११. पठमपतिब्बताविमानवण्णना

कोञ्चा मयूरा दिविया च हंसाति पतिब्बताविमानं. तस्स का उप्पत्ति? भगवा सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे. तत्थ अञ्ञतरा इत्थी पतिब्बता अहोसि भत्तु अनुकूलवत्तिनी खमा पदक्खिणग्गाहिनी, न कुद्धापि पटिप्फरति, अफरुसवाचा सच्चवादिनी सद्धा पसन्ना यथाविभवं दानानि च अदासि. सा केनचिदेव रोगेन फुट्ठा कालं कत्वा तावतिंसभवने निब्बत्ति. अथायस्मा महामोग्गल्लानो पुरिमनयेनेव देवचारिकं चरन्तो तं देवधीतरं महतिं सम्पत्तिं अनुभवन्तिं दिस्वा तस्सा समीपमुपगतो. सा अच्छरासहस्सपरिवुता सट्ठिसकटभारालङ्कारपटिमण्डितत्तभावा थेरस्स पादेसु सिरसा वन्दित्वा एकमन्तं अट्ठासि. थेरोपि ताय कतपुञ्ञकम्मं पुच्छन्तो –

९३. ‘‘कोञ्चा मयूरा दिविया च हंसा, वग्गुस्सरा कोकिला सम्पतन्ति;

पुप्फाभिकिण्णं रम्ममिदं विमानं, अनेकचित्तं नरनारिसेवितं.

९४. ‘‘तत्थच्छसि देवि महानुभावे, इद्धी विकुब्बन्ति अनेकरूपा;

इमा च ते अच्छरायो समन्ततो, नच्चन्ति गायन्ति पमोदयन्ति च.

९५. ‘‘देविद्धिपत्तासि महानुभावे,

मनुस्सभूता किमकासि पुञ्ञं;

केनासि एवं जलितानुभावा,

वण्णो च ते सब्बदिसा पभासती’’ति. – आह;

९६. ‘‘सा देवता अत्तमना, मोग्गल्लानेन पुच्छिता;

पञ्हं पुट्ठा वियाकासि, यस्स कम्मस्सिदं फलं’’.

९७. ‘‘अहं मनुस्सेसु मनुस्सभूता, पतिब्बतानञ्ञमना अहोसिं;

माताव पुत्तं अनुरक्खमाना, कुद्धापिहं नप्फरुसं अवोचं.

९८. ‘‘सच्चे ठिता मोसवज्जं पहाय, दाने रता सङ्गहितत्तभावा;

अन्नञ्च पानञ्च पसन्नचित्ता, सक्कच्च दानं विपुलं अदासिं.

९९. ‘‘तेन मेतादिसो वण्णो, तेन मे इध मिज्झति;

उप्पज्जन्ति च मे भोगा, ये केचि मनसो पिया.

१००. ‘‘अक्खामि ते भिक्खु महानुभाव, मनुस्सभूता यमकासि पुञ्ञं;

तेनम्हि एवं जलितानुभावा, वण्णो च मे सब्बदिसा पभासती’’ति. –

सा देवता विस्सज्जेसि.

९३. तत्थ कोञ्चाति कोञ्चसकुणा, ये ‘‘सारसा’’तिपि वुच्चन्ति. मयूराति मोरा. दिवियाति दिब्बानुभावा. इदञ्हि पदं ‘‘दिविया कोञ्चा, दिविया मयूरा’’तिआदिना चतूहिपि पदेहि योजेतब्बं. हंसाति सुवण्णहंसादिहंसा. वग्गुस्सराति मधुरस्सरा. कोकिलाति काळकोकिला चेव सुक्ककोकिला च. सम्पतन्तीति देवताय अभिरमणत्थं कीळन्ता लळन्ता समन्ततो पतन्ति विचरन्ति. कोञ्चादिरूपेन हि देवताय रतिजननत्थं परिवारभूता देवता कीळन्ता लळन्ता ‘‘कोञ्चा’’तिआदिना वुत्ता. पुप्फाभिकिण्णन्ति गन्थितागन्थितेहि नानाविधरतनकुसुमेहि ओकिण्णं. रम्मन्ति रमणीयं, मनोरमन्ति अत्थो. अनेकचित्तन्ति अनेकेहि उय्यानकप्परुक्खपोक्खरणिआदीहि विमानेसु च अनेकेहि भित्तिविसेसादीहि चित्तं. नरनारिसेवितन्ति परिवारभूतेहि देवपुत्तेहि देवधीताहि च उपसेवितं.

९४. इद्धी विकुब्बन्ति अनेकरूपाति नानारूपानं विदंसनेन अनेकरूपा कम्मानुभावसिद्धा इद्धी विकुब्बन्ती विकुब्बनिद्धियो वलञ्जेन्ती अच्छसीति योजना.

९७. अनञ्ञमनाति पतिब्बता, पतितो अञ्ञस्मिं मनो एतिस्साति अञ्ञमना, न अञ्ञमनाति अनञ्ञमना, मय्हं सामिकतो अञ्ञस्मिं पुरिसे पापकं चित्तं न उप्पादेसिन्ति अत्थो. माताव पुत्तं अनुरक्खमानाति यथा माता पुत्तं, एवं मय्हं सामिकं, सब्बेपि वा सत्ते हितेसिताय अहितापनयनकामताय च अनुद्दयमाना. कुद्धापिहं नप्फरुसं अवोचन्ति परेन कतं अफासुकं पटिच्च कुद्धापि समाना अहं फरुसवचनं न कथेसिं, अञ्ञदत्थु पियवचनमेव अभासिन्ति अधिप्पायो.

९८. सच्चे ठिताति सच्चे पतिट्ठिता. यस्मा मुसावादा वेरमणिया सच्चे पतिट्ठिता नाम होति, न कदाचि सच्चवचनमत्तेनाति आह – मोसवज्जं पहायाति मुसावादं पहाय. दाने रताति दाने अभिरता, युत्तप्पयुत्ताति अत्थो. सङ्गहितत्तभावाति सङ्गहवत्थूहि अत्तानं विय सभावेनेव परेसं सङ्गण्हनसीला अन्नञ्च पानञ्च कम्मफलसद्धाय पसन्नचित्ता सक्कच्चं चित्तीकारेन अदासिं, अञ्ञञ्च वत्थादिदानं विपुलं उळारं अदासिन्ति योजना. सेसं वुत्तनयमेव.

पतिब्बताविमानवण्णना निट्ठिता.