५. अनोपमाथेरीगाथावण्णना
उच्चे कुलेतिआदिका अनोपमाय थेरिया गाथा. अयम्पि पुरिमबुद्धेसु कताधिकारा तत्थ तत्थ भवे विवट्टूपनिस्सयं कुसलं उपचिनन्ती अनुक्कमेन विमुत्तिपरिपाचनीये धम्मे परिब्रूहित्वा इमस्मिं बुद्धुप्पादे साकेतनगरे मज्झस्स नाम सेट्ठिनो धीता हुत्वा निब्बत्ति. तस्सा रूपसम्पत्तिया अनोपमाति नामं अहोसि. तस्सा वयप्पत्तकाले बहू सेट्ठिपुत्ता राजमहामत्ता राजानो च पितु दूतं पाहेसुं – ‘‘अत्तनो धीतरं अनोपमं देहि, इदञ्चिदञ्च ते दस्सामा’’ति. सा तं सुत्वा उपनिस्सयसम्पन्नताय ‘‘घरावासेन मय्हं अत्थो नत्थी’’ति सत्थु सन्तिकं गन्त्वा धम्मं सुत्वा ञाणस्स परिपाकं गतत्ता देसनानुसारेन विपस्सनं आरभित्वा तं उस्सुक्कापेन्ती मग्गपटिपाटिया ततियफले पतिट्ठासि. सा सत्थारं पब्बज्जं याचित्वा सत्थुआणाय भिक्खुनुपस्सयं उपगन्त्वा भिक्खुनीनं सन्तिके पब्बजित्वा सत्तमे दिवसे अरहत्तं सच्छिकत्वा अत्तनो पटिपत्तिं पच्चवेक्खित्वा उदानवसेन –
१५१. ‘‘उच्चे कुले अहं जाता, बहुवित्ते महद्धने;
वण्णरूपेन सम्पन्ना, धीता मज्झस्स अत्रजा.
१५२. ‘‘पत्थिता राजपुत्तेहि, सेट्ठिपुत्तेहि गिज्झिता;
पितु मे पेसयी दूतं, देथ मय्हं अनोपमं.
१५३. ‘‘यत्तकं तुलिता एसा, तुय्हं धीता अनोपमा;
ततो अट्ठगुणं दस्सं, हिरञ्ञं रतनानि च.
१५४. ‘‘साहं दिस्वान सम्बुद्धं, लोकजेट्ठं अनुत्तरं;
तस्स पादानि वन्दित्वा, एकमन्तं उपाविसिं.
१५५. ‘‘सो मे धम्ममदेसेसि, अनुकम्पाय गोतमो;
निसिन्ना आसने तस्मिं, फुसयिं ततियं फलं.
१५६. ‘‘ततो केसानि छेत्वान, पब्बजिं अनगारियं;
अज्ज मे सत्तमी रत्ति, यतो तण्हा विसेसिता’’ति. –
इमा गाथा अभासि.
तत्थ उच्चे कुलेति उळारतमे वेस्सकुले. बहुवित्तेति अलङ्कारादिपहूतवित्तूपकरणे. महद्धनेति निधानगतस्सेव चत्तारीसकोटिपरिमाणस्स महतो धनस्स अत्थिभावेन महद्धने अहं जाताति योजना. वण्णरूपेन सम्पन्नाति वण्णसम्पन्ना चेव रूपसम्पन्ना च, सिनिद्धभासुराय छविसम्पत्तिया वत्थाभरणादिसरीरावयवसम्पत्तिया च समन्नागताति अत्थो. धीता मज्झस्स अत्रजाति मज्झनामस्स सेट्ठिनो ओरसा धीता.
पत्थिता राजपुत्तेहीति ‘‘कथं नु खो तं लभेय्यामा’’ति राजकुमारेहि अभिपत्थिता. सेट्ठिपुत्तेहि गिज्झिताति तथा सेट्ठिकुमारेहिपि अभिगिज्झिता पच्चासीसिता. देथ मय्हं अनोपमन्ति राजपुत्तादयो ‘‘देथ मय्हं अनोपमं देथ मय्ह’’न्ति पितु सन्तिके दूतं पेसयिंसु.
यत्तकं तुलिता एसाति ‘‘तुय्हं धीता अनोपमा यत्तकं धनं अग्घती’’ति तुलिता लक्खणञ्ञूहि परिच्छिन्ना, ‘‘ततो अट्ठगुणं दस्सामी’’ति पितु मे पेसयि दूतन्ति योजना. सेसं हेट्ठा वुत्तनयमेव.
अनोपमाथेरीगाथावण्णना निट्ठिता.