ‘‘हत्थेपि छिन्दन्ति अथोपि पादे, कण्णेपि छिन्दन्ति अथोपि नासं;

अथोपि काकोळगणा समेच्च, सङ्गम्म खादन्ति विफन्दमान’’न्ति. –

तत्थ लद्धब्बकारणं आहंसु. तत्थ काकोळगणाति काकसङ्घा. ते किरस्सा तिगावुतप्पमाणे सरीरे अनेकसतानि अनेकसहस्सानि पतित्वा तालक्खन्धपरिमाणेहि सुनिसितग्गेहि अयोमयेहि मुखतुण्डेहि विज्झित्वा विज्झित्वा खादन्ति, मंसं गहितगहितट्ठाने कम्मबलेन पूरतेव. तेनाह ‘‘काकोळगणा समेच्च, सङ्गम्म खादन्ति विफन्दमान’’न्ति.

पुन सा मनुस्सलोकं पच्चानयनाय याचनादिवसेन तं तं विप्पलपि. तेन वुत्तं –

८७७. ‘‘साधु खो मं पटिनेथ, काहामि कुसलं बहुं;

दानेन समचरियाय, संयमेन दमेन च;

यं कत्वा सुखिता होन्ति, न च पच्छानुतप्परे’’ति.

पुन निरयपाला –

८७८. ‘‘पुरे तुवं पमज्जित्वा, इदानि परिदेवसि;

सयं कतानं कम्मानं, विपाकं अनुभोस्ससी’’ति. –

आहंसु. पुन सा आह –

८७९. ‘‘को देवलोकतो मनुस्सलोकं, गन्त्वान पुट्ठो मे एवं वदेय्य;

निक्खित्तदण्डेसु ददाथ दानं, अच्छादनं सेय्यमथन्नपानं;

न हि मच्छरी रोसको पापधम्मो, सग्गूपगानं लभति सहब्यतं.

८८०. ‘‘साहं नून इतो गन्त्वा, योनिं लद्धान मानुसिं;

वदञ्ञू सीलसम्पन्ना, काहामि कुसलं बहुं;

दानेन समचरियाय, संयमेन दमेन च.

८८१. ‘‘आरामानि च रोपिस्सं, दुग्गे सङ्कमानि च;

पपञ्च उदपानञ्च, विप्पसन्नेन चेतसा.

८८२. ‘‘चातुद्दसिं पञ्चदसिं, या च पक्खस्स अट्ठमी;

पाटिहारियपक्खञ्च, अट्ठङ्गसुसमागतं.

८८३. ‘‘उपोसथं उपवसिस्सं, सदा सीलेसु संवुता;

न च दाने पमज्जिस्सं, सामं दिट्ठमिदं मया’’ति.

८८४. ‘‘इच्चेवं विप्पलपन्तिं, फन्दमानं ततो ततो;

खिपिंसु निरये घोरे, उद्धंपादं अवंसिर’’न्ति. –

इदं सङ्गीतिकारवचनं. पुन सा –

८८५. ‘‘अहं पुरे मच्छरिनी अहोसिं, परिभासिका समणब्राह्मणानं;

वितथेन च सामिकं वञ्चयित्वा, पच्चामहं निरये घोररूपे’’ति. –

ओसानगाथमाह. तत्थ ‘‘अहं पुरे मच्छरिनी’’ति गाथा निरये निब्बत्ताय वुत्ता, इतरा अनिब्बत्ताय एवाति वेदितब्बा. सेसं सुविञ्ञेय्यमेवाति.

भिक्खू रेवतिया यक्खेहि गहेत्वा नीतभावं भगवतो आरोचेसुं. तं सुत्वा भगवा आदितो पट्ठाय इमं वत्थुं कथेत्वा उपरि वित्थारेन धम्मं देसेसि, देसनापरियोसाने बहू सोतापत्तिफलादीनि पापुणिंसु. कामञ्चेतं रेवतीपटिबद्धाय कथाय येभुय्यभावतो ‘‘रेवतीविमान’’न्ति वोहरीयति, यस्मा पन रेवती विमानदेवता न होति, नन्दियस्स पन देवपुत्तस्स विमानादिसम्पत्तिपटिसंयुत्तञ्चेतं, तस्मा पुरिसविमानेस्वेव सङ्गहं आरोपितन्ति दट्ठब्बं.

रेवतीविमानवण्णना निट्ठिता.