६. छक्कनिपातो
१. पञ्चसतमत्ताथेरीगाथावण्णना
छक्कनिपाते यस्स मग्गं न जानासीतिआदिका पञ्चसतमत्तानं थेरीनं गाथा. इमापि पुरिमबुद्धेसु कताधिकारा तत्थ तत्थ भवे विवट्टूपनिस्सयं कुसलं उपचिनन्तियो अनुक्कमेन उपचितविमोक्खसम्भारा हुत्वा इमस्मिं बुद्धुप्पादे तत्थ तत्थ कुलगेहे निब्बत्तित्वा वयप्पत्ता मातापितूहि पतिकुलं आनीता तत्थ तत्थ पुत्ते लभित्वा घरावासं वसन्तियो समानजातिकस्स तादिसस्स कम्मस्स कतत्ता सब्बाव मतपुत्ता हुत्वा, पुत्तसोकेन अभिभूता पटाचाराय थेरिया सन्तिकं उपसङ्कमित्वा वन्दित्वा निसिन्ना अत्तनो सोककारणं आरोचेसुं. थेरी तासं सोकं विनोदेन्ती –
१२७. ‘‘यस्स मग्गं न जानासि, आगतस्स गतस्स वा;
तं कुतो चागतं सत्तं, मम पुत्तोति रोदसि.
१२८. ‘‘मग्गञ्च खोस्स जानासि, आगतस्स गतस्स वा;
न नं समनुसोचेसि, एवंधम्मा हि पाणिनो.
१२९. ‘‘अयाचितो ततागच्छि, नानुञ्ञातो इतो गतो;
कुतोचि नून आगन्त्वा, वसित्वा कतिपाहकं;
इतोपि अञ्ञेन गतो, ततोपञ्ञेन गच्छति.
१३०. ‘‘पेतो मनुस्सरूपेन, संसरन्तो गमिस्सति;
यथागतो तथा गतो, का तत्थ परिदेवना’’ति. –
इमाहि चतूहि गाथाहि धम्मं देसेसि.
ता तस्सा धम्मं सुत्वा सञ्जातसंवेगा थेरिया सन्तिके पब्बजिंसु. पब्बजित्वा विपस्सनाय कम्मं करोन्तियो विमुत्तिपरिपाचनीयानं धम्मानं परिपाकं गतत्ता न चिरस्सेव सह पटिसम्भिदाहि अरहत्ते पतिट्ठहिंसु. अथ ता अधिगतारहत्ता अत्तनो पटिपत्तिं पच्चवेक्खित्वा उदानवसेन ‘‘यस्स मग्गं न जानासी’’तिआदिकाहि ओवादगाथाहि सद्धिं –
१३१. ‘‘अब्बही वत मे सल्लं, दुद्दसं हदयस्सितं;
या मे सोकपरेताय, पुत्तसोकं ब्यपानुदि.
१३२. ‘‘साज्ज अब्बूळ्हसल्लाहं, निच्छाता परिनिब्बुता;
बुद्धं धम्मञ्च सङ्घञ्च, उपेमि सरणं मुनि’’न्ति. –
इमा गाथा विसुं विसुं अभासिंसु.
तत्थ यस्स मग्गं न जानासि, आगतस्स गतस्स वाति यस्स सत्तस्स इध आगतस्स आगतमग्गं वा इतो गतस्स गतमग्गं वा त्वं न जानासि. अनन्तरा अतीतानागतभवूपपत्तियो सन्धाय वदति. तं कुतो चागतं सत्तन्ति तं एवं अविञ्ञातागतगतमग्गं कुतोचि गतितो आगतमग्गं आगच्छन्तेन अन्तरामग्गे सब्बेन सब्बं अकतपरिचयसमागतपुरिससदिसं सत्तं केवलं ममत्तं उप्पादेत्वा मम पुत्तोति कुतो केन कारणेन रोदसि. अप्पटिकारतो मम पुत्तस्स च अकातब्बतो न एत्थ रोदनकारणं अत्थीति अधिप्पायो.
मग्गञ्च खोस्स जानासीति अस्स तव पुत्ताभिमतस्स सत्तस्स आगतस्स आगतमग्गञ्च गतस्स गतमग्गञ्च अथ जानेय्यासि. न नं समनुसोचेसीति एवम्पि नं न समनुसोचेय्यासि. कस्मा? एवंधम्मा हि पाणिनो, दिट्ठधम्मेपि हि सत्तानं सब्बेहि पियेहि मनापेहि नानाभावा विनाभावा तत्थ वसवत्तिताय अभावतो, पगेव अभिसम्परायं.
अयाचितो ततागच्छीति ततो परलोकतो केनचि अयाचितो इध आगच्छि. ‘‘आगतो’’तिपि पाळि, सो एवत्थो. नानुञ्ञातो इतो गतोति इधलोकतो केनचि अननुञ्ञातो परलोकं गतो. कुतोचीति निरयादितो यतो कुतोचि गतितो. नूनाति परिसङ्कायं. वसित्वा कतिपाहकन्ति कतिपयदिवसमत्तं इध वसित्वा. इतोपि अञ्ञेन गतोति इतोपि भवतो अञ्ञेन गतो, इतो अञ्ञम्पि भवं पटिसन्धिवसेन उपगतो. ततोपञ्ञेन गच्छतीति ततोपि भवतो अञ्ञेन गमिस्सति, अञ्ञमेव भवं उपगमिस्सति.
पेतोति अपेतो तं तं भवं उपपज्जित्वा ततो अपगतो. मनुस्सरूपेनाति निदस्सनमत्तमेतं, मनुस्सभावेन तिरच्छानादिभावेन चाति अत्थो. संसरन्तोति अपरापरं उपपत्तिवसेन संसरन्तो. यथागतो तथा गतोति यथा अविञ्ञातगतितो च अनामन्तेत्वा आगतो तथा अविञ्ञातगतिको अननुञ्ञातोव गतो. का तत्थ परिदेवनाति तत्थ तादिसे अवसवत्तिनि यथाकामावचरे का नाम परिदेवना, किं परिदेवितेन पयोजनन्ति अत्थो. सेसं वुत्तनयमेव.
एत्थ च आदितो चतस्सो गाथा पटाचाराय थेरिया तेसं पञ्चमत्तानं इत्थिसतानं सोकविनोदनवसेन विसुं विसुं भासिता. तस्सा ओवादे ठत्वा पब्बजित्वा अधिगतविसेसाहि ताहि पञ्चसतमत्ताहि भिक्खुनीहि छपि गाथा पच्चेकं भासिताति दट्ठब्बा.
पञ्चसता पटाचाराति पटाचाराय थेरिया सन्तिके लद्धओवादताय पटाचाराय वुत्तं अवेदिसुन्ति कत्वा ‘‘पटाचारा’’ति लद्धनामा पञ्चसता भिक्खुनियो.
पञ्चसतमत्ताथेरीगाथावण्णना निट्ठिता.
२. वासेट्ठीथेरीगाथावण्णना
पुत्तसोकेनहं अट्टातिआदिका वासेट्ठिया थेरिया गाथा. अयम्पि पुरिमबुद्धेसु कताधिकारा तत्थ तत्थ भवे विवट्टूपनिस्सयं कुसलं उपचिनन्ती अनुक्कमेन सम्भतविमोक्खसम्भारा देवमनुस्सेसु संसरन्ती इमस्मिं बुद्धुप्पादे वेसालियं कुलगेहे निब्बत्तित्वा वयप्पत्ता मातापितूहि समानजातिकस्स कुलपुत्तस्स दिन्ना पतिकुलं गन्त्वा तेन सद्धिं सुखसंवासं वसन्ती एकं पुत्तं लभित्वा तस्मिं आधावित्वा परिधावित्वा विचरणकाले कालं कते पुत्तसोकेन अट्टिता उम्मत्तिका अहोसि. सा ञातकेसु सामिके च तिकिच्छं करोन्तेसु तेसं अजानन्तानंयेव पलायित्वा यतो ततो परिब्भमन्ती मिथिलानगरं सम्पत्ता तत्थद्दस भगवन्तं अन्तरवीथियं गच्छन्तं दन्तं गुत्तं संयतिन्द्रियं नागं. दिस्वान सह दस्सनेन बुद्धानुभावतो अपगतुम्मादा पकतिचित्तं पटिलभि. अथस्सा सत्था संखित्तेन धम्मं देसेसि. सा तं धम्मं सुत्वा पटिलद्धसंवेगा सत्थारं पब्बज्जं याचित्वा सत्थु आणाय भिक्खुनीसु पब्बजित्वा कतपुब्बकिच्चा विपस्सनं पट्ठपेत्वा घटेन्ती वायमन्ती परिपक्कञाणताय न चिरस्सेव सह पटिसम्भिदाहि अरहत्तं पत्वा अत्तनो पटिपत्तिं पच्चवेक्खित्वा उदानवसेन –
१३३. ‘‘पुत्तसोकेनहं अट्टा, खित्तचित्ता विसञ्ञिनी;
नग्गा पकिण्णकेसी च, तेन तेन विचारिहं.
१३४. ‘‘वीथिसङ्कारकूटेसु, सुसाने रथियासु च;
अचरिं तीणि वस्सानि, खुप्पिपासा समप्पिता.
१३५. ‘‘अथद्दसासिं सुगतं, नगरं मिथिलं पति;
अदन्तानं दमेतारं, सम्बुद्धमकुतोभयं.
१३६. ‘‘सचित्तं पटिलद्धान, वन्दित्वान उपाविसिं;
सो मे धम्ममदेसेसि, अनुकम्पाय गोतमो.
१३७. ‘‘तस्स धम्मं सुणित्वान, पब्बजिं अनगारियं;
युञ्जन्ती सत्थुवचने, सच्छाकासिं पदं सिवं.
१३८. ‘‘सब्बे सोका समुच्छिन्ना, पहीना एतदन्तिका;
परिञ्ञाता हि मे वत्थू, यतो सोकान सम्भवो’’ति. –
इमा गाथा अभासि.
तत्थ अट्टाति अट्टिता. अयमेव वा पाठो, अट्टिता पीळिताति अत्थो. खित्तचित्ताति सोकुम्मादेन खित्तहदया. ततो एव पकतिसञ्ञाय विगमेन विसञ्ञिनी. हिरोत्तप्पाभावतो अपगतवत्थताय नग्गा. विधुतकेसताय पकिण्णकेसी. तेन तेनाति गामेन गामं नगरेन नगरं वीथिया वीथिं विचरिं अहं.
अथाति पच्छा उम्मादसंवत्तनियस्स कम्मस्स परिक्खये. सुगतन्ति सोभनगमनत्ता सुन्दरं ठानं गतत्ता सम्मा गदत्ता सम्मा च गतत्ता सुगतं भगवन्तं. मिथिलं पतीति मिथिलाभिमुखं, मिथिलानगराभिमुखं गच्छन्तन्ति अत्थो.
सचित्तं पटिलद्धानाति बुद्धानुभावेन उम्मादं पहाय अत्तनो पकतिचित्तं पटिलभित्वा.
युञ्जन्ती सत्थुवचनेति सत्थु सम्मासम्बुद्धस्स सासने योगं करोन्ती भावनं अनुयुञ्जन्ती. सच्छाकासिं पदं सिवन्ति सिवं खेमं चतूहि योगेहि अनुपद्दुतं निब्बानं पदं सच्छिअकासिं.
एतदन्तिकाति एतं इदानि मया अधिगतं अरहत्तं अन्तो परियोसानं एतेसन्ति एतदन्तिका, सोका. न दानि तेसं सम्भवो अत्थीति अत्थो. यतो सोकान सम्भवोति यतो अन्तोनिज्झानलक्खणानं सोकानं सम्भवो, तेसं सोकानं पञ्चुपादानक्खन्धसङ्खाता वत्थू अधिट्ठानानि ञाततीरणपहानपरिञ्ञाहि परिञ्ञाता. तस्मा सोका एतदन्तिकाति योजना.
वासेट्ठीथेरीगाथावण्णना निट्ठिता.
३. खेमाथेरीगाथावण्णना
दहरा त्वं रूपवतीतिआदिका खेमाय थेरिया गाथा. अयं किर पदुमुत्तरस्स भगवतो काले हंसवतीनगरे पराधीनवुत्तिका परेसं दासी अहोसि. सा परेसं वेय्यावच्चकरणेन जीविकं कप्पेन्ती एकदिवसं पदुमुत्तरस्स सम्मासम्बुद्धस्स अग्गसावकं सुजातत्थेरं पिण्डाय चरन्तं दिस्वा तयो मोदके दत्वा तंदिवसमेव अत्तनो केसे विस्सज्जेत्वा थेरस्स दानं दत्वा ‘‘अनागते महापञ्ञा बुद्धस्स साविका भवेय्य’’न्ति पत्थनं कत्वा यावजीवं कुसलकम्मे अप्पमत्ता हुत्वा देवमनुस्सेसु संसरन्ती अनुक्कमेन छकामसग्गे, तेसं तेसं देवराजूनं महेसिभावेन उपपन्ना, मनुस्सलोकेपि अनेकवारं चक्कवत्तीनं मण्डलराजूनञ्च महेसिभावं उपगता महासम्पत्तियो अनुभवित्वा विपस्सिस्स भगवतो काले मनुस्सलोके उप्पज्जित्वा विञ्ञुतं पत्वा, सत्थु सन्तिके धम्मं सुत्वा पटिलद्धसंवेगा पब्बजित्वा दसवस्ससहस्सानि ब्रह्मचरियं चरन्ती बहुस्सुता धम्मकथिका हुत्वा बहुजनस्स धम्मकथनादिना पञ्ञासंवत्तनियकम्मं कत्वा ततो चवित्वा सुगतीसुयेव संसरन्ती इमस्मिं कप्पे भगवतो च ककुसन्धस्स भगवतो च कोणागमनस्स काले विभवसम्पन्ने कुले निब्बत्तित्वा विञ्ञुतं पत्वा महन्तं सङ्घारामं कारेत्वा बुद्धप्पमुखस्स भिक्खुसङ्घस्स निय्यादेसि.
भगवतो पन कस्सपदसबलस्स काले किकिस्स कासिरञ्ञो सब्बजेट्ठिका समणी नाम धीता हुत्वा, सत्थु सन्तिके धम्मं सुत्वा पटिलद्धसंवेगा अगारेयेव ठिता, वीसति वस्ससहस्सानि कोमारिब्रह्मचरियं चरन्ती समणगुत्तादीहि अत्तनो भगिनीहि सद्धिं रमणीयं परिवेणं कारेत्वा बुद्धप्पमुखस्स भिक्खुसङ्घस्स निय्यादेसि. एवमेव तत्थ तत्थ भवे आयतनगतं उळारं पुञ्ञकम्मं कत्वा सुगतीसुयेव संसरित्वा इमस्मिं बुद्धुप्पादे मद्दरट्ठे साकलनगरे राजकुले निब्बत्ति. खेमातिस्सा नामं अहोसि, सुवण्णवण्णा कञ्चनसन्निभत्तचा. सा वयप्पत्ता बिम्बिसाररञ्ञो गेहं गता. सत्थरि वेळुवने विहरन्ते रूपमत्ता हुत्वा ‘‘रूपे दोसं दस्सेती’’ति सत्थु दस्सनाय न गच्छति.
राजा मनुस्सेहि वेळुवनस्स वण्णे पकासापेत्वा देविया विहारदस्सनाय चित्तं उप्पादेसि. अथ देवी ‘‘विहारं पस्सिस्सामी’’ति राजानं पटिपुच्छि. राजा ‘‘विहारं गन्त्वा सत्थारं अदिस्वा आगन्तुं न लभिस्ससी’’ति वत्वा पुरिसानं सञ्ञं अदासि – ‘‘बलक्कारेनपि देविं दसबलं दस्सेथा’’ति. देवी विहारं गन्त्वा दिवसभागं खेपेत्वा निवत्तेन्ती सत्थारं अदिस्वाव गन्तुं आरद्धा. अथ नं राजपुरिसा अनिच्छन्तिम्पि सत्थु सन्तिकं नयिंसु. सत्था तं आगच्छन्तिं दिस्वा इद्धिया देवच्छरासदिसं इत्थिं निम्मिनित्वा तालपण्णं गहेत्वा बीजयमानं अकासि. खेमा देवी तं दिस्वा चिन्तेसि – ‘‘एवरूपा नाम देवच्छरपटिभागा इत्थियो भगवतो अविदूरे तिट्ठन्ति, अहं एतासं परिचारिकतायपि नप्पहोमि, मनम्पि निक्कारणा पापचित्तस्स वसेन नट्ठा’’ति निमित्तं गहेत्वा तमेव इत्थिं ओलोकयमाना अट्ठासि. अथस्सा पस्सन्तियाव सत्थु अधिट्ठानबलेन सा इत्थी पठमवयं अतिक्कम्म मज्झिमवयम्पि अतिक्कम्म पच्छिमवयं पत्वा खण्डदन्ता पलितकेसा वलित्तचा हुत्वा सद्धिं तालपण्णेन परिवत्तित्वा पति. ततो खेमा कताधिकारत्ता एवं चिन्तेसि – ‘‘एवंविधम्पि सरीरं ईदिसं विपत्तिं पापुणि, मय्हम्पि सरीरं एवंगतिकमेव भविस्सती’’ति. अथस्सा चित्ताचारं ञत्वा सत्था –
‘‘ये रागरत्तानुपतन्ति सोतं, सयं कतं मक्कटकोव जालं;
एतम्पि छेत्वान परिब्बजन्ति, अनपेक्खिनो कामसुखं पहाया’’ति. –
गाथमाह. सा गाथापरियोसाने सह पटिसम्भिदाहि अरहत्तं पापुणीति अट्ठकथासु आगतं. अपदाने पन ‘‘इमं गाथं सुत्वा सोतापत्तिफले पतिट्ठिता राजानं अनुजानापेत्वा पब्बजित्वा अरहत्तं पापुणी’’ति आगतं. तत्थायं अपदानपाळि (अप. थेरी २.२.२८९-३८३) –
‘‘पदुमुत्तरो नाम जिनो, सब्बधम्मेसु चक्खुमा;
इतो सतसहस्सम्हि, कप्पे उप्पज्जि नायको.
‘‘तदाहं हंसवतियं, जाता सेट्ठिकुले अहुं;
नानारतनपज्जोते, महासुखसमप्पिता.
‘‘उपेत्वा तं महावीरं, अस्सोसिं धम्मदेसनं;
ततो जातप्पसादाहं, उपेमि सरणं जिनं.
‘‘मातरं पितरं चाहं, आयाचित्वा विनायकं;
निमन्तयित्वा सत्ताहं, भोजयिं सहसावकं.
‘‘अतिक्कन्ते च सत्ताहे, महापञ्ञानमुत्तमं;
भिक्खुनिं एतदग्गम्हि, ठपेसि नरसारथि.
‘‘तं सुत्वा मुदिता हुत्वा, पुनो तस्स महेसिनो;
कारं कत्वान तं ठानं, पणिपच्च पणीदहिं.
‘‘ततो मम जिनो आह, सिज्झतं पणिधी तव;
ससङ्घे मे कतं कारं, अप्पमेय्यफलं तया.
‘‘सतसहस्सितो कप्पे, ओक्काककुलसम्भवो;
गोतमो नाम गोत्तेन, सत्था लोके भविस्सति.
‘‘तस्स धम्मेसु दायादा, ओरसा धम्मनिम्मिता;
एतदग्गमनुप्पत्ता, खेमा नाम भविस्सति.
‘‘तेन कम्मेन सुकतेन, चेतनापणिधीहि च;
जहित्वा मानुसं देहं, तावतिंसूपगा अहं.
‘‘ततो चुता याममगं, ततोहं तुसितं गता;
ततो च निम्मानरतिं, वसवत्तिपुरं ततो.
‘‘यत्थ यत्थूपपज्जामि, तस्स कम्मस्स वाहसा;
तत्थ तत्थेव राजूनं, महेसित्तमकारयिं.
‘‘ततो चुता मनुस्सत्ते, राजूनं चक्कवत्तिनं;
मण्डलीनञ्च राजूनं, महेसित्तमकारयिं.
‘‘सम्पत्तिं अनुभोत्वान, देवेसु मनुजेसु च;
सब्बत्थ सुखिता हुत्वा, नेककप्पेसु संसरिं.
‘‘एकनवुतितो कप्पे, विपस्सी लोकनायको;
उप्पज्जि चारुदस्सनो, सब्बधम्मविपस्सको.
‘‘तमहं लोकनायकं, उपेत्वा नरसारथिं;
धम्मं भणितं सुत्वान, पब्बजिं अनगारियं.
‘‘दसवस्ससहस्सानि, तस्स वीरस्स सासने;
ब्रह्मचरियं चरित्वान, युत्तयोगा बहुस्सुता.
‘‘पच्चयाकारकुसला, चतुसच्चविसारदा;
निपुणा चित्तकथिका, सत्थुसासनकारिका.
‘‘ततो चुताहं तुसितं, उपपन्ना यसस्सिनी;
अभिभोमि तहिं अञ्ञे, ब्रह्मचारीफलेनहं.
‘‘यत्थ यत्थूपपन्नाहं, महाभोगा महद्धना;
मेधाविनी सीलवती, विनीतपरिसापि च.
‘‘भवामि तेन कम्मेन, योगेन जिनसासने;
सब्बा सम्पत्तियो मय्हं, सुलभा मनसो पिया.
‘‘योपि मे भवते भत्ता, यत्थ यत्थ गतायपि;
विमानेति न मं कोचि, पटिपत्तिबलेन मे.
‘‘इमम्हि भद्दके कप्पे, ब्रह्मबन्धु महायसो;
नामेन कोणागमनो, उप्पज्जि वदतं वरो.
‘‘तदा हि बाराणसियं, सुसमिद्धकुलप्पजा;
धनञ्जानी सुमेधा च, अहम्पि च तयो जना.
‘‘सङ्घाराममदासिम्ह, दानसहायिका पुरे;
सङ्घस्स च विहारम्पि, उद्दिस्स कारिका मयं.
‘‘ततो चुता मयं सब्बा, तावतिंसूपगा अहुं;
यससा अग्गतं पत्ता, मनुस्सेसु तथेव च.
‘‘इमस्मिंयेव कप्पम्हि, ब्रह्मबन्धु महायसो;
कस्सपो नाम गोत्तेन, उप्पज्जि वदतं वरो.
‘‘उपट्ठाको महेसिस्स, तदा आसि नरिस्सरो;
कासिराजा किकी नाम, बाराणसिपुरुत्तमे.
‘‘तस्सासिं जेट्ठिका धीता, समणी इति विस्सुता;
धम्मं सुत्वा जिनग्गस्स, पब्बज्जं समरोचयिं.
‘‘अनुजानि न नो तातो, अगारेव तदा मयं;
वीसवस्ससहस्सानि, विचरिम्ह अतन्दिता.
‘‘कोमारिब्रह्मचरियं, राजकञ्ञा सुखेधिता;
बुद्धोपट्ठाननिरता, मुदिता सत्त धीतरो.
‘‘समणी समणगुत्ता च, भिक्खुनी भिक्खुदायिका;
धम्मा चेव सुधम्मा च, सत्तमी सङ्घदायिका.
‘‘अहं उप्पलवण्णा च, पटाचारा च कुण्डला;
किसागोतमी धम्मदिन्ना, विसाखा होति सत्तमी.
‘‘कदाचि सो नरादिच्चो, धम्मं देसेसि अब्भुतं;
महानिदानसुत्तन्तं, सुत्वा तं परियापुणिं.
‘‘तेहि कम्मेहि सुकतेहि, चेतनापणिधीहि च;
जहित्वा मानुसं देहं, तावतिंसमगच्छहं.
‘‘पच्छिमे च भवे दानि, साकलाय पुरुत्तमे;
रञ्ञो मद्दस्स धीताम्हि, मनापा दयिता पिया.
‘‘सह मे जातमत्तम्हि, खेमं तम्हि पुरे अहु;
ततो खेमाति नामं मे, गुणतो उपपज्जथ.
‘‘यदाहं योब्बनं पत्ता, रूपलावञ्ञभूसिता;
तदा अदासि मं तातो, बिम्बिसारस्स राजिनो.
‘‘तस्साहं सुप्पिया आसिं, रूपकेलायने रता;
रूपानं दोसवादीति, न उपेसिं महादयं.
‘‘बिम्बिसारो तदा राजा, ममानुग्गहबुद्धिया;
वण्णयित्वा वेळुवनं, गायके गापयी ममं.
‘‘रम्मं वेळुवनं येन, न दिट्ठं सुगतालयं;
न तेन नन्दनं दिट्ठं, इति मञ्ञामसे मयं.
‘‘येन वेळुवनं दिट्ठं, नरनन्दननन्दनं;
सुदिट्ठं नन्दनं तेन, अमरिन्दसुनन्दनं.
‘‘विहाय नन्दनं देवा, ओतरित्वा महीतलं;
रम्मं वेळुवनं दिस्वा, न तप्पन्ति सुविम्हिता.
‘‘राजपुञ्ञेन निब्बत्तं, बुद्धपुञ्ञेन भूसितं;
को वत्ता तस्स निस्सेसं, वनस्स गुणसञ्चयं.
‘‘तं सुत्वा वनसमिद्धं, मम सोतमनोहरं;
दट्ठुकामा तमुय्यानं, रञ्ञो आरोचयिं तदा.
‘‘महता परिवारेन, तदा च सो महीपति;
मं पेसेसि तमुय्यानं, दस्सनाय समुस्सुकं.
‘‘गच्छ पस्स महाभोगे, वनं नेत्तरसायनं;
यं सदा भाति सिरिया, सुगताभानुरञ्जितं.
‘‘यदा च पिण्डाय मुनि, गिरिब्बजपुरुत्तमं;
पविट्ठोहं तदायेव, वनं दट्ठुमुपागमिं.