४. सुजाताथेरीगाथावण्णना
अलङ्कता सुवसनातिआदिका सुजाताय थेरिया गाथा. अयम्पि पुरिमबुद्धेसु कताधिकारा तत्थ तत्थ भवे विवट्टूपनिस्सयं कुसलं उपचिनन्ती अनुक्कमेन सम्भतविमोक्खसम्भारा हुत्वा इमस्मिं बुद्धुप्पादे साकेतनगरे सेट्ठिकुले निब्बत्तित्वा वयप्पत्ता मातापितूहि समानजातिकस्स सेट्ठिपुत्तस्स दिन्ना हुत्वा पतिकुलं गता. तत्थ तेन सद्धिं सुखसंवासं वसन्ती एकदिवसं उय्यानं गन्त्वा नक्खत्तकीळं कीळित्वा परिजनेन सद्धिं नगरं आगच्छन्ती अञ्जनवने सत्थारं दिस्वा पसन्नमानसा उपसङ्कमित्वा वन्दित्वा एकमन्तं निसीदि. सत्था तस्सा अनुपुब्बिं कथं कथेत्वा कल्लचित्ततं ञत्वा उपरि सामुक्कंसिकं धम्मदेसनं पकासेसि. सा देसनावसाने अत्तनो कताधिकारताय ञाणस्स परिपाकं गतत्ता च, सत्थु च देसनाविलासेन यथानिसिन्नाव सह पटिसम्भिदाहि अरहत्तं पत्वा सत्थारं वन्दित्वा गेहं गन्त्वा सामिकञ्च मातापितरो च अनुजानापेत्वा सत्थुआणाय भिक्खुनुपस्सयं गन्त्वा भिक्खुनीनं सन्तिके पब्बजि. पब्बजित्वा च अत्तनो पटिपत्तिं पच्चवेक्खित्वा उदानवसेन –
१४५. ‘‘अलङ्कता सुवसना, मालिनी चन्दनोक्खिता;
सब्बाभरणसञ्छन्ना, दासीगणपुरक्खता.
१४६. ‘‘अन्नं पानञ्च आदाय, खज्जं भोज्जं अनप्पकं;
गेहतो निक्खमित्वान, उय्यानमभिहारयिं.
१४७. ‘‘तत्थ रमित्वा कीळित्वा, आगच्छन्ती सकं घरं;
विहारं दट्ठुं पाविसिं, साकेते अञ्जनं वनं.
१४८. ‘‘दिस्वान लोकपज्जोतं, वन्दित्वान उपाविसिं;
सो मे धम्ममदेसेसि, अनुकम्पाय चक्खुमा.
१४९. ‘‘सुत्वा च खो महेसिस्स, सच्चं सम्पटिविज्झहं;
तत्थेव विरजं धम्मं, फुसयिं अमतं पदं.
१५०. ‘‘ततो विञ्ञातसद्धम्मा, पब्बजिं अनगारियं;
तिस्सो विज्जा अनुप्पत्ता, अमोघं बुद्धसासन’’न्ति. –
इमा गाथा अभासि.
तत्थ अलङ्कताति विभूसिता. तं पन अलङ्कताकारं दस्सेतुं ‘‘सुवसना मालिनी चन्दनोक्खिता’’ति वुत्तं. तत्थ मालिनीति मालाधारिनी. चन्दनोक्खिताति चन्दनानुलित्ता. सब्बाभरणसञ्छन्नाति हत्थूपगादीहि सब्बेहि आभरणेहि अलङ्कारवसेन सञ्छादितसरीरा.
अन्नं पानञ्च आदाय, खज्जं भोज्जं अनप्पकन्ति सालिओदनादिअन्नं, अम्बपानादिपानं, पिट्ठखादनीयादिखज्जं, अवसिट्ठं आहारसङ्खातं भोज्जञ्च पहूतं गहेत्वा. उय्यानमभिहारयिन्ति नक्खत्तकीळावसेन उय्यानं उपनेसिं. अन्नपानादिं तत्थ आनेत्वा सह परिजनेन कीळन्ती रमन्ती परिचारेसिन्ति अधिप्पायो.
साकेते अञ्जनं वनन्ति साकेतसमीपे अञ्जनवने विहारं पाविसिं.
लोकपज्जोतन्ति ञाणपज्जोतेन लोकस्स पज्जोतभूतं.
फुसयिन्ति फुसिं, अधिगच्छिन्ति अत्थो. सेसं वुत्तनयमेव.
सुजाताथेरीगाथावण्णना निट्ठिता.