६. महापजापतिगोतमीथेरीगाथावण्णना
बुद्ध वीर नमो त्यत्थूतिआदिका महापजापतिगोतमिया गाथा. अयम्पि किर पदुमुत्तरस्स भगवतो काले हंसवतीनगरे कुलगेहे निब्बत्तित्वा विञ्ञुतं पत्वा सत्थु सन्तिके धम्मं सुणन्ती सत्थारं एकं भिक्खुनिं रत्तञ्ञूनं अग्गट्ठाने ठपेन्तं दिस्वा, अधिकारकम्मं कत्वा तं ठानन्तरं पत्थेत्वा यावजीवं दानादीनि पुञ्ञानि कत्वा कप्पसतसहस्सं देवमनुस्सेसु संसरित्वा, कस्सपस्स च भगवतो अन्तरे अम्हाकञ्च भगवतो बुद्धसुञ्ञे लोके बाराणसियं पञ्चन्नं दासिसतानं जेट्ठिका हुत्वा निब्बत्ति. अथ सा वस्सूपनायिकसमये पञ्च पच्चेकबुद्धे नन्दमूलकपब्भारतो इसिपतने ओतरित्वा, नगरे पिण्डाय चरित्वा इसिपतनमेव गन्त्वा, वस्सूपनायिकसमये कुटिया अत्थाय हत्थकम्मं परियेसन्ते दिस्वा, ता दासियो तासं अत्तनो च सामिके समादपेत्वा चङ्कमादिपरिवारसम्पन्ना पञ्च कुटियो कारेत्वा, मञ्चपीठपानीयपरिभोजनीयभाजनादीनि उपट्ठपेत्वा पच्चेकबुद्धे तेमासं तत्थेव वसनत्थाय पटिञ्ञं कारेत्वा वारभिक्खं पट्ठपेसुं. या अत्तनो वारदिवसे भिक्खं दातुं न सक्कोति, तस्सा सयं सकगेहतो नीहरित्वा देति. एवं तेमासं पटिजग्गित्वा पवारणाय सम्पत्ताय एकेकं दासिं एकेकं साटकं विस्सज्जापेसि. पञ्चथूलसाटकसतानि अहेसुं. तानि परिवत्तापेत्वा पञ्चन्नं पच्चेकबुद्धानं तिचीवरानि कत्वा अदासि. पच्चेकबुद्धा तासं पस्सन्तीनंयेव आकासेन गन्धमादनपब्बतं अगमंसु.
तापि सब्बा यावजीवं कुसलं कत्वा देवलोके निब्बत्तिंसु. तासं जेट्ठिका ततो चवित्वा बाराणसिया अविदूरे पेसकारगामे पेसकारजेट्ठकस्स गेहे निब्बत्तित्वा विञ्ञुतं पत्वा, पदुमवतिया पुत्ते पञ्चसते पच्चेकबुद्धे दिस्वा सम्पियायमाना सब्बे वन्दित्वा भिक्खं अदासि. ते भत्तकिच्चं कत्वा गन्धमादनमेव अगमंसु. सापि यावजीवं कुसलं कत्वा देवमनुस्सेसु संसरन्ती अम्हाकं सत्थु निब्बत्तितो पुरेतरमेव देवदहनगरे महासुप्पबुद्धस्स गेहे पटिसन्धिं गण्हि, गोतमीतिस्सा गोत्तागतमेव नामं अहोसि; महामायाय कनिट्ठभगिनी. लक्खणपाठकापि ‘‘इमासं द्विन्नम्पि कुच्छियं वसिता दारका चक्कवत्तिनो भविस्सन्ती’’ति ब्याकरिंसु. सुद्धोदनमहाराजा वयप्पत्तकाले द्वेपि मङ्गलं कत्वा अत्तनो घरं अभिनेसि.
अपरभागे अम्हाकं सत्थरि उप्पज्जित्वा पवत्तितवरधम्मचक्के अनुपुब्बेन तत्थ तत्थ वेनेय्यानं अनुग्गहं करोन्ते वेसालिं उपनिस्साय कूटागारसालायं विहरन्ते सुद्धोदनमहाराजा सेतच्छत्तस्स हेट्ठा अरहत्तं सच्छिकत्वा परिनिब्बायि. अथ महापजापतिगोतमी पब्बजितुकामा हुत्वा सत्थारं एकवारं पब्बज्जं याचमाना अलभित्वा दुतियवारं केसे छिन्दापेत्वा कासायानि अच्छादेत्वा कलहविवादसुत्तन्तदेसनापरियोसाने (सु. नि. ८६८ आदयो) निक्खमित्वा पब्बजितानं पञ्चन्नं सक्यकुमारसतानं पादपरिचारिकाहि सद्धिं वेसालिं गन्त्वा आनन्दत्थेरं सत्थारं याचापेत्वा अट्ठहि गरुधम्मेहि (अ. नि. ८.५१; चूळव. ४०३) पब्बज्जञ्च उपसम्पदञ्च पटिलभि. इतरा पन सब्बापि एकतोउपसम्पन्ना अहेसुं. अयमेत्थ सङ्खेपो, वित्थारतो पनेतं वत्थु पाळियं आगतमेव.
एवं उपसम्पन्ना पन महापजापतिगोतमी सत्थारं उपसङ्कमित्वा अभिवादेत्वा एकमन्तं अट्ठासि. अथस्सा सत्था धम्मं देसेसि. सा सत्थु सन्तिके कम्मट्ठानं गहेत्वा भावनमनुयुञ्जन्ती न चिरस्सेव अभिञ्ञापटिसम्भिदापरिवारं अरहत्तं पापुणि. सेसा पन पञ्चसता भिक्खुनियो नन्दकोवादपरियोसाने (म. नि. ३.३९८ आदयो) छळभिञ्ञा अहेसुं. अथेकदिवसं सत्था जेतवनमहाविहारे अरियगणमज्झे निसिन्नो भिक्खुनियो ठानन्तरे ठपेन्तो महापजापतिगोतमिं रत्तञ्ञूनं भिक्खुनीनं अग्गट्ठाने ठपेसि. सा फलसुखेन निब्बानसुखेन च वीतिनामेन्ती कतञ्ञुताय ठत्वा एकदिवसं सत्थु गुणाभित्थवनपुब्बकउपकारकविभावनामुखेन अञ्ञं ब्याकरोन्ती –
१५७. ‘‘बुद्धवीर नमो त्यत्थु, सब्बसत्तानमुत्तम;
यो मं दुक्खा पमोचेसि, अञ्ञञ्च बहुकं जनं.
१५८. ‘‘सब्बदुक्खं परिञ्ञातं, हेतुतण्हा विसोसिता;
भावितो अट्ठङ्गिको मग्गो, निरोधो फुसितो मया.
१५९. ‘‘माता पुत्तो पिता भाता, अय्यका च पुरे अहुं;
यथाभुच्चमजानन्ती, संसरिंहं अनिब्बिसं.
१६०. ‘‘दिट्ठो हि मे सो भगवा, अन्तिमोयं समुस्सयो;
विक्खीणो जातिसंसारो, नत्थि दानि पुनब्भवो.
१६१. ‘‘आरद्धवीरिये पहितत्ते, निच्चं दळ्हपरक्कमे;
समग्गे सावके पस्से, एसा बुद्धान वन्दना.
१६२. ‘‘बहूनं वत अत्थाय, माया जनयि गोतमं;
ब्याधिमरणतुन्नानं, दुक्खक्खन्धं ब्यपानुदी’’ति. – इमा गाथा अभासि;
तत्थ बुद्धवीराति चतुसच्चबुद्धेसु वीर, सब्बबुद्धा हि उत्तमवीरियेहि चतुसच्चबुद्धेहि वा चतुब्बिधसम्मप्पधानवीरियनिप्फत्तिया विजितविजयत्ता वीरा नाम. भगवा पन वीरियपारमिपारिपूरिया चतुरङ्गसमन्नागतवीरियाधिट्ठानेन सातिसयचतुब्बिधसम्मप्पधानकिच्चनिप्फत्तिया तस्सा च वेनेय्यसन्ताने सम्मदेव पतिट्ठापितत्ता विसेसतो वीरिययुत्तताय वीरोति वत्तब्बतं अरहति. नमो त्यत्थूति नमो नमक्कारो ते होतु. सब्बसत्तानमुत्तमाति अपदादिभेदेसु सत्तेसु सीलादिगुणेहि उत्तमो भगवा. तदेकदेसं सत्थुपकारगुणं दस्सेतुं, ‘‘यो मं दुक्खा पमोचेसि, अञ्ञञ्च बहुकं जन’’न्ति वत्वा अत्तनो दुक्खा पमुत्तभावं विभावेन्ती ‘‘सब्बदुक्ख’’न्ति गाथमाह.
पुन यतो पमोचेसि, तं वट्टदुक्खं एकदेसेन दस्सेन्ती ‘‘माता पुत्तो’’ति गाथमाह. तत्थ यथाभुच्चमजानन्तीति पवत्तिहेतुआदिं यथाभूतं अनवबुज्झन्ती. संसरिंहं अनिब्बिसन्ति संसारसमुद्दे पतिट्ठं अविन्दन्ती अलभन्ती भवादीसु अपरापरुप्पत्तिवसेन संसरिं अहन्ति कथेन्ती आह ‘‘माता पुत्तो’’तिआदि. यस्मिं भवे एतस्स माता अहोसि, ततो अञ्ञस्मिं भवे तस्सेव पुत्तो, ततो अञ्ञस्मिं भवे पिता भाता अहूति अत्थो.
‘‘दिट्ठो हि मे’’ति गाथायपि अत्तनो दुक्खतो पमुत्तभावमेव विभावेति. तत्थ दिट्ठो हि मे सो भगवाति सो भगवा सम्मासम्बुद्धो अत्तना दिट्ठलोकुत्तरधम्मदस्सनेन ञाणचक्खुना मया पच्चक्खतो दिट्ठो. यो हि धम्मं पस्सति, सो भगवन्तं पस्सति नाम. यथाह – ‘‘यो खो, वक्कलि, धम्मं पस्सति, सो मं पस्सती’’तिआदि (सं. नि. ३.८७).
आरद्धवीरियेति पग्गहितवीरिये. पहितत्तेति निब्बानं पेसितचित्ते. निच्चं दळ्हपरक्कमेति अपत्तस्स पत्तिया पत्तस्स वेपुल्लत्थाय सब्बकालं थिरपरक्कमे. समग्गेति सीलदिट्ठिसामञ्ञेन संहतभावेन समग्गे. सत्थुदेसनाय सवनन्ते जातत्ता सावके, ‘‘इमे मग्गट्ठा इमे फलट्ठा’’ति याथावतो पस्सति. एसा बुद्धान वन्दनाति या सत्थु धम्मसरीरभूतस्स अरियसावकानं अरियभावभूतस्स च लोकुत्तरधम्मस्स अत्तपच्चक्खकिरिया, एसा सम्मासम्बुद्धानं सावकबुद्धानञ्च वन्दना याथावतो गुणनिन्नता.
‘‘बहूनं वत अत्थाया’’ति ओसानगाथायपि सत्थु लोकस्स बहूपकारतंयेव विभावेति. यं पनेत्थ अत्थतो न विभत्तं, तं सुविञ्ञेय्यमेव.
अथेकदा महापजापतिगोतमी सत्थरि वेसालियं विहरन्ते महावने कूटागारसालायं सयं वेसालियं भिक्खुनुपस्सये विहरन्ती पुब्बण्हसमयं वेसालियं पिण्डाय चरित्वा भत्तं भुञ्जित्वा अत्तनो दिवाट्ठाने यथापरिच्छिन्नकालं फलसमापत्तिसुखेन वीतिनामेत्वा फलसमापत्तितो वुट्ठाय अत्तनो पटिपत्तिं पच्चवेक्खित्वा सोमनस्सजाता अत्तनो आयुसङ्खारे आवज्जेन्ती तेसं खीणभावं ञत्वा एवं चिन्तेसि – ‘‘यंनूनाहं विहारं गन्त्वा भगवन्तं अनुजानापेत्वा मनोभावनीये च थेरे सब्बेव सब्रह्मचरिये आपुच्छित्वा इधेव आगन्त्वा परिनिब्बायेय्य’’न्ति. यथा च थेरिया, एवं तस्सा परिवारभूतानं पञ्चन्नं भिक्खुनिसतानं परिवितक्को अहोसि. तेन वुत्तं अपदाने (अप. थेरी २.२.९७-२८८) –
‘‘एकदा लोकपज्जोतो, वेसालियं महावने;
कूटागारे कुसालायं, वसते नरसारथि.
‘‘तदा जिनस्स मातुच्छा, महागोतमि भिक्खुनी;
तहिं कते पुरे रम्मे, वसी भिक्खुनुपस्सये.
‘‘भिक्खुनीहि विमुत्ताहि, सतेहि सह पञ्चहि;
रहोगताय तस्सेवं, चितस्सासि वितक्कितं.
‘‘बुद्धस्स परिनिब्बानं, सावकग्गयुगस्स वा;
राहुलानन्दनन्दानं, नाहं लच्छामि पस्सितुं.
‘‘बुद्धस्स परिनिब्बाना, सावकग्गयुगस्स वा;
महाकस्सपनन्दानं, आनन्दराहुलान च.
‘‘पटिकच्चायुसङ्खारं, ओसज्जित्वान निब्बुतिं;
गच्छेय्यं लोकनाथेन, अनुञ्ञाता महेसिना.
‘‘तथा पञ्चसतानम्पि, भिक्खुनीनं वितक्कितं;
आसि खेमादिकानम्पि, एतदेव वितक्कितं.
‘‘भूमिचालो तदा असि, नादिता देवदुन्दुभी;
उपस्सयाधिवत्थायो, देवता सोकपीळिता.
‘‘विलपन्ता सुकरुणं, तत्थस्सूनि पवत्तयुं;
मित्ता भिक्खुनियो ताहि, उपगन्त्वान गोतमिं.
‘‘निपच्च सिरसा पादे, इदं वचनमब्रवुं;
तत्थ तोयलवासित्ता, मयमय्ये रहोगता.
‘‘सा चला चलिता भूमि, नादिता देवदुन्दुभी;
परिदेवा च सुय्यन्ते, किमत्थं नून गोतमी.
‘‘तदा अवोच सा सब्बं, यथापरिवितक्कितं;
तायोपि सब्बा आहंसु, यथापरिवितक्कितं.
‘‘यदि ते रुचितं अय्ये, निब्बानं परमं सिवं;
निब्बायिस्साम सब्बापि, बुद्धानुञ्ञाय सुब्बते.
‘‘मयं सहाव निक्खन्ता, घरापि च भवापि च;
सहायेव गमिस्साम, निब्बानं पदमुत्तमं.
‘‘निब्बानाय वजन्तीनं, किं वक्खामीति सा वदं;
सह सब्बाहि निग्गञ्छि, भिक्खुनीनिलया तदा.
‘‘उपस्सये याधिवत्था, देवता ता खमन्तु मे;
भिक्खुनीनिलयस्सेदं, पच्छिमं दस्सनं मम.
‘‘न जरा मच्चु वा यत्थ, अप्पियेहि समागमो;
पियेहि न वियोगोत्थि, तं वजिस्सं असङ्खतं.
‘‘अवीतरागा तं सुत्वा, वचनं सुगतोरसा;
सोकट्टा परिदेविंसु, अहो नो अप्पपुञ्ञता.
‘‘भिक्खुनीनिलयो सुञ्ञो, भूतो ताहि विना अयं;
पभाते विय तारायो, न दिस्सन्ति जिनोरसा.
‘‘निब्बानं गोतमी याति, सतेहि सह पञ्चहि;
नदीसतेहिव सह, गङ्गा पञ्चहि सागरं.
‘‘रथियाय वजन्तियो, दिस्वा सद्धा उपासिका;
घरा निक्खम्म पादेसु, निपच्च इदमब्रवुं.
‘‘पसीदस्सु महाभोगे, अनाथायो विहाय नो;
तया न युत्ता निब्बातुं, इच्छट्टा विलपिंसु ता.
‘‘तासं सोकपहानत्थं, अवोच मधुरं गिरं;
रुदितेन अलं पुत्ता, हासकालोयमज्ज वो.
‘‘परिञ्ञातं मया दुक्खं, दुक्खहेतु विवज्जितो;
निरोधो मे सच्छिकतो, मग्गो चापि सुभावितो.
‘‘परिचिण्णो मया सत्था, कतं बुद्धस्स सासनं;
ओहितो गरुको भारो, भवनेत्ति समूहता.
‘‘यस्सत्थाय पब्बजिता, अगारस्मानगारियं;
सो मे अत्थो अनुप्पत्तो, सब्बसंयोजनक्खयो.
‘‘बुद्धो तस्स च सद्धम्मो, अनूनो याव तिट्ठति;
निब्बातुं ताव कालो मे, मा मं सोचथ पुत्तिका.
‘‘कोण्डञ्ञानन्दनन्दादी, तिट्ठन्ति राहुलो जिनो;
सुखितो सहितो सङ्घो, हतदब्बा च तित्थिया.
‘‘ओक्काकवंसस्स यसो, उस्सितो मारमद्दनो;
ननु सम्पति कालो मे, निब्बानत्थाय पुत्तिका.
‘‘चिरप्पभुति यं मय्हं, पत्थितं अज्ज सिज्झते;
आनन्दभेरिकालोयं, किं वो अस्सूहि पुत्तिका.
‘‘सचे मयि दया अत्थि, यदि चत्थि कतञ्ञुता;
सद्धम्मट्ठितिया सब्बा, करोथ वीरियं दळ्हं.
‘‘थीनं अदासि पब्बज्जं, सम्बुद्धो याचितो मया;
तस्मा यथाहं नन्दिस्सं, तथा तमनुतिट्ठथ.
‘‘ता एवमनुसासित्वा, भिक्खुनीहि पुरक्खता;
उपेच्च बुद्धं वन्दित्वा, इदं वचनमब्रवि.
‘‘अहं सुगत ते माता, त्वञ्च वीर पिता मम;
सद्धम्मसुखद नाथ, तयि जाताम्हि गोतम.
‘‘संवद्धितोयं सुगत, रूपकायो मया तव;
अनिन्दितो धम्मकायो, मम संवद्धितो तया.
‘‘मुहुत्तं तण्हासमणं, खीरं त्वं पायितो मया;
तयाहं सन्तमच्चन्तं, धम्मखीरञ्हि पायिता.
‘‘बन्धनारक्खणे मय्हं, अणणो त्वं महामुने;
पुत्तकामा थियो याचं, लभन्ति तादिसं सुतं.
‘‘मन्धातादिनरिन्दानं, या माता सा भवण्णवे;
निमुग्गाहं तया पुत्त, तारिता भवसागरा.
‘‘रञ्ञो माता महेसीति, सुलभं नाममित्थिनं;
बुद्धमाताति यं नामं, एतं परमदुल्लभं.
‘‘तञ्च लद्धं महावीर, पणिधानं ममं तया;
अणुकं वा महन्तं वा, तं सब्बं पूरितं मया.
‘‘परिनिब्बातुमिच्छामि, विहायेमं कळेवरं;
अनुजानाहि मे वीर, दुक्खन्तकर नायक.
‘‘चक्कङ्कुसधजाकिण्णे, पादे कमलकोमले;
पसारेहि पणामं ते, करिस्सं पुत्तउत्तमे.
‘‘सुवण्णरासिसङ्कासं, सरीरं कुरु पाकटं;
कत्वा देहं सुदिट्ठं ते, सन्तिं गच्छामि नायक.
‘‘द्वत्तिंसलक्खणूपेतं, सुप्पभालङ्कतं तनुं;
सञ्झाघनाव बालक्कं, मातुच्छं दस्सयी जिनो.
‘‘फुल्लारविन्दसंकासे, तरुणादिच्चसप्पभे;
चक्कङ्किते पादतले, ततो सा सिरसा पति.
‘‘पणमामि नरादिच्च, आदिच्चकुलकेतुकं;
पच्छिमे मरणे मय्हं, न तं इक्खामहं पुनो.
‘‘इत्थियो नाम लोकग्ग, सब्बदोसाकरा मता;
यदि को चत्थि दोसो मे, खमस्सु करुणाकर.
‘‘इत्थिकानञ्च पब्बज्जं, हं तं याचिं पुनप्पुनं;
तत्थ चे अत्थि दोसो मे, तं खमस्सु नरासभ.
‘‘मया भिक्खुनियो वीर, तवानुञ्ञाय सासिता;
तत्र चे अत्थि दुन्नीतं, तं खमस्सु खमाधिप.
‘‘अक्खन्ते नाम खन्तब्बं, किं भवे गुणभूसने;
किमुत्तरं ते वत्थामि, निब्बानाय वजन्तिया.
‘‘सुद्धे अनूने मम भिक्खुसङ्घे, लोका इतो निस्सरितुं खमन्ते;
पभातकाले ब्यसनङ्गतानं, दिस्वान निय्यातिव चन्दलेखा.
‘‘तदेतरा भिक्खुनियो जिनग्गं, ताराव चन्दानुगता सुमेरुं;
पदक्खिणं कच्च निपच्च पादे, ठिता मुखन्तं समुदिक्खमाना.
‘‘न तित्तिपुब्बं तव दस्सनेन, चक्खुं न सोतं तव भासितेन;
चित्तं ममं केवलमेकमेव, पप्पुय्य तं धम्मरसेन तित्ति.
‘‘नदतो परिसायं ते, वादितब्बपहारिनो;
ये ते दक्खन्ति वदनं, धञ्ञा ते नरपुङ्गव.
‘‘दीघङ्गुली तम्बनखे, सुभे आयतपण्हिके;
ये पादे पणमिस्सन्ति, तेपि धञ्ञा गुणन्धर.
‘‘मधुरानि पहट्ठानि, दोसग्घानि हितानि च;
ये ते वाक्यानि सुय्यन्ति, तेपि धञ्ञा नरुत्तम.
‘‘धञ्ञाहं ते महावीर, पादपूजनतप्परा;
तिण्णसंसारकन्तारा, सुवाक्येन सिरीमतो.
‘‘ततो सा अनुसावेत्वा, भिक्खुसङ्घम्पि सुब्बता;
राहुलानन्दनन्दे च, वन्दित्वा इदमब्रवि.
‘‘आसीविसालयसमे, रोगावासे कळेवरे;
निब्बिन्दा दुक्खसङ्घाटे, जरामरणगोचरे.
‘‘नानाकलिमलाकिण्णे, परायत्ते निरीहके;
तेन निब्बातुमिच्छामि, अनुमञ्ञथ पुत्तका.
‘‘नन्दो राहुलभद्दो च, वीतसोका निरासवा;
ठिताचलट्ठिति थिरा, धम्मतमनुचिन्तयुं.
‘‘धिरत्थु सङ्खतं लोलं, असारं कदलूपमं;
मायामरीचिसदिसं, इत्तरं अनवट्ठितं.
‘‘यत्थ नाम जिनस्सायं, मातुच्छा बुद्धपोसिका;
गोतमी निधनं याति, अनिच्चं सब्बसङ्खतं.
‘‘आनन्दो च तदा सेखो, सोकट्टो जिनवच्छलो;