३. खेमाथेरीगाथावण्णना

दहरा त्वं रूपवतीतिआदिका खेमाय थेरिया गाथा. अयं किर पदुमुत्तरस्स भगवतो काले हंसवतीनगरे पराधीनवुत्तिका परेसं दासी अहोसि. सा परेसं वेय्यावच्चकरणेन जीविकं कप्पेन्ती एकदिवसं पदुमुत्तरस्स सम्मासम्बुद्धस्स अग्गसावकं सुजातत्थेरं पिण्डाय चरन्तं दिस्वा तयो मोदके दत्वा तंदिवसमेव अत्तनो केसे विस्सज्जेत्वा थेरस्स दानं दत्वा ‘‘अनागते महापञ्ञा बुद्धस्स साविका भवेय्य’’न्ति पत्थनं कत्वा यावजीवं कुसलकम्मे अप्पमत्ता हुत्वा देवमनुस्सेसु संसरन्ती अनुक्कमेन छकामसग्गे, तेसं तेसं देवराजूनं महेसिभावेन उपपन्ना, मनुस्सलोकेपि अनेकवारं चक्कवत्तीनं मण्डलराजूनञ्च महेसिभावं उपगता महासम्पत्तियो अनुभवित्वा विपस्सिस्स भगवतो काले मनुस्सलोके उप्पज्जित्वा विञ्ञुतं पत्वा, सत्थु सन्तिके धम्मं सुत्वा पटिलद्धसंवेगा पब्बजित्वा दसवस्ससहस्सानि ब्रह्मचरियं चरन्ती बहुस्सुता धम्मकथिका हुत्वा बहुजनस्स धम्मकथनादिना पञ्ञासंवत्तनियकम्मं कत्वा ततो चवित्वा सुगतीसुयेव संसरन्ती इमस्मिं कप्पे भगवतो च ककुसन्धस्स भगवतो च कोणागमनस्स काले विभवसम्पन्ने कुले निब्बत्तित्वा विञ्ञुतं पत्वा महन्तं सङ्घारामं कारेत्वा बुद्धप्पमुखस्स भिक्खुसङ्घस्स निय्यादेसि.

भगवतो पन कस्सपदसबलस्स काले किकिस्स कासिरञ्ञो सब्बजेट्ठिका समणी नाम धीता हुत्वा, सत्थु सन्तिके धम्मं सुत्वा पटिलद्धसंवेगा अगारेयेव ठिता, वीसति वस्ससहस्सानि कोमारिब्रह्मचरियं चरन्ती समणगुत्तादीहि अत्तनो भगिनीहि सद्धिं रमणीयं परिवेणं कारेत्वा बुद्धप्पमुखस्स भिक्खुसङ्घस्स निय्यादेसि. एवमेव तत्थ तत्थ भवे आयतनगतं उळारं पुञ्ञकम्मं कत्वा सुगतीसुयेव संसरित्वा इमस्मिं बुद्धुप्पादे मद्दरट्ठे साकलनगरे राजकुले निब्बत्ति. खेमातिस्सा नामं अहोसि, सुवण्णवण्णा कञ्चनसन्निभत्तचा. सा वयप्पत्ता बिम्बिसाररञ्ञो गेहं गता. सत्थरि वेळुवने विहरन्ते रूपमत्ता हुत्वा ‘‘रूपे दोसं दस्सेती’’ति सत्थु दस्सनाय न गच्छति.

राजा मनुस्सेहि वेळुवनस्स वण्णे पकासापेत्वा देविया विहारदस्सनाय चित्तं उप्पादेसि. अथ देवी ‘‘विहारं पस्सिस्सामी’’ति राजानं पटिपुच्छि. राजा ‘‘विहारं गन्त्वा सत्थारं अदिस्वा आगन्तुं न लभिस्ससी’’ति वत्वा पुरिसानं सञ्ञं अदासि – ‘‘बलक्कारेनपि देविं दसबलं दस्सेथा’’ति. देवी विहारं गन्त्वा दिवसभागं खेपेत्वा निवत्तेन्ती सत्थारं अदिस्वाव गन्तुं आरद्धा. अथ नं राजपुरिसा अनिच्छन्तिम्पि सत्थु सन्तिकं नयिंसु. सत्था तं आगच्छन्तिं दिस्वा इद्धिया देवच्छरासदिसं इत्थिं निम्मिनित्वा तालपण्णं गहेत्वा बीजयमानं अकासि. खेमा देवी तं दिस्वा चिन्तेसि – ‘‘एवरूपा नाम देवच्छरपटिभागा इत्थियो भगवतो अविदूरे तिट्ठन्ति, अहं एतासं परिचारिकतायपि नप्पहोमि, मनम्पि निक्कारणा पापचित्तस्स वसेन नट्ठा’’ति निमित्तं गहेत्वा तमेव इत्थिं ओलोकयमाना अट्ठासि. अथस्सा पस्सन्तियाव सत्थु अधिट्ठानबलेन सा इत्थी पठमवयं अतिक्कम्म मज्झिमवयम्पि अतिक्कम्म पच्छिमवयं पत्वा खण्डदन्ता पलितकेसा वलित्तचा हुत्वा सद्धिं तालपण्णेन परिवत्तित्वा पति. ततो खेमा कताधिकारत्ता एवं चिन्तेसि – ‘‘एवंविधम्पि सरीरं ईदिसं विपत्तिं पापुणि, मय्हम्पि सरीरं एवंगतिकमेव भविस्सती’’ति. अथस्सा चित्ताचारं ञत्वा सत्था –

‘‘ये रागरत्तानुपतन्ति सोतं, सयं कतं मक्कटकोव जालं;

एतम्पि छेत्वान परिब्बजन्ति, अनपेक्खिनो कामसुखं पहाया’’ति. –

गाथमाह. सा गाथापरियोसाने सह पटिसम्भिदाहि अरहत्तं पापुणीति अट्ठकथासु आगतं. अपदाने पन ‘‘इमं गाथं सुत्वा सोतापत्तिफले पतिट्ठिता राजानं अनुजानापेत्वा पब्बजित्वा अरहत्तं पापुणी’’ति आगतं. तत्थायं अपदानपाळि (अप. थेरी २.२.२८९-३८३) –

‘‘पदुमुत्तरो नाम जिनो, सब्बधम्मेसु चक्खुमा;

इतो सतसहस्सम्हि, कप्पे उप्पज्जि नायको.

‘‘तदाहं हंसवतियं, जाता सेट्ठिकुले अहुं;

नानारतनपज्जोते, महासुखसमप्पिता.

‘‘उपेत्वा तं महावीरं, अस्सोसिं धम्मदेसनं;

ततो जातप्पसादाहं, उपेमि सरणं जिनं.

‘‘मातरं पितरं चाहं, आयाचित्वा विनायकं;

निमन्तयित्वा सत्ताहं, भोजयिं सहसावकं.

‘‘अतिक्कन्ते च सत्ताहे, महापञ्ञानमुत्तमं;

भिक्खुनिं एतदग्गम्हि, ठपेसि नरसारथि.

‘‘तं सुत्वा मुदिता हुत्वा, पुनो तस्स महेसिनो;

कारं कत्वान तं ठानं, पणिपच्च पणीदहिं.

‘‘ततो मम जिनो आह, सिज्झतं पणिधी तव;

ससङ्घे मे कतं कारं, अप्पमेय्यफलं तया.

‘‘सतसहस्सितो कप्पे, ओक्काककुलसम्भवो;

गोतमो नाम गोत्तेन, सत्था लोके भविस्सति.

‘‘तस्स धम्मेसु दायादा, ओरसा धम्मनिम्मिता;

एतदग्गमनुप्पत्ता, खेमा नाम भविस्सति.

‘‘तेन कम्मेन सुकतेन, चेतनापणिधीहि च;

जहित्वा मानुसं देहं, तावतिंसूपगा अहं.

‘‘ततो चुता याममगं, ततोहं तुसितं गता;

ततो च निम्मानरतिं, वसवत्तिपुरं ततो.

‘‘यत्थ यत्थूपपज्जामि, तस्स कम्मस्स वाहसा;

तत्थ तत्थेव राजूनं, महेसित्तमकारयिं.

‘‘ततो चुता मनुस्सत्ते, राजूनं चक्कवत्तिनं;

मण्डलीनञ्च राजूनं, महेसित्तमकारयिं.

‘‘सम्पत्तिं अनुभोत्वान, देवेसु मनुजेसु च;

सब्बत्थ सुखिता हुत्वा, नेककप्पेसु संसरिं.

‘‘एकनवुतितो कप्पे, विपस्सी लोकनायको;

उप्पज्जि चारुदस्सनो, सब्बधम्मविपस्सको.

‘‘तमहं लोकनायकं, उपेत्वा नरसारथिं;

धम्मं भणितं सुत्वान, पब्बजिं अनगारियं.

‘‘दसवस्ससहस्सानि, तस्स वीरस्स सासने;

ब्रह्मचरियं चरित्वान, युत्तयोगा बहुस्सुता.

‘‘पच्चयाकारकुसला, चतुसच्चविसारदा;

निपुणा चित्तकथिका, सत्थुसासनकारिका.

‘‘ततो चुताहं तुसितं, उपपन्ना यसस्सिनी;

अभिभोमि तहिं अञ्ञे, ब्रह्मचारीफलेनहं.

‘‘यत्थ यत्थूपपन्नाहं, महाभोगा महद्धना;

मेधाविनी सीलवती, विनीतपरिसापि च.

‘‘भवामि तेन कम्मेन, योगेन जिनसासने;

सब्बा सम्पत्तियो मय्हं, सुलभा मनसो पिया.

‘‘योपि मे भवते भत्ता, यत्थ यत्थ गतायपि;

विमानेति न मं कोचि, पटिपत्तिबलेन मे.

‘‘इमम्हि भद्दके कप्पे, ब्रह्मबन्धु महायसो;

नामेन कोणागमनो, उप्पज्जि वदतं वरो.

‘‘तदा हि बाराणसियं, सुसमिद्धकुलप्पजा;

धनञ्जानी सुमेधा च, अहम्पि च तयो जना.

‘‘सङ्घाराममदासिम्ह, दानसहायिका पुरे;

सङ्घस्स च विहारम्पि, उद्दिस्स कारिका मयं.

‘‘ततो चुता मयं सब्बा, तावतिंसूपगा अहुं;

यससा अग्गतं पत्ता, मनुस्सेसु तथेव च.

‘‘इमस्मिंयेव कप्पम्हि, ब्रह्मबन्धु महायसो;

कस्सपो नाम गोत्तेन, उप्पज्जि वदतं वरो.

‘‘उपट्ठाको महेसिस्स, तदा आसि नरिस्सरो;

कासिराजा किकी नाम, बाराणसिपुरुत्तमे.

‘‘तस्सासिं जेट्ठिका धीता, समणी इति विस्सुता;

धम्मं सुत्वा जिनग्गस्स, पब्बज्जं समरोचयिं.

‘‘अनुजानि न नो तातो, अगारेव तदा मयं;

वीसवस्ससहस्सानि, विचरिम्ह अतन्दिता.

‘‘कोमारिब्रह्मचरियं, राजकञ्ञा सुखेधिता;

बुद्धोपट्ठाननिरता, मुदिता सत्त धीतरो.

‘‘समणी समणगुत्ता च, भिक्खुनी भिक्खुदायिका;

धम्मा चेव सुधम्मा च, सत्तमी सङ्घदायिका.

‘‘अहं उप्पलवण्णा च, पटाचारा च कुण्डला;

किसागोतमी धम्मदिन्ना, विसाखा होति सत्तमी.

‘‘कदाचि सो नरादिच्चो, धम्मं देसेसि अब्भुतं;

महानिदानसुत्तन्तं, सुत्वा तं परियापुणिं.

‘‘तेहि कम्मेहि सुकतेहि, चेतनापणिधीहि च;

जहित्वा मानुसं देहं, तावतिंसमगच्छहं.

‘‘पच्छिमे च भवे दानि, साकलाय पुरुत्तमे;

रञ्ञो मद्दस्स धीताम्हि, मनापा दयिता पिया.

‘‘सह मे जातमत्तम्हि, खेमं तम्हि पुरे अहु;

ततो खेमाति नामं मे, गुणतो उपपज्जथ.

‘‘यदाहं योब्बनं पत्ता, रूपलावञ्ञभूसिता;

तदा अदासि मं तातो, बिम्बिसारस्स राजिनो.

‘‘तस्साहं सुप्पिया आसिं, रूपकेलायने रता;

रूपानं दोसवादीति, न उपेसिं महादयं.

‘‘बिम्बिसारो तदा राजा, ममानुग्गहबुद्धिया;

वण्णयित्वा वेळुवनं, गायके गापयी ममं.

‘‘रम्मं वेळुवनं येन, न दिट्ठं सुगतालयं;

न तेन नन्दनं दिट्ठं, इति मञ्ञामसे मयं.

‘‘येन वेळुवनं दिट्ठं, नरनन्दननन्दनं;

सुदिट्ठं नन्दनं तेन, अमरिन्दसुनन्दनं.

‘‘विहाय नन्दनं देवा, ओतरित्वा महीतलं;

रम्मं वेळुवनं दिस्वा, न तप्पन्ति सुविम्हिता.

‘‘राजपुञ्ञेन निब्बत्तं, बुद्धपुञ्ञेन भूसितं;

को वत्ता तस्स निस्सेसं, वनस्स गुणसञ्चयं.

‘‘तं सुत्वा वनसमिद्धं, मम सोतमनोहरं;

दट्ठुकामा तमुय्यानं, रञ्ञो आरोचयिं तदा.

‘‘महता परिवारेन, तदा च सो महीपति;

मं पेसेसि तमुय्यानं, दस्सनाय समुस्सुकं.

‘‘गच्छ पस्स महाभोगे, वनं नेत्तरसायनं;

यं सदा भाति सिरिया, सुगताभानुरञ्जितं.

‘‘यदा च पिण्डाय मुनि, गिरिब्बजपुरुत्तमं;

पविट्ठोहं तदायेव, वनं दट्ठुमुपागमिं.

‘‘तदा तं फुल्लविपिनं, नानाभमरकूजितं;

कोकिलागीतसहितं, मयूरगणनच्चितं.

‘‘अप्पसद्दमनाकिण्णं, नानाचङ्कमभूसितं;

कुटिमण्डपसंकिण्णं, योगीवरविराजितं.

‘‘विचरन्ती अमञ्ञिस्सं, सफलं नयनं मम;

तत्थापि तरुणं भिक्खुं, युत्तं दिस्वा विचिन्तयिं.

‘‘ईदिसे विपिने रम्मे, ठितोयं नवयोब्बने;

वसन्तमिव कन्तेन, रूपेन च समन्वितो.

‘‘निसिन्नो रुक्खमूलम्हि, मुण्डो सङ्घाटिपारुतो;

झायते वतयं भिक्खु, हित्वा विसयजं रतिं.

‘‘ननु नाम गहट्ठेन, कामं भुत्वा यथासुखं;

पच्छा जिण्णेन धम्मोयं, चरितब्बो सुभद्दको.

‘‘सुञ्ञकन्ति विदित्वान, गन्धगेहं जिनालयं;

उपेत्वा जिनमद्दक्खं, उदयन्तं व भाकरं.

‘‘एककं सुखमासीनं, बीजमानं वरित्थिया;

दिस्वानेवं विचिन्तेसिं, नायं लूखो नरासभो.

‘‘सा कञ्ञा कनकाभासा, पदुमाननलोचना;

बिम्बोट्ठी कुन्ददसना, मनोनेत्तरसायना.

‘‘हेमदोलाभसवना, कलिकाकारसुत्थनी;

वेदिमज्झाव सुस्सोणी, रम्भोरु चारुभूसना.

‘‘रत्तंसकुपसंब्याना, नीलमट्ठनिवासना;

अतप्पनेय्यरूपेन, हासभावसमन्विता.

‘‘दिस्वा तमेवं चिन्तेसिं, अहोयमभिरूपिनी;

न मयानेन नेत्तेन, दिट्ठपुब्बा कुदाचनं.

‘‘ततो जराभिभूता सा, विवण्णा विकतानना;

भिन्नदन्ता सेतसिरा, सलाला वदनासुचि.

‘‘संखित्तकण्णा सेतक्खी, लम्बासुभपयोधरा;

वलिविततसब्बङ्गी, सिराविततदेहिनी.

‘‘नतङ्गा दण्डदुतिया, उप्फासुलिकता किसा;

पवेधमाना पतिता, निस्ससन्ती मुहुं मुहुं.

‘‘ततो मे आसि संवेगो, अब्भुतो लोमहंसनो;

धिरत्थु रूपं असुचिं, रमन्ते यत्थ बालिसा.

‘‘तदा महाकारुणिको, दिस्वा संविग्गमानसं;

उदग्गचित्तो सुगतो, इमा गाथा अभासथ.

‘‘आतुरं असुचिं पूतिं, पस्स खेमे समुस्सयं;

उग्घरन्तं पग्घरन्तं, बालानं अभिनन्दितं.

‘‘असुभाय चित्तं भावेहि, एकग्गं सुसमाहितं;

सति कायगता त्यत्थु, निब्बिदा बहुला भव.

‘‘यथा इदं तथा एतं, यथा एतं तथा इदं;

अज्झत्तञ्च बहिद्धा च, काये छन्दं विराजय.

‘‘अनिमित्तञ्च भावेहि, मानानुसयमुज्जह;

ततो मानाभिसमया, उपसन्ता चरिस्ससि.

‘‘ये रागरत्तानुपतन्ति सोतं, सयं कतं मक्कटकोव जालं;

एतम्पि छेत्वान परिब्बजन्ति, अनपेक्खिनो कामसुखं पहाय.

‘‘ततो कल्लितचित्तं मं, ञत्वान नरसारथि;

महानिदानं देसेसि, सुत्तन्तं विनयाय मे.

‘‘सुत्वा सुत्तन्तसेट्ठं तं, पुब्बसञ्ञमनुस्सरिं;